| YouTube Channel

क्रियापाद (kriyApAda)

 
शब्दसागरः  
क्रियापाद m. (-दः) The third division of a suit at law, the proof or re-
joinder of the plaintiff.
E. क्रिया an affair, and पाद a fourth part.
Yates  
क्रिया-पाद (दः) 1.
m. The third di-
vision of a suit at law, the proof
or rejoinder of the plaintiff.
Wilson  
क्रियापाद
m. (-दः) The third division of a suit at law, the proof or
rejoinder of the plaintiff.
E. क्रिवा an affair, and पाद a fourth part.
Monier Williams Cologne  
क्रिया-पाद m. the third division of a suit at law (witnesses, written documents, and other proofs adduced by the complainants, rejoinder of the plaintiff).
Apte Hindi  
क्रियापादः
पुं* क्रिया-पादः -
"अभियोक्ता या वादी के द्वारा अपने दावे की पुष्टि में दिए गये प्रमाण, दस्तावेज तथा गवाहियाँ आदि जो कानूनी अभियोग का तीसरा अंग है"
Shabdartha Kaustubha  
क्रियापाद

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾಲ್ಕು ಭಾಗಗಳುಳ್ಳ ವ್ಯವಹಾರದಲ್ಲಿ ಮೂರನೆಯದು
विस्तारः - > पूर्वपक्षः, उत्तरपक्षः, क्रियापादः, निर्णयः - एते विवादस्य चत्वारः पादाः ।
L R Vaidya  
kriyA-pAda {% m. %} the third division of a suit at law comprising witnesses, documents, and other proof advanced by the plaintiff or complainant.
Aufrecht Catalogus Catalogorum  
क्रियापाद a part of some work by Kamalākara. Ben. 147.
शब्दकल्पद्रुमः  
क्रियापादः, पुं, (क्रिया विवादसाधनं पाद इव ।)चतुष्पादव्यवहारान्तर्गततृतीयपादः । यथा, --“पूर्व्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः ।क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः” ॥
इति वृहस्पतिः ॥
स च साक्ष्यलिखितभुक्तियुक्ति-शपथरूपः । इति व्यवहारतत्त्वम् ॥
वाचस्पत्यम्  
क्रियापाद पु० क्रिया विवादसाधनं पादैव । चतुष्पादव्यव-हारे साध्यार्थसाधनरूपे तृतीये पादे । १ पूर्व्वपक्षः स्मृतःपादोद्वितीयोश्चोत्तरः स्मृतः । ३ क्रियापादस्तथान्यश्चतृतीयो ४ निर्ण्णयस्ततः” वृह० । तस्य व्यवहारपादत्वंतद्विशेषादि वीरमित्रोदये निर्ण्णीतं यथा“अथ क्रियापादः । तत्र तदुपयोगिप्रत्याकलितं प्रथमंनिरूप्यते । विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युपगमेऽपि क्रियादानोपयोगित्वाभ्युपगमात् । अन्यैस्तुव्यवहारपादत्वस्यैव खीकारात् क्रियापादप्रागभावस्तू-भयसम्मतः । प्रत्याकलितन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यांलिखितयोः क्रियोपन्यसनमनयोर्मध्ये कस्य स्यात्का चा-स्मिन् वादे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिःससभ्यप्राड्विवाकस्य सभापतेः सभ्यस्य प्राड्विवाकस्यवा परामर्श उच्यते । तथा च वृहस्पतिः “ये तु तिष्ठन्तिकरणे तेषां सभ्यैर्विभावना । कलयित्वोत्तरं सभ्यैर्द्दात-व्यैकस्य वादिनः” । करणे धर्माधिकरणे ये तिष्ठन्तिवादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेदं कल-यित्वा विचार्य्य एतदुत्तरे कस्य क्रियोपन्यास उचितइति निर्धार्य्य विभाव्यते साध्यमनयेति विभाबनाक्रियाप्रमाणमिति यावत् । एकस्य वादिनोऽर्थिप्रत्यर्थ्य-न्यतरस्य सभ्यैर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्ये-त्यर्थः । कात्यायनोऽपि “लिखिते शोधिते सम्यक् सतिनिर्दोष उत्तरे । अर्थिप्रत्यर्थिनोर्वापि क्रियाकरणमिष्यते” ।क्रियाकरणं क्रियोपन्यासः । पृनर्वृक्षस्पतिः “श्रुत्वापूर्वोत्तरं सभ्यैर्निर्द्दिष्टा यस्य भावना । विभावयेत् प्रतिज्ञातंसोऽखिलं लिखितादिना” । विभाव्यते साध्यते साध्यमन-येति विभावना क्रियैव । पूर्वोत्तरं पूर्वपक्षमुत्तरञ्चेत्यर्थः ।द्वन्द्वैकबद्भावः । निर्दिष्टा ब्रूहीत्युपदिष्टा । कस्मिन्नुत्तरेकस्य क्रिया क्रियारहिंतञ्च किमुत्तरमित्यपेक्षयामाहव्यासः “प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्द्दिशेत् क्रि-याम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्” ।प्राङ्ग्यायकारणोत्तरयोः प्राङ्ग्याये कारणे च साधिते-ऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्व्यर्थं साधनंग्रयर्थिनाऽव्य पगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुप-न्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्तत्साधनायो-चितः । अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरषितेनैव निर्णयात् । मिथ्योत्तरे तु वादिनः प्रमाणमपेक्ष्यंयदि प्रतिज्ञातेऽर्थे प्रमाणाभाव एव प्रत्यर्थ्यभिमतोऽर्थि-प्रतिज्ञातसाध्यहैत्वभावः सिध्यतीति तत्परिहाराय भावा-भावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया ।सम्प्रतिपत्तौ तु नैकस्यापि साध्यमस्तीति निरर्थकत्वात्क्रियैव नास्तीत्यर्थः । वृहस्पतिः “प्रतिज्ञाम्भावयेद्वादीप्रत्यर्थी कारणन्तथा । प्राग्वृत्तं वादविजयं जयपत्रेणभावयेत्” प्रतिज्ञाम्प्रतिज्ञातार्थम् । इदञ्च परिशेषा-न्मिथ्योत्तरविषयम् । प्राग्वृत्तं प्राङ्ग्यायं जयपत्रे-णेति प्राङ्ग्यायदर्शि भृत्योपलक्षणम् । मनुः “अपह्नवेऽ-घमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देशंकारणं वान्यदुद्दिशेत्” । दिशति कथयति यथादृष्टमर्थमितिदेश साक्षी । मेधातिथिस्तु ऋणादिप्रयोगदेशवर्त्तिनःसाक्षिणो देशशब्देन लक्ष्यन्व इत्याह । अन्यत्कारणंप्रमाणं साक्षिभिन्नं लेख्यादि । मेधातिधिना तु “करणंवा समुद्दिशेदिति” पठित्वा करणशब्दः प्रमाणसामान्य-वाचकोऽपि गावलोवर्दन्यायेन साक्षिभिन्नकरणमाचष्टेपृथगुपादानात् । कारणं वा समुद्दिशेदिति पाठेऽप्यय-मेवार्थः” इत्युक्तम् ॥
यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्-स्नपक्षव्यापिता । यथा कश्चिच्छृङ्गग्राहिकया कञ्चिद-भियुक्ते मदीयेयङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टायतः । तत्राभियुक्त उत्तरयति मिथ्यैतत् । एतत्प्रदर्शि-तनाशकालात प्रागेवास्या मद्गृहेऽवस्थितत्वादिति । इद-न्तावत्पक्षपतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम् । कारणो-पन्यासान्न शुद्धं मिथ्योत्तरम् । एकदेशाभ्युपगमाभावाच्चा-र्थिना लिखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणंनास्कन्दति । साध्यभेदाय प्रतिज्ञाभेदापादकत्वाभावाच्च नपक्षैकदेरम् यत्सत्यमित्युत्तरं युगपद्व्यवहारासम्भवकृतंयुगपदनुत्तरम् । तस्मात्सकारणं मिथ्योत्तरमेवेदम् अन्य-तरसाधनेनापि विवादपर्यवसानात् । अत्र “मिथ्याक्रिया-पूर्ववादे” इति वचनात् “कारणे प्रतिवादिनीति” वचनाच्चान्य-तरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि, तथापिमिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात्“कारणे प्रतिवादिनीति” वचनात् प्रतिवादिन एवात्रक्रिया । नचास्यापि शुद्धप्रत्यवस्कन्दनविषयत्वादेतद्विषयु-त्वाऽभावप्रसङ्गेन न कस्यापि क्रिया प्राप्नोतीतिनिर्णय-मतिबन्ध एषेति वाच्यम् । यतः प्रसिद्धप्रत्यवस्कन्दनेऽपिग्रहणाद्यभ्युपगमेन प्रतिद नादिकारणोत्तरतैवास्यासम्भा-बिनीति वाच्यम् एकदेशाभ्युपगमस्य प्रायिकत्वात् । कारणोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भा-वात् । एवं च कृत्स्नपक्षव्यापि सप्राङ्ग्यायं मिथ्योत्तर-मपि द्रष्टव्यम् । यथा प्राक्तनाभियोग एव । यद्येवंप्रतिपदति मिथ्यैतत् । यतः प्रागयमस्मिन्नभियोगे मयाव्यवहारमार्गेण पराजित इति । अत्रापि प्राङ्ग्याय-कारणोक्त्रौ” इत्यादिप्राक् प्रदर्शितवचनात् प्रत्यर्थिन एवक्रियोपन्यासः । प्राङ्ग्यायसिद्धौ प्रतिज्ञायाः प्रकटमेवमिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्ग्यायविषयत्वासम्भवा-देतादृशप्राङ्ग्यायविषयताया अप्यवर्जनीयत्वात् । पक्ष-प्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात् । यत्र तुक्वारणप्राङ्ग्याययोः कृत्स्नपक्षव्यापितयैकोत्तरत्वन्तत्रपत्यर्थिना प्राङ्ग्याय एव साधनीयः । कारणसाधनस्यतदन्तर्भूतत्वात् । यथा रूपकशतमनेन मामकं गृहीत-मित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदा-नीमस्मै न धारयामि । अस्मिन्नेवार्थे प्रागमुनाहमभि-युक्तश्चतुष्पाद्ध्यवहाररीत्यामुम्पराजितवानिति । इदानींहीनपरिज्ञानोपायः तत्र मनुः । “बाह्यैर्विभावयेल्लिङ्गै-र्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टि-तेन ह” । स्वरो विकृतो गद्गदत्वादिः । वर्णोऽप्यस्वाभा-विकः कृष्णत्वादिः । इङ्गितं स्वेदवेपथुरोमाञ्चादि ।आकारो विकृतो भ्रुवः क्रियादिः । चक्षुः कातरम् ।त्वेष्टितं वृथास्थानात् स्थानान्तरगमनादि । याज्ञवल्क्यः“देशाद्देशान्तरं याति सृक्वणी परिलेढि च । ललाटंस्विद्यते चास्य मुखं वैबर्ण्यमेति च । परिशुष्यत्स्खल-द्वाक्यो विरुद्धम्बहु भाषते । वाक्चक्षुः पूजयति नोतयोष्ठौ निर्भुजत्यपि । स्वभावाद्विकृतिं गच्छेन्मनो वाक्कायक-र्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्त्तितः ।”मनोवाक्कायकर्मभिर्य्यः स्वभावाद्विकृतिङ्गच्छेत् न भयादिनिमित्तमसावभियोगे साक्ष्ये वा दुष्टः परिकीर्त्तितः ।मन आदि विकृतीरेव विविच्य दर्शयति । देशान्तरं यातिनचैकत्रावतिष्ठते । सृक्वणी ओष्ठप्रान्तौ परिलेढि जिह्वयापुनः पुनः परिघटयतीति । कर्मणो विकृतिः । अस्यललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति । सुखं वैवर्ण्यंवर्णान्यत्वं पाण्डुत्वकृष्णत्वादि एनि प्राप्नोतीति कायस्य ।परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्त-पदवर्णं वाक्यं यस्य सः । बहु अनुपयुक्तं विरुद्धंपूर्वापरविरोधवद्भाषते । परोक्तां वाचम्प्रतिवचनदानेन, इति बाचः । चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति ना-भिनन्दतीति चक्षुषः । मनोविकृतेर्ल्लिङ्गम्परकीयमनोवि-कृतेरप्रत्यक्षत्वात् । तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधोभावेन चालयतीति कायस्यैव विकृतिः । मनुरेव “आ-कारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविका-रैश्च ज्ञायतेऽन्तर्गतं मनः” कात्यायनः “आकारेङ्गित-चेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनःसोऽनुमानेन लक्ष्यते । कम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशो-षाभिमर्षणम् । भूलेखनं स्थानहानिस्तिर्य्यगूर्द्ध्वनिरीक्ष-णम् । स्वरभेदश्च दुष्टस्य चिह्नप्राहुर्मनीषिणः” । प्रति-वादिशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम् ।अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहनं द्वन्द्वैकवद्भावः । श्री-रामायणे “आकारं छाद्यमानोऽपि न शक्यो विनि-गूहितुम् । बलाद्धि विवृणोत्येष भावमन्तर्गतं नृणाम्” ।अनेन च पराजसम्भावनामात्रम्प्रतिपाद्यते तस्य चफलं क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशे-षविचारः । नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा, नैसर्मिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्यत्वात् ।यद्यपि कोऽपि निपुणतममतिर्विवेक्तुं शक्नुयात् तथापिन पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यंसम्भवति । न हि निपुणभिषगभियोगमूलकमरणनिश्चये-ऽपि मृतकार्य्यमार्याः समाचरन्ति । योगीश्वरः “सन्दि-ग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नचाहूतोवदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः” । सन्दिग्धमधमर्णादि-भिरनभ्युपगतमेवार्थं यः स्वतन्त्रः प्रमाणनिरपेक्षएव साधयेदासेधादिना राजादिभ्यो ऽनिवेद्यैव तस्माज्जि-घृक्षति तदुपरि दण्डाद्यापादयति वा स हीनो दण्ड्यो-भवति । न परं प्रकृतार्थहानिमाप्तो त प्रत्युत स्वात-न्त्र्यमिबन्धनं राजदण्डमपि दातुमर्हति । यश्च स्वयमभ्यु-पे नेतंसाधन वा साधितंयाच्यमानो निष्पतेत् पला-येत । सोऽपि तथा दण्ड्यः साधितं धनञ्च दाप्यः ।यश्चाहूतोऽभियुक्तोराज्ञा चाहूतः सदसि न किञ्चिद्वदतिस प्रकृतार्थहानिं दण्डञ्च प्राप्नोति । प्रकरणात् दुष्टपरि-ज्ञानमेव मा मूदिनि दण्डग्रहणं दण्ड्योऽपि शास्योऽयर्थान्न हीयत इति स्वार्थान्न हीयत इत्यर्थादहीनत्वदर्शनादत्र तन्माभदिति हीन ब्रहणम् नारदोऽपि । “अन्यवादीक्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपलायी चहीनः पञ्चविधः स्मृतः । अन्यवादी तथा हीनः स एवविकृताननः । पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः” । कात्यायनेनापि “श्रावथित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ ।अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते” । यश्च कञ्चिद-भियुज्य नाहमेनमभियुञ्जे इत्येवंविरुद्धमभिदधीत सोऽप्यन्यवादी तथा हीन इत्याह स एव “न मयाभि-हितं कार्यमभियुज्य परं वदेत् । विब्रुवंश्च भवेदेव ही-नन्तमपि निर्दिशेत्” । तथा पत्रे लिखितं पूर्वपक्षमप्यन्यथाकुर्वन्नन्यवादी तथा हीन इत्याह स एव “लेखयित्वातु यो वाक्यमूनं वाऽभ्यधिकं पुनः । वदेद्वादी स हीयेतनाभियोगन्तु सोऽर्हति” । अभियोगं पर्वपक्षं नार्हतिवादित्वयोग्यो न भवतीत्यर्थः । क्रियाद्वेषिणोऽनुपस्थातुश्चहीनतायास्तेनैव विवरणं कृतम् “लेख्यं च साक्षिणश्चैवक्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते । आह्वानादनुपस्थानात् सद्य एवस हीयते” । निरुत्तरतयां हीनमप्याह स एव “ब्रूही-त्युक्तोऽपि न ब्रूयात् सद्यस्तद्धनमर्हति । द्वितीयेऽहनिदुर्षुद्धेर्विद्यात्तस्य पराजयम्” । पराजयं तच्चिह्नं हीन-ताम् । अतएव हारीतः “सापदेशं हरेत्कालमब्रुवंश्चापि-संसदि । उक्त्वा वची विब्रुवंश्च हीयमानस्य लक्षणम्” ।मापदेशं सव्याजम् । यथाह कात्यायनः “व्याजेनैवतु यत्रासौ दीर्घकालमतिक्रमेत् । सापदेशं तु तद्विद्या-द्वादहातिकरं स्मृतमिति” । आहूतप्रपलायी अभि-योगपरिहारार्थमाह्वानबुद्ध्या प्रच्छन्नचारी । एतेषामु-त्तरोत्तरस्य हीनता गुर्पी त ज्ञापयितुं “हीनः पञ्चविध”इत्युक्तं न परिसंख्यार्थमन्येपामपि हीनत्वस्मरणात् ।हीनतागुरुत्वज्ञापनंदण्डभूयस्त्वार्थम् । यथोक्तङ्कात्याय-नेन “अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान्दश ।नोपस्थाता दश द्वे च पोडशैव निरुत्तरः । आहूतप्र-पलायी च पणान्दाप्यस्तु विंशतिम्” । अत्रापि विशेषउक्तस्तेनैव “त्रिराहूतमनायातमाहूतप्रपलायिनम् ।पञ्चरात्रम तक्रान्तं विनयेत्तं महीपतिः” कात्यायनेनैवप्रकारान्तरेणापि हीनः उक्तः । “श्रावितव्यवहाराणामेकंयत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनन्तमपि निर्द्दि-शेत्” । श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपिशः प्रभेदवेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थ ।वृहस्पतिरपि “मयं करोति भेदं वा भीषणं वा निरो-धनम् । एतानि वादिनो यस्य व्यवहारे स हीयते” ।भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः ।भयं करोति भीषणामन्यमुखेन भयोत्त्पादनमिति शेषः ।मनुरपि “अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः ।यश्चाधरोत्तरानर्थान् विगतान्नावबुध्यते । अपदिश्या-पदेशञ्च पुनर्य्यस्त्वपधावति । सम्यक् प्रणिहितञ्चार्थंपृष्टः सन्नाभिनन्दति । असम्भाष्ये साक्षिभिश्च देशे सम्भा-षते मिथः निरुच्यमानं प्रश्नञ्च नेच्छेद्यश्चापि निष्यतेत् ।