जनपद (janapada)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishजनपद - janapada - - district
मण्डल - maNDala - - district
गव्यूति - gavyUti - - district
पट्टला - paTTalA - - district
भूमि - bhUmi - - district
गोचर - gocara - - district
निर्ग - nirga - - district
फुल्लरीक - phullarIka - - district
प्रदेश - pradeza - - district
लोक - loka - - district
वाट - vATa - - district
विजय - vijaya - - district
विषय - viSaya - - district
राष्ट्र - rASTra - - district
ग्रामजाल - grAmajAla - - district
पथक - pathaka - - district
पीठ - pITha - - district
प्रतिजागरणक - pratijAgaraNaka - - district
भूमन् - bhUman - - district
चक्र - cakra - - district
Monier Williams Cologne
EnglishApte Hindi
Hindiजनपदः
जनः-पदः -
"जनसमुदाय, वंश, राष्ट्र"
जनपदः
जनः-पदः -
"राजधानी, साम्राज्य, बसा हुआ देश"
जनपदः
जनः-पदः -
देश
जनपदः
जनः-पदः -
"जनसाधारण, प्रजा"
जनपदः
जनः-पदः -
"मनुष्यजाति, "
Shabdartha Kaustubha
Kannadaजनपद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಶ /ಜನರು ವಾಸಿಸುವ ಸ್ಥಳ
निष्पत्तिः - > पद (गतौ) - "घः" (३-३-११८)
व्युत्पत्तिः - > जनाः पद्यन्तेऽत्र ।जनस्य लोकस्य पदं आश्रयस्थानं यत्र । जनः पदं वस्तु यत्रेति वा ।
प्रयोगाः - > "स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्ती प्रत्यादशे विबुधसरितः स्यन्दते सह्यकन्या" । "त्यजेदेकं कुलस्यार्थे ग्रामस्यार्धे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥"
उल्लेखाः - > हंस० १-४२, चाणक्य०
जनपद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಜ್ಯ
जनपद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರಾಮಗಳ ಸಮೂಹ
प्रयोगाः - > "पुण्यवासैः पुरजनपदैर्मण्डितान् पाण्ड्यदेशान्"
उल्लेखाः - > हंस० १-५०
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishSanskrit Tibetan
Tibetanskye bo'i ljongs
जनपद
grong
१) कुल २) ग्राम ३) जनपद ४) पुरी
grong rdal
१) ग्राम २) जनपद ३) नगर ४) निगम ५) पुर
ljongs
१) जनपद २) प्रदेश ३)
अभिधानचिन्तामणिः
Sanskritवर्षं वर्षधराद्र्यङ्कं विषयस्तूपवर्तनम् ।
देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् ॥ ९४७ ॥
वर्ष (क्ली), वर्षधराद्र्यङ्क (क्ली), विषय (पुं), उपवर्तन (क्ली), देश (पुं), जनपद (पुं), नीवृत् (स्त्री), राष्ट्र (पुंक्ली), निर्ग (पुं), मण्डल (त्रि)
अभिधानरत्नमाला
Sanskritनीवृत्
नीवृत्, जनपद, देश, उपवर्तन
नीवृज्जनपदो देश उपवर्तनमिष्यते ।
verse 2.1.1.284
page 0034
नाममाला
Sanskritराष्ट्र, जनपद, निर्ग, जनान्त, विषय
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।
verse 0.1.1.96
page 0048
वैजयन्तीकोषः
SanskritWord: जनपदः
Root: जनपद
Gender: पुं
Number: all
अर्थः ⇒ जननिवासस्थानम्
Meaning(s):
⇒ Country
Shloka(s):
3|1|21|1 ► नीवृज्जनपदो देशस्ततद्भेदाः पुंसि भूम्नि च। (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
➠ 3|1|21|1 ⇢ नीवृत् (नीवृत्) (पुं) ⇒ Country ⇒
➠ 3|1|21|1 ⇢ जनपदः (जनपद) (पुं) ⇒ Country ⇒ जननिवासस्थानम्
Related word(s):
Vedic Reference
EnglishJana-pada in the Brāhmaṇas denotes both the ‘people, ’ as
opposed to the king, ^1 and the ‘land’ or ‘relam.’^2 The
‘subjects’ are also denoted by the adjectival jānapada.^3
1) Aitareya Brāhmaṇa, viii. 14 (plural)
Śatapatha Brāhmaṇa, xiii. 4, 2, 17.
