अष्टवर्गः (aSTavargaH)
Apte Hindi Hindi
अष्टवर्गः
अष्टन्-वर्गः -
एक प्रकार का रेखाचित्र जो किसी विशेष समय पर ग्रहों की स्थिति दर्शाता है।
E Bharati Sampat Sanskrit
(पुं) अष्टानाम् औषधिविशेषाणां रविप्रभृतीनां वा वर्गः । १. औषधिविशेषाष्टकम् । "जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके । अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” - भावप्रकाशः । २. ज्योतिषोक्तः रेखाविशेषेण शुभाशुभसूचकः चक्रभेदः । ३. वर्णानाम् अष्टौ वर्गाः । अकचटतपयशवर्गः । क्रमेण १५.५.५.५.५.५.४४ वर्णाः ।
Wordnet Sanskrit
अष्टवर्गः
अष्टौषधीनां समूहः।
"जीवकम् ऋषभकं मेदा महामेदा काकोली क्षीरकोकोली ऋद्धिः तथा च वृद्धिः इति अष्टवर्गः।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः Sanskrit
अष्टवर्गः, (अष्टानां औषधविशेषानां रविप्रभृ-तीनां वा वर्गः ।) औषधविशेषाष्टकं । तद्यथा ।ऋषभः १ जीवकः २ मेदः ३ महामेदः ४ ऋद्धिः५ वृद्धिः ६ काकोली ७ क्षीरकाकोली ८ । इतिवैद्यकपरिभाषा । एकीकृतैतदौषधगुणाः । रक्त-पित्तव्रणवायुपित्तनाशित्वं । इति राजवल्लभः ॥
(“जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके ।अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणो शुक्रलो गुरुः ।भग्नसन्धानकृत् कामबलासबलवर्द्धनः ॥
वातपित्तास्रतृट्दाहज्वरमेहक्षयप्रणुत्” ।इति भावप्रकाशः ॥
)ज्योतिषशास्त्रोक्तगोचरविशेषः । तद्यथा । आदौरव्यादिसप्तग्रहाणां राहोश्च अष्टमासकोष्ठं कृत्वाप्रत्येकमासकोष्ठे जन्मकालीनग्रहाधिष्ठितराश्य-वधिस्वाद्दिनकृच्छुभद इत्यादि दीपिकोक्तवच-नाङ्कसंख्यकगृहे रेखां विन्यसेत् तत्र रवेर्द्वादश-कोष्ठे ४८ चन्द्रस्य ४९ कुजस्य ३९ बुधस्य ५५गुरोः ५६ भृगोः ५२ शनेः ३९ राहोः ३९एतत्संख्यका रेखा देयाः । ततः प्रत्येकगृहस्थरेखाःद्विगुणीकृत्य अष्टाधिकाश्चेत् अष्टभिः शोध-येत् । शेषा रेखाः शुभाः ख्याताः । अष्टोना-श्चेत्तदा विन्दुभिरष्टानां पूरणं कार्य्यं । तत्र विन्द-वोऽशुभाः ख्याताः । अष्टौ चेत् तदा विन्दुरे-खयोरभावस्तत्र समं परिकीर्त्तितं ॥
तस्यनामगुणाः ।“जीवकर्षभकौ मेदे काकोल्यौ वृद्धिऋद्धिके ।अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणः शुक्रलो गुरुः ।भग्नसन्धानकृत् बल्यः शरीरबलवर्द्धनः ॥
वातपित्तास्रतृट्दहज्वरमेहक्षयप्रणुत्” ।इति भावप्रकाशः ॥