व्रूहीत्युक्तश्च न ब्रूयात् उक्तञ्च न विभावयेत् । न चपूर्वापरं विद्यत्तस्मादर्थात् स हीयते । ज्ञातारः सन्तिमेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थकारणैरेतैर्ही-नन्तमपि निर्दिशेत्” । अदेश्यमनुपयोगासत्यत्वादिनानिर्देशानर्हं दिशति कथयति यः । यश्च कथितमपिन मयेदमुक्तमित्यपलपति । यश्चाधरोत्तरानर्थान् पूर्बापरा-भिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते । यश्चापदे-शं व्याजं पोडादिकमपदिश्योद्भ्यव्यापधावति अपसरतिसभातः । यश्च सम्यक् प्रणिहितं सम्यक् प्रणिधानेना-कलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्यु-त्तरदानादिना ना द्रयते । मेधातिथिस्त्वदेशमिति पठित्वाभाषावादिलिखितदेशभिन्नमसम्भाविपं वा देशम् । यद्वाऽ-भियोक्ता दिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्यायसाक्षिनिर्देशः । अकाले सम्भावितसाक्षिणो निर्दिशती त”व्याचख्यौ । यश्च ज्ञातारः साक्षिणो ममोक्तेर्थे सन्तीतिसभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् । अत्र मा मांज्ञातारः । यथार्थवाद्यहमिति जानानाः साक्षिण इतियावत् । द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेनमाम् इत्यस्य मा इत्यादेशः । नतु मे इति षष्ठ्यन्तमेतत् ।“खलर्थतृनामिति” तन्निषेधात् । तेन मेति सन्धिरपि स-माहित इति मेधातिथिः । आचार्यास्तु व्याकरणाधिक-रणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तःषष्ठ्यन्ततामेवास्य मन्यन्ते मे सन्तीति सम्बन्धान्न तृती-यासम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः ।सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकरएवाचार्य्यमेधातिथिभ्यामवृतत्वादति ध्येयम् । सिद्धान्तेत्वाचार्य्याणां छान्दसत्वमत्र समाधिरभिमतः । एतैः का-रणैर्व्यस्तैः समस्तैर्वा बादिप्रतिवादिनोरन्यतरं हीन-न्निर्दिशेदित्यर्थः हीनवादितया दण्डार्हतामात्रन्न प्रकृ-तार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः “छल-न्निरस्येत्यादि” वचनात् । अतएव नारदोऽपि “सर्वेष्वर्थ-विवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादानेशास्योऽप्यर्थान्न हीयते” । अस्यार्थः अर्थविवादेषु सर्वेषुवाक्छले प्रमादाभिधाने पूर्व्वप्रपञ्चितेऽपि नावसीदति प्रकृ-तादयोन्न हीयते । अत्रोदाहरणमात्रं परस्त्रीत्यादि ।एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृ-तार्थाद्धीयते इति एवं सर्वेष्वर्थविवादेष्वित्यर्थः । अन्यथापरस्त्रीत्यादेरानर्थक्यमेव भवेत् । अर्थविवादोपादनान्म-न्युकृतेषु प्रकृतार्थादपि हीयतैत्यर्थादुक्तं भवति । यथा-ऽहमनेन शिरसि ताडित इत्यावेद्य भाषादिसमये हस्तेनपादे ताडित इति वदन् दण्ड्यः पराजितश्च भवति ।मन्युकृतावेशादसदेव ताडनादिकमयमस्मिन्नारोप्यावेदित-वान् धर्म्माधिकरण इति प्रतीतेः । अतएव “दोषानुरूपंसंग्राह्यः पुनर्वादो न विद्यते” इति वार्हस्पत्यः पुनर्वाद-निवेधोऽपि मन्युकृतव्यवहारविषय एव । संग्राह्योदण्डमि-त्यर्थात् । असम्भाव्ये सम्भाषणानर्हे बिजन इति यावत् ।नेच्छेत् श्रुतमप्यश्रुतवत्कुर्य्यात् । राजकार्य्यादिव्याजमु-त्पाद्य ग्रामान्तरङ्गच्छेत् । ब्रूहीत्यादि गतार्थम् । अन्या-देशमित्यादौ व्रूहीत्यादौ च बहुकृत्वोऽपि तथ्यं वदित-व्यमिति शावरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्तिर्नदोष इति भगवान्मेधातिथिराह । क्वचिदर्थविवादेऽ-प्यर्थहानिः सन्दिग्धार्थमित्यनेन दर्शिता । नारदोऽप्याह“अनिवेद्य तु यो राज्ञे सन्दिगधेऽर्थे प्रवर्तते । प्रसह्य सविनेयः स्यात्स चाप्यर्थे न सिध्यति” । प्रवर्त्तते साधयतिबलादिनेत्यर्थः । वृहस्पतिरपि “आहूतप्रपलायी चमौनी साक्षिपराजितः । स्ववाक्यप्रतिपन्नश्च हीनवादीचतुर्विधः” । साक्षिपराजितः साक्षिवचनाद्यः पराजि-तः, स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता, अनयोर्दृ-ष्टान्तत्वेनोपादानम् । यथाऽनयोरविप्रतिपन्नार्थहानिस्तथान्ययोरपीत्यर्थः । अत्राप्युत्तरोत्तरहीनताधिक्य ति-पादनार्थं चतुर्विघग्रहणन्न पर्तिसङ्ख्यार्थमन्यथान्येषान्तत्क-थनं विरुध्येत । कस्मिन् कदा हीनकार्य्यमित्यत्र का-लावधिरुक्तस्तेनैव “प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः । साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते” इतिसाक्षिभिन्नस्तत्पराजितः यश्च सामान्यान् साक्षिणो विर्दिश्यपश्चाद्विशिष्य निर्दिशेत् मनुना ज्ञातारः इत्यनेन हीनत-योक्तेः तत्रापि कालाबधिं वृहस्पतिरेवाह “साक्षिणस्तुसमुद्दिश्य यस्तु तान्न विवादयेत् । त्रिंशद्रात्रात्त्रिपक्षाद्वातस्य हानिः प्रजायते” इति । दैविकराजिकान्तराये त्व-वध्यतिक्रमेऽपि न दोष इत्यप्याह स एव “आचारक-रणे दिव्ये कृत्वोपस्थाननिर्णयम् । नोपस्थितो यदाकश्चिच्छलन्तत्र न कारयेत् । दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् । अवघित्यागमात्रेण न भवेत् स प-राजितः” । इति आचारकरणे व्यवहारकरणे । छलन्तत्रन कारयेदिति वदता यत्र वचनेनार्थहानिः प्रतिपा-दिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तंदण्डं कृत्वा पुनर्वादः प्रवर्त्तनीय एवेति सूचितम् । यतआह कात्यायनः “पलायनानुत्तरत्वादन्यपक्षाश्रयेणवा । हीनस्य गृह्यते वादो न स्वबाक्यजितस्य च” ।स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैवविवृतमिदम् “यो हीनचिह्नेन जित तस्योद्धारं विद-र्बुधाः । स्ववाक्यहीनोयस्तु स्यात् तस्योद्धारो न विद्यते”इति । उद्धारः पुनर्व्यबहारः । अत्रापि स्ववाक्यहीनइति प्रकृतार्थहानिनिमित्तोपलक्षणम् । विवादमुप-क्रम्य राजानं वञ्चयित्वाऽन्योन्यं यौ वादिपतिवादिनौस्वयमेव विवादान्निवर्तेते तयोरुभयोरपि दण्ड्यत्वमाहवृहस्पतिः “पूर्वोत्तरे सन्निविष्टे विचारे सम्प्रवर्त्तिते ।