2) Taittirīya Brāhmaṇa, ii. 3, 9, 9
Bṛhadāraṇyaka Upaniṣad, ii. 1, 20
Chāndogya Upaniṣad, v. 11, 5
viii. 1, 5.
3) Śatapatha Brāhmaṇa, xiv. 5, 1, 20.
शब्दकल्पद्रुमः
Sanskritजनपदः, (जनस्य लोकस्य पदं आश्रयस्थानंयत्र । जनः पदं वस्तु यस्येति वा ।) देशः ।(यथा, चाणक्यशतके । ३१ ।“त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
”जनपदनामानि महाभारते भीष्मपर्व्वणि ९ अध्यायेकथितानि अतस्तत्रैव विशेषतो द्रष्टव्यानि ॥
)जनः । इति मेदिनी । दे, ४८ ॥
वाचस्पत्यम्
Sanskritजनपद जनाः पद्यन्ते गच्छन्ति यत्र पद--आधारे घ ।देशे । अमरः । “कुलानि जातीः श्रेणीश्च गणान्जनपदानपि” याज्ञव० । जनपदभेदाश्च भा० भी० ९ अ०दर्शिता यथा“अतऊर्द्धं जनपदान्निबोध गदतो मम । तत्रेमे कुरु-पाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । शूरसेनाः पुलि-न्दाश्च बोधा मालास्तथैव च । मत्स्याः कुशट्टाः कौ-शल्याः कुन्तयः काशिकोशलाः । चेदिमत्स्यकरूषाश्चभोजाः सिन्धुपुलिन्दकाः । उत्तमार्णा दशार्णाश्च मेक-लाश्चोत्कलैः सह । पाञ्चालाः कोशलाश्चैव नैकपृष्ठायुगन्धराः । बोधा मद्राः कलिङ्गाश्च काशयोऽपरका-शयः । जठराः कुकुराश्चैव सदशार्णाश्च भारत” । कु-न्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मल्लकाःपाण्ड्याः विदर्भानूपवाहिकाः । अश्वकाः पांशुराष्ट्राश्चगोपराष्ट्राः करीतयः । अधिराज्यं कुशट्टाश्च मल्लराष्ट्र-ञ्च केरलाः । वारवाश्यापवाहाश्च वक्रा वक्रातयःशकाः । विदेहा मगधाः कक्ष्या मलया विजयास्तथा ।अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च । मल्लाःसुदेष्णाः प्रह्रादा माहिषाः शशकास्तथा । वाह्लीकावाटधानाश्च आभीराः कालतोयकाः । अपरान्ताःपरान्ताश्च पक्वणाश्चर्म्मचण्डकाः । अटवीशिखराश्चैवमेरुभूताश्च मारिष! । उपावृत्तानुपावृत्ताश्च सुराष्टाः के-कयास्तथा । कुट्टाः परान्ता माहेयाः कक्षाः सामुद्रनि-ष्कुटाः । अन्ध्राश्च बहवो राजन्नन्तगिर्य्यास्तथैव च ।बहिर्गिर्य्याङ्गमलदा मागधा मालवाझटाः । मह्युत्तराःप्रावृषेया भार्गवाश्च जनाधिप! । पुण्ड्रा भागाः कि-राताश्च सुदेष्णा यामुनास्तथा । शका निषादनिष-धास्तथैवानर्त्तनैरृताः । दुर्गलाः पूतिमत्स्याश्च कुन्त-लाः कुशलास्तथा । तीरग्रहाः शूरसेना ईजिकाःकन्यकागणाः । तिलभारा मसीराश्च मधुमत्ताः सुक-न्दुकाः । काश्मीराः सिन्धुसौवीरा गान्धारा दर्शका-स्तथा । अभीसारा उलूताश्च शैवाला वाह्लिकास्तथा ।