* । ज्योतिःशास्त्रोक्तगणनयारेखाविन्दुभ्यां शुभाशुभफलसूचकजन्मकालीनाष्ट-ग्रहसमुदायः । यथा । अथाष्टवर्गः ।“जन्मकालग्रहस्थित्या फलं वक्ष्ये शुभाशुभं” ।स्वाद्दिनकृत् शुभदः क्षितिपक्षसमुद्रनगादिक-पञ्चगतो १ । २ । ४ । ७ । ८ । ९ । १० । ११ ।ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेषगतो ३ । ६ । १० ।११ । ऽथ कुजाद्रविवत् १ । २ । ४ । ७ । ८ । ९ ।१० । ११ । अथ सोमसुतात्रिशरर्त्तुनवादिषुयातः । ३ । ५ । ६ । ९ । १० । ११ । १२ । देव-गुरोर्विषयर्त्तुनवेशगतो ५ । ६ । ९ । ११ । ऽथसुरारिगुरोः समयाचलभास्करयातः । ६ । ७ ।१२ । तीक्ष्णमरीचिसुतादपि भास्करवत् । १ ।२ । ४ । ७ । ८ । ९ । १० । ११ । अथ लग्नगृहात्त्रिकृताङ्गदशादिषु यातः ३ । ४ । ६ । १० । ११ ।१२ । रविरेखाः । ४८ । भूजङ्गविलासाभिधान-मालादण्डकेनादित्याष्टवर्गः ॥
* ॥
चन्द्रः शुभो-ऽर्कात्रिकालाद्रिदन्ताबलाशशिवस्थ । ३ । ६ । ७ ।८ । १० । ११ । स्ततः स्वात् कुरामर्त्त्वगाशा-शिवस्थः । १ । ३ । ६ । ७ । १० । ११ । क्ष्माजा-द्द्विवह्नीषुषड्गोदिगीशेष्व । २ । ३ । ५ । ६ । ९ ।१० । ११ । थ ज्ञात् कुरामाब्धिबाणागदन्ता-बलाशाशिवस्थः १ । ३ । ४ । ५ । ७ । ८ । १० ।११ । जीवात् कुदृग्वेदशैलेभकाष्ठाशिवस्थो १ ।२ । ४ । ७ । ८ । १० । ११ । ऽथ शुक्रात्रिवेदेषु-शैलग्रहाशाशिवस्थः ३ । ४ । ५ । ७ । ९ । १० । ११ ।तीक्ष्णांशुदेहोद्भवाद्रामबाणर्त्तुशम्भुस्थितो ३ । ५ ।६ । ११ । ऽथोदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः । ३ ।६ । १० । ११ । चन्द्ररेखाः । ४९ । कामबाणाभि-धानमालादण्डकेन चन्द्राष्टवर्गः ॥
* ॥
कुत्रोऽर्का-च्छुभो वह्निबाणर्त्तुदिक्शम्भुगो ३ । ५ । ६ । १० ।११ । ऽथेन्दुतो रामकालेशग ३ । ६ । ११ । स्ततःस्वात कुदृग्वेदसप्ताष्टदिक्शम्भुगः स्यात् १ । २ ।४ । ७ । ८ । १० । ११ । निशानाथपुत्त्राद्गुणेष्वङ्ग-रुद्रोपयातः । ३ । ५ । ६ । ११ । ततो जीवतःकालकाष्ठाशिवार्कोपयातो ६ । १० । ११ । १२ ।ऽथ देवारिपूज्यादनेहो गजेशार्कसंस्थः । ६ । ८ ।११ । १२ । ततः सूर्य्यपुत्त्रात् कुवेदागनागग्रहा-शाशिवस्थो १ । ४ । ७ । ८ । ९ । १० । ११ ।ऽथ लग्नात् कुरामाङ्गदिकशम्भुयातः । १ । ३ ।६ । १० । ११ । कुजरेखाः ३९ । सिंहविलासा-भिधानमालादण्डकेन भौमाष्टवर्गः ॥
* ॥
ज्ञः शुभो-ऽर्कतः शरर्त्तुगोशिवार्कगो ५ । ६ । ९ । ११ ।१२ । ऽथ चन्द्रतो द्विवेदकालनागदिङ्महेश्वरेषु ।२ । ४ । ६ । ८ । १० । ११ । भूमिजात् कुदृक्-कृतागनागगोदशेशगः । १ । २ । ४ । ७ । ८ ।९ । १० । ११ । ततः स्वतः कुवह्निपञ्चषण्णवादि-केषु । १ । ३ । ५ । ६ । ९ । १० । ११ । १२ ।वाक्पतेरसाष्टशम्भुसूर्य्यगो ६ । ८ । ११ । १२ ।ऽथ शुक्रतः कुबाहुवह्निवेदपञ्चनागगोशिवेषु । १ ।२ । ३ । ४ । ५ । ८ । ९ । ११ पङ्गुतः कुदृक्कृताग-नागपञ्चकस्थितो ऽथ । १ । २ । ४ । ७ । ८ । ९ ।१० । ११ । १२ । लग्नतः क्षितिद्विवेदकालनाग-दिक्शिवेषु । १ । २ । ४ । ६ । ८ । १० । ११ ।बुधरेखाः । ५५ । अशोकमञ्जरीसंज्ञकमाला-दण्डकेन बुधाष्टवर्गः ॥