प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणन्दमम्” ।मिथ इत्यनेन राज्ञो निवेदनमकृत्वैबाऽन्योन्यशमयानोक्तेःराज्ञेऽनिवेदनमवगम्यते । कात्यायनस्तु स्पष्टमाह“आवेद्याप्रगृहीताज्ञं प्रशमं यान्ति ये मिथः । सर्वेद्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते” इति । द्विगुणोदण्डस्तु पराजयनिमित्तदण्डापेक्षया न तु विवादास्पदी-भूतद्रव्यापेक्षया अद्रव्यविवादेष्यव्याप्तेः । राज्ञे निवेद्या-ऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु न दण्ड-इत्यर्थसिद्धं स्पुटीकृतं वृहस्पतिना “पूर्बोत्तरेऽभि-लिखिते प्रक्रान्तो कार्य्यनिर्णये । द्वयोरुत्तरयोः सन्धिःस्याद् दुःखण्डयोरिव । साक्षिसमभविकल्पस्तु भवेत्तत्रो-भयोरपि । दोलायमानौ यौ सन्धिं कर्यातान्तौ विच-क्षणौ । प्रमाणसमता यत्र भेदः शास्त्रचरित्रयाः । तत्रराजाज्ञया सन्धिरुभयोरपि शस्यते । धर्मार्थोपग्रहःकीर्त्तिर्भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या वै-रञ्च विनिवर्त्तते । निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशो-ऽयशः । विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च । तस्मा-त्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः । अद्वेषलोभाद्यद्ब्रूयु-स्तत्कर्तव्यं विजानतेति” । साक्षिसभ्यविकल्प इति उ-भयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यवि-षयको विकल्पो भवेत् तत्र कार्य्यनिर्णये दोलायमानौसन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्य्यातान्तौविचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधाना-दित्यर्थ इति कल्पतरुः । रत्नाकरस्तु “साक्षिणां सभ्यानाञ्चविकल्पः परस्परविरोधः इत्याह । प्रमाणसमतेति ।यत्र सभ्यानां वादिद्वयपक्षे प्रमाणं साम्यं प्रतिभाति । यत्रच शास्त्रचरित्रयोर्भेदः शास्त्रे शास्त्रान्तरेण चरित्रे व्य-वहारे चरित्रान्तरेण भेदो विप्रतिपत्तिर्नतु शास्त्रव्यवा-हारयोः परस्परम्भेदः धर्मशास्त्राविरोधे व्यवहारस्यार्थ-शास्त्रत्वेन दुर्बलत्वात्” इति व्याचख्यौ । तत्र राजाज्ञयासन्धिः कार्य्यत्वेन प्रशस्यते धर्म्मार्थोपग्रहादिहेतुत्वात्निग्रहानुग्रहाद्यव्यवस्थानिवर्त्तकत्वाञ्च । तस्मादित्यादिनाराजाज्ञैव केवलं न सन्धिहेतुः कुलगणाध्यक्षादिवचोऽपिराजवचनसममिति प्रतिपाद्यते । एतच्च प्रत्याकलितं स-भ्यैरवश्यमादर्त्तव्यमित्याह नारदः “प्रमाणानि प्रमाणज्ञैःपरिपाल्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैर-व्यवस्थितैः” । अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः “अ-ब्धवस्थितैः प्रमाणेः प्रमाणानि प्रमाणकर्त्तारः प्रमाण-शब्देन लक्ष्यन्ते । ते सीदन्ति विनश्यन्ति निर्णयं नाप्नु-वन्ति । अतः प्रत्याकलनकौशलेन प्रमाणज्ञैः सभ्यैर्यत्न-तस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्थादुःस्थि-तानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति” । वयन्तु-अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैः प्रमाणानु-ग्राहकैस्तर्कैः प्रमाणानि साक्ष्यादीनि सोदन्ति निर्णया-क्षमाणि भवन्ति, हि यतोऽतः प्रमाणज्ञैः प्रमाणानियत्नतः परिपाल्यानि सत्तर्कपरिशुद्ध्यनुग्रहेण तत्त्व-निर्णयफलानि कार्य्याणीति व्याचक्ष्महे । अनयोश्च व्या-ख्यानयोस्तारतम्यन्तत्त्वविद्भि र्धवेचनीयम् । इदञ्च प्रत्याक-लितं व्यवहर्त्तृसम्बन्धाभावात् व्यवहारदर्शिमात्रकर्त्तृकत्वाच्चव्यवहारपादचतुष्टायान्तुर्भूतमिति मिताक्षराकारस्य स-म्भतम् नत्वनुपादेयम्, एतदन्तरेण तृतीयक्रियापादानवतारात् । तथाहि उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोःकस्य क्रिया का वा क्रियेति परामर्शलक्षणस्य प्रत्याक-लितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवह-र्त्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति । अपरा-र्कस्तु “साध्यसिद्धिपदेन जयपराजयावधारणलक्षणंप्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन्क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रियमाणस्य प्र-त्याकलितरूपतामभिप्रैति” । “सम्प्रतिपत्त्युत्तरेण क्रियापादेनापि जयपरजयावधारणलक्षणप्रत्याकलितपाद इति द्विपात्त्वमेवेति” व्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति । कल्पतरु-स्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनान्तरभा-वितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापादप्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ । व्यवहारोपयो-गित्वाद् वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्चव्यवहारपादत्वं परन्तदनभ्युपगतवन्तौ क्रियापादप्राग्-भावितत्वमेव तु तस्य युक्तम् । यै तु तिष्ठन्ति करण इ-त्यादिवचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत् । यत्तुसाध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमितितन्न व्यवहारभावनया फलापवर्गिण्याः फलनिरूप्यत्वेनफलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात् । अतएव त्र्यंशा भावनेति मीमांसकानामुद्घोषः । तात्पर्य्यपरिशुद्धावु-दयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यतेयथाह “यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः ।पृच्छोपक्रममात्रेण द्वितोयोपयोगात् । सम्भवेऽपि तयो-र्विषयोपस्थापनमात्रपर्यवसानात् स्थेयस्यैव परीक्षकत्वम् ।तथापि पूर्वपक्षोत्तरपक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पा-द्व्यवहारप्रवर्त्तनात् फलतो न कश्चिद्विशेषः । एककर्त्तृकत्वेऽपि ताबत एव व्य पारकलापस्य विचारे विद्यमान-त्वात् तस्मादप्यनिपुणो देशकस्तथाषि देश्यं सावगममेवं ति” ।वस्तुतस्तु न प्रमाणोपन्यासस्तस्य प्रत्याकलितत्वेनाभि-प्रोतः । किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरा-मर्श एव । यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वप-क्षोत्तरपक्षौ स्वामिमतसहेतुकसाध्यनिर्देशमात्रपरौ ।किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्व-पक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्ष-साधकप्रमाणप्रख्यापन प्रथमं क्रियते । ततः स्थे-यैस्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षनि-र्द्धारणरूपः क्रियते । तावता कथासमाप्तिर्वादे, जल्पवित-ण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत इ-त्यादि लक्षणमाकरे । अत्र तु साक्ष्यादिविलक्षणं मा-नमुत्तरभेदेन नियत प्रागुपन्यासानर्हमिति न पूर्वोत्तर-पादान्तरर्गतिस्तस्य । अतएव प्रत्याकलितस्यात्रोत्तरे कस्यक्रियेत्यादिविमर्शस्य स्थेयकृतस्य पत्याकलितस्य प्राच्यत्वंप्रमाणोपन्यासात्तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसा-ध्वसाधुतां विनैकरूपता चेत्यस्तु विस्तरः । एवं प्रत्याक-लितमाकलितम् । अधुना क्रियापादो विविच्यते । तत्रकात्यायनः । वादिना यदभिप्रेतं स्वयं साधयितुं स्फु-टम् । तत्साध्यं साधनं येन तत्साव्यं साध्यतेऽखिलम् ।सारभूतं पदं मुक्त्वा निःसाराणि बहून्यपि । संसाधयेत्क्रियायान्तु ताञ्जह्यात् सारवर्जिताम् । पक्षद्वयं साधयेद्याताञ्जज्याद्दूरतः क्रियाम् । क्रियां बलवतीमुक्त्वा दुर्बलांयोऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तान्नाप्नुयात्क्रियामिति” । ताम्बलवतीम् । तेन प्रागेव प्रबलं प्रमाणमुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबलप्रमाणोपन्यासावसरो नास्तीत्यर्थः । अतएवाह नारदः“निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितंसाक्षिणो वापि पूर्वमावेदितं नचेति” । निर्णिक्ते शोधितेअन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत् ।पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासे कृते तु सर्वप्रमाणा-नुसारेण छलं निरस्येत्यभिधानात् निर्णयः । पश्चादु-द्भावितन्तु कृत्रिम वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः ।अतएव पूर्ववाक्येऽपि मुक्त्वेति पुनरिति चोक्तम् । सएव“यथा पक्वेसु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णि-क्तव्यवहाराणां प्रमाणमफलं तथति” । उत्तरे पत्रनि-वेशिते साध्यसिद्धेः साधनाय तत्साधननिर्देशङ्कः कुर्य्यादि-त्यपेक्षिते याज्ञवल्क्य आह “ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थमाधनम्” । तत उत्तरलिखनानन्तरमर्थी अर्थ्यतइत्यर्थः साध्यं सोऽस्याऽस्तीत्यर्थी साध्यवान् सद्य एवा-विलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्य साध-नम् साध्यतेऽनेनेति साधनं प्रमाणम् । साधनादि लौकिक-मलौकिकं वा लेखयेत् लेखकद्वारा । स्वयं वा लिखेदित्यपिद्रष्टव्यम् दृष्टार्थत्वात् अत्र सद्य इति वदन्नु त्तराभि-धाने कालबिम्बनमप्यनुमन्यते । तच्च विशेषपरिभाषायांविवक्ष्यते । अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्य-र्थित्वमिति न कोऽपि साधनं लेखयेदिति पादद्वयेनैव व्य-वहारनिर्वाहः तथाचोक्तम् “द्विपात्सम्प्रतिपत्तिस्तिष्ठतिमिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं लेख-येत् । कारणोत्तरप्राङ्ग्यायोत्तरयोस्तुं प्रत्यर्थ्येव साध्य-वान् कारणप्राङ्न्याययोस्तस्यैव साध्यत्वादिति स एव ले-खयेदित्युक्तं भवति । तेन “प्राङ्ग्यायकारणोक्तौ तुप्रत्यर्थी निर्दिशेत् क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्र-तिपत्तौ न सा भवेत् । मिथ्या क्रिया पूर्ववादे कारणेप्रतिवादिनि । प्राङ्ग्यायेऽपि तथैव स्यात् प्रतिपत्तौ न साभवेदिति” व्यासादिस्मुत्युक्तोऽर्थिपदेन सङ्क्षेपतः सर्वएवोक्तो भवति । अत्र चण्डेश्वरः “साहसस्तेयपारुष्य-गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्य-त्रेच्छया स्मृतः” । इत्यत्र सद्यो विवादयेदुत्तरन्दापयेदित्य-नेन प्रत्यर्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु तत्-पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्-भाषावादिपक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थि-पक्षलिखनविलम्बः स्यात् तदैव घटते नान्यथेत्येतद्वाक्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्ग्याययोःप्रत्यर्थ्येवाऽर्थी जात इति स एव साधनं लेखयेदिति ।