दर्व्वीचरा नवादर्व्वा वातजामरथोरगाः । बहुवट्टा-ण कौरव्य! सदामानः सुमल्लिकाः । उद्ध्रा करीषका-श्चापि कुलिन्दोपत्यकास्तथा । वानायवो दशाः पार्श्वारोमाणः कुशविन्दवः । कच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः । किराता वर्व्वराः सिद्धा वैदेहास्ताम्र-लिप्तकाः । ओड्रा म्लेच्छाः ससैरिन्ध्राः पार्व्वतीयाश्चमारिष! । अथापरे जनपदा दक्षिणा भरतर्षभ! । द्र-विडाः केरलाः प्राच्या मूषिका वनवासिकाः । कर्णा-टका माहिषका विकल्पा मूषकास्तथा । झिल्लिकाःकुन्तलाश्चैव सौहृदा नलकाननाः । कोकुट्टकास्तथाचोलाः कोङ्कणा मालवा नराः । समङ्गाः कनकाश्चैवकुकुराङ्गारमारिषाः । ध्वजिन्युत्सवसंकेतास्त्रिगर्त्ताःशाल्वसेनयः । व्यूढकाः कोरकाः प्रोष्ठा समवेगवशास्तथा ।तथैव विन्ध्यपुलिकाः पुलिन्दा वल्कलैः सह । मालवावल्लवाश्चैव तथैवापरवर्त्तकाः । कुलिन्दाः कालदाश्चैवदण्डकाः करटास्तथा । मूषकास्तनबालाश्च मनीमाघटसृञ्जयाः । अलिदायाः शिवाटाश्च स्तनपाःसुनयास्तथा । ऋषिका विदर्भाः काकास्तङ्गनाः परत-ङ्गनाः । उत्तराश्चापरे म्लेच्छा जना भरतसत्तम! ।यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः । सकृद्व-हाः कुलत्थाश्च हूणाः पारसिकैः सह । तथैव रमणाश्चीनास्तथा च दशमालिकाः । क्षत्रियोपनिवेशश्चवैश्यशूद्रकुलानि च । शूद्राभीराश्च दरदाः कश्मीराःपशुभिः सह । खाशीकाश्चान्तचाराश्च पह्नवा गिरि-गह्वराः । आत्रेयाः सभरद्वाजास्तथैव स्तनपोषकाः ।द्रोषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः । तोमराहन्यमानाश्च तथैव करभञ्जकाः । एते चान्ये जन-पदाः प्राच्योदीच्यास्तथैव च” ।वृ० स० १४ अ० कूर्मविभागे तु तेषां मध्ये केषाञ्चित्दिग्भेदेन स्थितिर्दर्शिता ते च कूर्म्मविभागशब्दे पृ०उक्ता देशानां सीमादि तत्तच्छब्दे उक्तं वक्ष्यमाणञ्चकेचिद्भेदास्तु मध्यादिदेशभेदेन उक्ता यथा“तैमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः । शूर-सेना मुद्रकारा बोधकाः सपटच्चराः । मत्स्याः किराताःकुल्याश्च कुन्तयः कुन्तिकोशलाः । आवन्ताश्च कुलिङ्गाश्चकोलाश्चैवान्ध्रकैः सह । मध्वदेश्या जनपदाः प्रायशःपरिकीर्त्तिताः । वाह्लिका वाटधानाश्च आभीराः काल-तोयकाः । परन्ध्राश्चैव शूद्राश्च पह्नवाश्रात्मखण्डिकाः ।गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याःपुलिन्दाश्च पारदा हारमूर्त्तिकाः । रामठाः कण्ठकाराश्चकेकयादेशमानिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्र-कुलानि च । आत्रेयोऽथ भरद्वाजः व्रस्थलाः सदशेरकाः ।लम्बकास्तनपानाश्च सैनिकाः सह साङ्गजैः । एते देशाउदीच्यास्तु प्राच्यान्देशान्निबोधत । अङ्गावङ्गामद्गुरकाअन्तर्गिरिबहिर्गिराः । ततः प्रवङ्गा मातङ्गा मलयामलवर्त्तकाः । सूक्ष्मोत्तराः प्रविजया भार्गवाङ्गेय-मालवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्र-लिप्तकाः । शाल्वमागधगोनर्द्दाः प्राच्या जनपदाः स्मृताः ।