* ॥
सुरराजगुरुः शुभदोरवितः कुयमानलवेदनगादिकपञ्चगतो १ । २ ।३ । ४ । ७ । ८ । ९ । १० । ११ । ऽथ विधोर्द्वि-शराचलगोशिवगो २ । ५ । ७ । ९ । ११ । वसु-धातनयात् कुयमाब्धिनगाष्टदशेशगतो १ । २ ।४ । ७ । ८ । १० । ११ । ऽथ बुधात् क्षितियुग्म-कृतेषुरसग्रहदिक्गिरिशोपगत १ । २ । ४ ।५ । ६ । ९ । १० । ११ । स्तदनु स्वत एकयमानल-वारिधिपर्ब्बतनागदशेशगतो १ । २ । ३ । ४ ।७ । ८ । १० । ११ । ऽथ सिताद्यमपञ्चरसग्रहदि-शिवगो २ । ५ । ६ । ९ । १० । ११ । रविनन्द-नतो दहनेषुरसार्कगत ३ । ५ । ६ । १२ । स्त्वथलग्नगृहात् कुयमाब्धिशरर्त्तुनगग्रहदिग्गिरिशोप-गतः १ । २ । ४ । ५ । ६ । ७ । ९ । १० । ११ ।गुरुरेखाः ५६ । कुसुमस्तवकाभिधानमालादण्डकेनवृहस्पतेरष्टवर्गः ॥
* ॥
भृगुः शुभो रवेर्गजेश-सूर्य्यगो । ८ । ११ । १२ । ऽथ चन्द्रतः क्ष्मादिपञ्च-काष्टगोशिवार्कगः । १ । २ । ३ । ४ । ५ । ८ ।९ । ११ । १२ । कुजात् त्रिवेदकालगोशिवार्कगो३ । ४ । ६ । ९ । ११ । १२ । ऽथ बोधनात् त्रि-बाणकालरन्ध्ररुद्रसंस्थितः । ३ । ५ । ६ । ९ । ११ ।गुरोः शराष्टरन्धदिङ्महेशग । ५ । ८ । ९ । १० ।११ । स्ततः स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः१ । ५ । ८ । ९ । १० । ११ । शनेर्गुणाब्धिपञ्चना-गगोदशेशगो । ३ । ४ । ५ । ८ । ९ । १० । ११ । ऽथलग्नतः कुपञ्चकाष्टगोशिवस्थितः । १ । २ । ३ ।४ । ५ । ८ । ९ । ११ । शुक्ररेखाः । ५२ । अनङ्ग-शेखराभिधानमालादण्डकेन भार्गवाष्टवर्गः ॥
* ॥
शुभः पङ्गुरर्कात् क्ष्मायमाम्भोधिशैलाष्टदिक्श-म्भुग । १ । २ । ४ । ७ । ८ । १० । ११ । इन्दुतोरामकालेशगतः । ३ । ६ । ११ । क्ष्मासुताद्वह्नि-बाणर्त्तुकाष्ठाशिवार्कोपगो । ३ । ५ । ६ । १० ।११ । १२ । ऽथ ज्ञतः कालदन्तावलादिस्थितो । ६ ।८ । ९ । १० । ११ । १२ । जीवतो बाणकालेश-मार्त्तण्डयात । ५ । ६ । ११ । १२ । स्ततो दैत्य-पूज्यादनेहःशिवार्कोपयातः । ६ । ११ । १२ । स्वतोवीतिहोत्रेषु कालेशयात । ३ । ५ । ६ । ११ ।स्ततो लग्नतः क्ष्मागुणाम्भोधिषड्दिङ्महेशस्थितः ।१ । ३ । ४ । ६ । १० । ११ । शनिरेखाः ३९ ।मत्तमातङ्गलीलाभिधानदण्डकेन शनैश्चराष्टवर्गः ।इति दीपिका ॥
* ॥