प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्या-नं तत्पूर्वापरविरोधान्मन्दमित्याह” । तदतिसाह-सम् भाषोत्तरवादिपक्षमात्रलेस्वनपरत्वं यद्यनयोर्वा-क्ययोस्तर्हि साधनपदान्वये समासानुपपत्तेः सन्दर्भ-विरोधाच्च साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षि-तत्वात् साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्व-वाक्योपात्तसाधनलेखने सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बा-पवादोपपत्तेः । नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेतितद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनार्हमितिवाच्यम् एतावतापि क्रियोपन्यासप्रतिपालवचनस्या-र्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात् ।प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रह-णमर्थिपदेनेत्यस्यैव युक्तत्वात् । एवं सति मिताक्षरायांपूर्वापरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत् ।वृहस्पतिः “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकीतथा । एकैकानेकधा भिन्ना मुनिभिस्तत्त्ववादिभिः ।साक्षिलेख्यानुमानञ्च त्रिविधा मानुषी क्रिया” । साक्षि-लेख्यानुमानमिति द्वन्द्वैकवद्भावः । “साक्षी द्वादशभेदस्तुलिखितं दशधा स्मृतम् । अनुमानन्तु द्विविधन्नवधादैविकी क्रिया” । इदं संख्याभिधानन्न नियमाय भेदा-न्तराणामपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् । कात्यायनः“लिखितं साक्षिणोभुक्तिः प्रमाणन्त्रिविधं विदुः । लेशो-द्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः” । लेशोऽन्यथानु-पपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः । “पूर्ववा-देऽपि लिखिते यथाऽक्षरमशेषतः । अर्थी तृतीयपादेतु क्रियया प्रतिपादयेत्” । पूर्ववादो भाषालिखितं पूर्व-पक्षतया लिखितं उत्तरमिति यावत् । तृतीयपादःप्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रति-पादयेत् साध्यमिति शेषः । भाषोत्तरप्रत्याकलिताख्य-पादत्रये सति क्रियया स्वकार्य्यमर्थी साधयेदिति तात्प-र्थ्यार्थः । कार्य्यक्रियाशब्दौ व्याचष्टे व्यासः “कार्य्यंहि साध्यमित्युक्तं साधनन्तु क्रियोच्यते । द्विभेदा सापुनर्ज्ञेया मानुषी दैविकी तथेति” । साधनं प्रमाणं प्रत्या-कलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिच-न्द्रिकाकारेणैवमिदं वचो व्याख्यातम् । मिताक्षराकार-मते तु तृतीयपादक्रिययेति स एवार्थः । साक्षी-द्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः । याज्ञ-वल्क्यः “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते” इति ।दिव्येष्वन्यतममित्यर्थः । कात्यायनः “यद्येकी मानुषींब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः । यद्येकदेशप्राप्तापि क्रिया विद्येतमानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम्” ।एकदेशप्राप्ता साध्यैकदेशविषया । अत्र यद्येको वादीमानुषीं साक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्य-सत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि--पक्ष-सिध्यसिध्योः सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः ।एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदिप्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तर-स्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति द्वितीय-याक्यार्थः । दिव्यस्वरूपप्रमाणयोरागमैकगम्यत्वान्मानुषप्रमाणसम्भव एव दिव्यस्य प्रामाण्यमिति मुनिवचननि-चयपर्य्यालोचनयावगम्यते । अन्यान्यपि क्वचित् क्वचि-त्केषाञ्चित् प्रमाणानां प्राधान्यामिप्रायेण व्यवस्थापकानिवचनान्यृषीणां यथा “क्रिया न दैविकी प्रोक्ता विद्य-मानेषु साक्षिषु । लेख्ये च सति वादेषु न स्याद्दिव्यं नसाक्षिणः” इति कात्यायनः । पितामहः “स्यावरेषु विवा-देषु दिव्यानि परिवर्ज्जयेत् । साक्षिभिर्लिखितेनाथभुक्त्या चैतान् प्रसाधयेत्” । इदमपि साक्ष्यादिसमक्षंस्थावरविषयविवादेषु सुलभमतस्तत्सम्भवान्वेषणमेव का-र्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम् । सर्वथासाक्षाद्यसम्भवेऽपि दिव्याग्रहणे निर्णयाभावप्रसङ्गात् ।कात्यायनः “दत्तादत्तेषु भृत्यानां स्वामिनां निर्णयेसति । विक्रीयादानसम्बन्धे क्रीत्या धनमनिच्छति । द्यूतेसमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनंप्रोक्तन्न दिव्यं नच लेख्यकम् । पूगश्रेणीगणादीनां यास्थितिः परिकीर्त्तिता । तस्यास्तु साधनं लेख्यन्न दिव्यन्नच साक्षिणः । द्वारमार्गक्रियाभोग जलवाहादिषु क्रिया ।भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं नच साक्षिणः” । दत्ता-दत्ते प्रतिश्रुत्याप्रदाने दत्त्वा पुनः प्रत्यावृत्य ग्रहणेवा दत्ताप्रदानिके विवादपद इति यावत् । भृत्यानामि-त्यादिना वेतनादाने । विक्रीयादानेत्यादिना क्रयविक्र-यानुशये इतरद्व्यक्तम् । दत्तादत्तादिषु वृद्धानां लिखित-करणाप्रसिद्धेर्भुक्तेश्चासम्भवात् साक्षिणश्च तादृशविषयेसुलभत्वान्मानुषप्रमाणसम्भवे च दिव्यासम्भवान्न दिव्यंनच लेख्यकमित्युक्तम् । पूगादीनां संविदि तु बहुकर्तृ-कायां लिखितं विना न निर्वाहः सर्वेषां व्यवहर्तृ-त्वान्नोदासीनसाक्षिसम्भवो मानुषसत्त्वे च दिव्यानवकाशइत्यभिसन्धायामिहितन्न दिव्यं च साक्षिण इति ।