तथाऽपरे जनपदा दक्षिणापथवासिनः । पाण्ड्याश्चकेरलाश्चैव चोलाः कुल्यास्तथैव च । सेतुकामुख्यका-श्चैव कुपथाचारवासिकाः । नवराष्ट्राः माहिषकाःकलिङ्गाश्चैव सर्वशः । कावेराश्च सहैषीकैराटव्याः शव-रास्तथा । पुलिङ्गाविन्ध्यमूषीका वैदर्भा दण्डकैः सह ।कुलीयाश्च शिरालाश्च रूपसास्तामसैःसह । तथा तैत्तिरकाश्चैव सर्वे कारस्करास्तथा । नासिकाद्याश्च येचान्ये ये चैवान्तरनर्मदाः । भानुकच्छाः समाहेयाःसह सारस्वतैस्तथा । काच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चा-र्बुदैः सह । इत्येते अपरान्ताश्च शृणु ये विन्ध्यवासिनः ।मालवाश्च कुरूषाश्च मेकलाश्चोत्कलैःसह । उत्तमाशाःदशार्णाश्च भोजाः किस्किन्धिकैः सह । तोषलाःकोश-लाश्चैव त्रैपुरा वैदिकास्तथा । तुसुरास्तूम्बुराश्चैवपटुमान्निषधैः सह । अनूपास्तुण्डिकेराप पीतिहोत्राअवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिबा-सिनः । अतो देशान् प्रवक्ष्यामि पवताश्रायणश्च ये ।निर्दारा हंसवर्णाश्च कुपथा अपथाः खथाः । कुथ-प्रावरणाश्चैव उर्णादर्भाः समुद्रकाः । त्रिगर्त्ता मण्ड-लाश्चैव किराताश्चामरैः सह” । शक्तिसङ्गमतन्त्रेदेशभेदसीभाद्युक्त यथा “देशव्यबस्था देवेशि! कथ्यतेशृणु तत्परा । वैदानाथं समारभ्य भुवनेशान्तगं शिवे! ।तावदङ्गाभिधो देशो यात्रायां नहि दुष्यति । रत्नाकरंसमारभ्य ब्रह्मपुत्रान्तगं शिवे! । वङ्गदेशो मया प्रोक्तःसर्वसिद्धिप्रदर्शकः । जगन्नाथात् पूर्वभागात् कृष्णा-तीरान्तगं शिवे! । कलिङ्गदेशः संप्रोक्तोवाममार्गप-रायणः । कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे! ।दक्षिणस्यां महेशानि! कालिङ्गः परिकीर्त्तितः । सुब्रा-ह्मण्यं समारभ्य यावद्देवो जनार्द्दनः । तावत् केरल-देशः स्यात् तन्मध्ये सिद्धकेरलः । रार्थश्वरात् व्यङ्कटेशात्हंसकेरलनामकः । अनन्तशैलभार भावत्मादिव्यपंपरे । तावत् सर्वेशनामा तु केरलः परिकीर्त्तितः ।शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् । तावत्काश्मीरदेशः स्यात् पञ्चाशद्योजनान्तकः । कालेश्वरं श्वेत-गिरिं त्रैपुरं नीलपर्वतम् । कामरूपाभिधो देशो गणेशगिरिमूर्द्धनि । त्रिपञ्चकं समारभ्य मध्ये चोज्जयिनीशिवे । मार्ज्जारतीर्थं राजेन्द्र! कोलापुरनिवासिनी ।तावद्देशो महाराष्ट्रः कर्णाटस्वामिगोचरः । जगन्ना-थादूर्द्धभागादर्वाक् श्रीभ्रमरान्तिकात् । तावदन्ध्राभिधोदेशः सौराष्ट्रं शृणु सादरम् । कोङ्कणात् पश्चिमं तीर्थंसमुद्रप्रान्तगोचरम् । हिङ्गलाटान्तको देवि! दशयोजन-देशतः । सौराष्ट्रदेशो देवेशि! तस्मात्तु गुर्ज्जराभिधः ।श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः । तैलङ्ग-देशो देवेशि! ध्यानाध्ययनतत्परः । सुराम्बिकां समारभ्यमलयाद्र्यन्तगं शिवे! । मलयालाभिधोदेशो मन्त्रसिद्धिप्रवर्त्तकः । रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि! ।