राहुः शुभोऽर्काद्भुजवह्नि-वेदर्त्तुरन्ध्रगो । २ । ३ । ४ । ६ । ९ । अथ चन्द्रात्कुरामवेदाङ्गग । १ । ३ । ४ । ६ । स्ततः कुजा-द्वह्निबाणाङ्गरन्ध्रगतो । ३ । ५ । ६ । ९ । ऽथबुधाच्छशिपक्षवह्निबाणरन्ध्रग । १ । २ । ३ । ५ ।९ । स्ततो जीवाद्धव्यवाहवेदाङ्गरन्ध्रग । ३ । ४ ।६ । ९ । स्ततः शुक्रात् पक्षवह्निबाणरन्ध्रगत ।२ । ३ । ५ । ९ । स्ततः सौरात् पक्षबाणर्त्तुग । २ ।५ । ६ । स्ततः स्वतः शशिवेदबाणरिपुरन्ध्रगो ।१ । ४ । ५ । ६ । ९ । ऽथ लग्नाद्वेदरग्ध्र-दिग्रुद्रसूर्य्यगतः । ४ । ९ । १० । ११ । १२ ।राहुरेखाः । ३९ । मृगेन्द्रविलासाभिधानदण्डकेनराहोरष्टवर्गः ॥
* ॥
सूर्य्यादेकद्विचतुःसप्ताष्ट-दशैकादशेषु । १ । २ । ४ । ७ । ८ । १० । ११ ।सोमात्त्रिषड्दशैकादशेष । ३ । ६ । १० । ११ ।भौमात्त्रिपञ्चषडेकादशेषु । ३ । ५ । ६ । ११ ।बुधात् षडष्टनवदशैकादशेषु । ६ । ८ । ९ । १० ।११ । गुरोः पञ्चषडेकादशद्वादशेषु । ५ । ६ ।११ । १२ । शुक्रात् षडेकादशद्वादशेषु ६ । ११ ।१२ । शनेस्त्रिपञ्चाष्टदशैकादशेषु । ३ । ५ । ८ ।१० । ११ । लग्नादेकत्रिचतुःषड्दशकादशेषु । १ ।३ । ४ । ६ । ११ । एवं लग्नरेखाः ३७ ॥
* ॥
“इति निगदितमिष्टं नेष्टमन्यद्विशेषा-दधिकफलविपाकं जन्मंभात्तत्र दद्युः ।उपचयगृहमित्रस्वोच्चगाः पुष्टमिष्टंत्वपचयगृहनीचारातिभे नेष्टसम्पत् ॥
यावती यावती रेखा ग्रहाणामष्टवर्गके ।तावतीं द्विगुणीकृत्य अष्टाभिः परिशोधयेत् ॥
अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरविन्दवः ।अष्टाभिस्तु समो यत्र तत् समं परिकीर्त्तितम् ॥
रेखा ग्रहाच्छुभे देया विन्दवश्चेतरत्र तु ।रेखाविन्दू समानौ चेत् समस्तत्र निगद्यते ॥
रेखाधिक्ये शुभं ज्ञेयं तद्वद्विन्दोरथाशुभम् ।श्रीरानन्दस्तथा श्रेयो भोगो राज्यं भवेत्तथा ॥
मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा ।द्व्यादिरेखा द्व्यादिविन्दोः फलान्येतान्यनुक्रमात् ॥
रेखायां वत्सरो ज्ञेयः सार्द्धसप्तदिनं समे ।अष्टवर्गदशायुः स्यात् दिनं चतुर्षु विन्दुषु” ॥
इत्यायुर्द्दायः । इत्यष्टवर्गः ॥
* ॥
नन्दी ।“अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः ।गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ च वेधगैः ॥
व्रतारम्भे विवाहे च यात्रायां क्षुरकर्म्मणि ।अविशुद्धाष्टवर्गस्य समस्ता निष्फलाः क्रियाः ॥
“सततं दिशति नराणांराशौ मध्येऽष्टवर्गफलं निखिलं ।भावफलं प्रथमार्द्धेदृष्टिफलान्यर्द्धभुक्तेषु” ॥
इत्यष्टवर्गार्थकथनम् । इति ज्योतिस्तत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.