द्वारनार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भाा-ल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्नदिव्यमित्यादि भुक्तिरेव तु गुर्व्वी त चोक्तम् । एवं सर्व-वचनानि विवेचनीयानि । अतएव “अरण्ये निर्जनेरात्रावन्तर्वेश्मनि साहसे । न्यासापह्नवने चैव दिव्यासम्भवति क्रियेति” नारदेन सम्भवतीत्युक्तम् । स एव“यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदादिब्यैः परीक्षेत शपथैश्च वृथग्विधैः । स्त्रीणां शीलामि-योगे च स्तेयसाहसयोरपि । एष एव विधिर्दृष्टः सर्वा-र्थापह्नवेषु चेति” । कात्यायनः “गूढसाहसिकानान्तुप्राप्तं दिव्यैः परीक्षणम् । युक्तिलेशेङ्गिताकारवाक्चक्षु-श्चेष्टितैर्नृणाम् । अलेख्यसाक्षिके दैवीं व्यवहारे विनि-र्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत्” ।वृहस्पतिः “मणिमुक्तप्रबालानां कूटकृन्न्यासहारकः ।हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा । महा-पापाभिशापेषु निःक्षेपहरणे तथा । दिव्यैः कार्य्यं प-रीक्षेत राजा सत्स्वपि साक्षिषु । चिरन्तनोपांशुकृत-चिरनष्टेषु साक्षिषु । पदुष्टेषु समानेषु दिव्यैः कार्य्यंविशोधयेत्” । अत्र सत्स्वपि साक्षिष्वित्यनेनैतादृशि विष-ये साक्षिण एव तावन्न सम्भवन्ति । सम्भवन्तोऽपि वाकथञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं न तु यथा-श्रुतम् । चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेनलेख्याद्यसम्भवमेवोपलक्षयति । अतएवाग्रे चिरनष्टषुप्रदुष्टेषु समानेष्वित्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान् ।व्यासः “प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथाऽपरे । परे-व्यश्च तथाचान्ये तं वादं शपथैर्नयेत्” । भिद्यन्ते प्रभेदंप्रतिपद्यन्ते । कात्यायनः “समत्वं साक्षिणां यत्र दिव्यै-स्तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यमानेषु सा-क्षिषु । दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः” । सा-क्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत इ-त्यर्थः । समत्वं साक्षिणां यत्रेति । यत्रोभाम्यां भाषा-वादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च तु-ल्यत्वमित्यर्थः । व्यासः “न मयैतत्कृतं लेख्यं कूटमे-तेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येननिर्ण्णयः” । लेख्यदोषोद्भावने लेख्ये निर्णयाक्षमे तदारूढ-साक्षिषु सुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषा-सम्भवे दिव्येन निर्णयः कार्य्य इत्यर्थः । प्रजापतिः“यन्नामगोत्रैर्य्यल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत् । अगृ-हीतधने तत्र कार्य्यो दिव्येन निर्णयः” । मूललेख्येन ना-मगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदा तदप्रमा-णीकृत्य दिव्येन निर्णयः कार्य्य इत्यर्थः । कात्यायनः“यत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि । शोध-येत्तत्तु दिव्येन राजा धर्मासनस्थितः” । सोपधं यत्रछलकृतं यच्च मिथ्योत्तरे पूर्बवादिनः क्रियादानं नोत्तरवा-वादिन इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणस-म्भवादुत्तरवादिनश्च तदसम्भवान्मानुषसम्भवे च दिव्यानव-सरादिति न्यायमूलमिति । यदि तत्रापि भाषावादिनोदिव्यभिन्नप्रमाणाभावस्तदा “न कश्चिदभियोक्तारं दिव्ये-षु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दि-व्यविशारदैरिति” कात्यायनीयादुत्तरवादिन एव दिव्यंदेयम् । पूर्वार्द्धेनार्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्था-त्सिद्धौ पुनः परार्द्धेन तद्विधाने सिद्धे सत्यारम्भो निय-मायेति न्यायेन निषेधदार्ढ्यार्थत्वम् । प्राङ्ग्यायकारणो-त्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमा-त्रपरं कात्यायनीयानुरोधात् । नचैवमनुषङ्गानुपपत्तिःतदर्थकतयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरु-द्धार्थकत्वे व्यवायवत्सन्निधिबाधेनानुषङ्गस्य तुल्ययोगि-तानिबन्धनस्य भङ्गः किञ्चिदर्थानन्वयेऽपि तुल्ययोग्य-तायाः सत्त्वात्तदभङ्गात् । थदा तु प्रत्यर्थी सन्दिहानस्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि नदिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येवम् । नच “नकश्चिदिति” कात्यायनवचनविरोधः अधिकारानिश्चये तत्-प्रवृत्त्यसम्भवात् । ‘धनं धनी साधयतीति’ लोकप्रवादोऽपी-दृग्विषयाभिप्रायक एव । यत्र विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखन-न्त्वतत्त्वमेव अज्ञानरूपमिय्योत्तरार्हत्वात् । अज्ञानस्यनिश्चयाभावरूपस्य सन्देहेऽपि सम्भवात् प्रत्यर्थिन एवसर्वत्रोत्तरकर्त्तृत्वाच्च । यदा तु द्वयोरपि मानुषप्रमाणा-भावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह पिता-महः “लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः ।न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः । निश्चेतुंयेन शक्याः स्युर्वादाः सन्दिग्धरूपिणः । तेषां नृपः प्रमा-णं स्यात्सर्वस्य प्रभुरिष्यते” इति । तादृग्व्यवहारे नृपेणै-वोभयापीडया स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया सो-भाभ्यान्नातिक्रमर्णायेत्यर्थः । दिव्यावान्तरभेदादि सर्वदि-व्यप्रकरणे वक्ष्यामः ।