कर्णाटदेशो देवेशि! साम्राज्यभोगदायकः । ताम्रपर्णींसमारम्य शैलार्द्धशिखरोर्द्धतः । अवन्तीसंज्ञको देशःकालिका तत्र तिष्ठति । भद्रकाली महापूर्वे रामदुर्गाच्चपश्चिमे । श्रीविदर्भाभिधो देशो वैदर्भी तत्र तिष्ठति ।गुर्ज्जरात् पूर्वभागे तु द्वारकातो हि दक्षिणे । मरुदेशोमहेशानि! उष्ट्रोत्पत्तिपरायणः । श्रीकोङ्कणादधोभागेतापीतः पश्चिमे परे । आभीरदेशो देवेशि! विन्ध्य-शैले व्यवस्थितः । अवन्तीतः पूर्वभागे गोदावर्य्यास्तथोत्तरे । मालवाख्यो महादेशो! धनधान्यपरायणः ।द्रविडतैलङ्गमध्ये चोलदेशः प्रकीर्त्तितः । लम्ब-कर्णाश्च ते प्रोक्तास्तद्भेदोवान्तरे भवेत् । कुरुक्षेत्रात्पश्चिमे तु तथा चोत्तरभागतः । इन्द्रप्रस्थान्महेशानि!दशयोजनकद्वये । पाञ्चालदेशो देवेशि! सौन्दर्य्यगर्व-भूषितः । पाञ्चालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्वतः ।काम्बोजदेशी देवेशि! वाजिराजिपरायणः । वैदर्भ-देशादूर्द्धञ्च इन्द्रप्रस्थाच्च दक्षिणे । मरुदेशात् पूर्वभागेवैराटः परिकीर्त्तितः । काम्बोजाद्दक्षभागे तु इन्द्र-प्रस्थाचु पश्चिमे । पाण्ड्यदेशो महेशानि! महाशूरत्वकारकः । गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे! ।विदेहभूः समख्याता तैरभुक्ताभिधः स तु काम्बोजदेशमारभ्य महाम्लेच्छात्तु पूर्व्वके । वाह्लीकदेशो-देवेशि! अश्वोत्पपत्तिपरायणः । तप्तकुण्डं समारभ्यरामक्षेत्रान्तकं शिवे! । किरातदेशोदेवेशि! विन्ध्यशैलेऽव-तिष्ठति । करतोयां समारभ्य हिङ्गलाटान्तगः शिवे ।मुलतानदेशोदेवेशि! महाम्लेच्छपरायणः । हिङ्गु-पीठं समारभ्य मक्केशान्तं महेश्वरि! । खुरसानाभिधो-देशो म्लेच्छमार्गपरायणः । तन्मध्ये चोत्तरे देवि! ऐराकःपरिकीर्त्तितः । काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे ।भोटान्तदेशो देवशि! मानसेशाच्च दक्षिणे । मानसेशा-द्दक्षपूर्वे चीनदेशः प्रकीर्त्तितः । कैलानीरं समारभ्यसरयूं परितः परे । आमरगान् महेशानि! महाचीना-भिधो भवेत् । जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि ।नेपालदेशोदेवेशि! शिलहट्टं शृणु प्रिये । गणेश्वरं समा-रभ्य महोदध्यन्तगं शिवे! । शिलहट्टाभिधो देशः पर्वते-तिष्ठति प्रिये! । वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ।गौडदेशः समाख्यातः सर्वविद्याविशारदः । गोकर्णे-शात् पूर्व्वभागे आर्य्यावर्त्तात्तु चोत्तरे । तैरभुक्तात् पश्चिमेतु महापुर्य्याश्च सर्व्वतः । महाकोशलदेशश्च सूर्य्यवंशपरायणः । व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे! ।मगधाख्यो महादेशो यात्रायां न हि दुष्यति । दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ । चरणाद्रिं समारभ्यगृध्रकूटान्तकः शिवे! । तावत् कीकटदेशः स्यात्तदन्तर्मा-गधो भवेत् । जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ।कामगिरिं समारभ्य द्वारकान्तं महेश्वरि! । स्त्रीकुन्त-लाभिधो देशोहूणं शृणु महेश्वरि! । कामगिरेर्द्दक्ष-भागे मरुदेशात्तथोत्तरे । हूणदेशः समाख्यातः शूरास्तत्ररमन्ति च । अथाप्यङ्गं समारभ्य कोटिदेशस्य मध्यगे ।समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः । ब्रह्म-पुत्रात् कामरूपात् मध्यभागे तु कैकयः । मागधाद्दक्षभागे तु विन्ध्यात् पश्चिमतः शिवे! । शौरसेनाभिधो-देशः सूर्य्यवंशप्रकाशकः । हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे । पाञ्चालपूर्व्वभागे तु कुरुदेशः प्रकौर्त्तितः ।कुरुदेशात् पूर्वभागे कामाद्रेर्दक्षिणे शिवे! । सिंहलाख्योमहादेशः सर्वदेशोत्तमोत्तमः । शिलहट्टात् पूर्व्वभागेकामरूपात्तथोत्तरे । पुलिन्ददेशोदेवेशि! नरनारायणःपरः । गणेश्वरात् पूर्व्वभागे समुद्रादुत्तरे शिवे! । कच्छदेशः समाख्यातः सुदेवं शृणु सादरम् । पुलिन्दादुत्तरे-भागे कच्छाच्च पश्चिमे शिवे! । मत्स्यदेशः समाख्यातोमत्स्यबाहुल्यकारकः । वैराटपाण्ड्ययोर्मध्ये पूर्वदक्ष-क्रमेण तु । मद्रदेशः समाख्यातो माद्रीह तत्र तिष्ठति ।शूरसेनात् पूर्व्वभागे गण्डक्याः पश्चिमे! शिवे! ।सौवीरदेशो देवेशि! सर्व्वदेशाधमाधमः । अवन्तीतःपश्चिमे तु वैदर्भाद्दक्षिणोत्तरे । लाटदेशः समाख्यातोवर्वरं शृणृ पार्वति! । मायापुरं समारभ्य सप्तशृङ्गा-त्तथोत्तरे । वर्वराख्यो महादेशः सैन्धवं शृणु सादरम् ।लङ्काप्रदेशमारभ्य मक्वान्तं परमेश्वरि! । सैन्धवाख्योमहादेशः पर्वते तिष्ठति प्रिये! । एते षट् पञ्चाशद्देशामया प्रोक्ता महेश्वरि! । एतन्मध्ये ऽपि देवेशि! देशभेदाह्यनेकशः । कोटिशः सन्ति देवेशि! एते मुख्याः प्रकी-र्त्तिताः । रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे । इतिसंक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि” ।तत्र भवः उत्सा० अञ् । जनप्रदादागत अण् तस्येदम्अण्वा । जानपद तत्र भवे तत आगते तत्सम्बन्धिनिच । “नीवारपाकादिकडङ्गरीयैरामृष्यते जानपदैर्नकच्चित् ।“देयं चौरहृतं द्रव्यं राज्ञाजानपदाय तु” याज्ञ०स्त्रियां तु वृत्तौ जानपदेत्यादि पा० ङीष् । वृत्तावेवङीषो नियमात् अन्यत्र जानपदा अञन्तस्य ङीपि जान-पदी तत्रभवस्त्रियां पित्त्वात् आद्युदात्तता । “त्यजेदेकंकुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्याथेआत्मार्थे पृथिवीं त्यजेत्” नीतिसारः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
