Back to search | YouTube Channel
दक्षिणायन (dakSiNAyana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishApte Hindi
Hindiदक्षिणायनम्
- -
शिशिरऋतु का अयन
दक्षिणायनम्
दक्षिण-अयनम् -
"भूमध्य रेखा से दक्षिण की ओर सूर्य की प्रगति, वह आधावर्ष जब कि सूर्य उत्तर से दक्षिण की ओर बढ़ता है, शरद् की दक्षिणी अयन सीमा"
Shabdartha Kaustubha
Kannadaदक्षिणायन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ದಕ್ಷಿಣ ದಿಕ್ಕಿನಲ್ಲಿ ಸೂರ್ಯನ ಸಂಚಾರ
व्युत्पत्तिः - > दक्षिणा दक्षिणस्यां दिशि अयनं सञ्चारः
दक्षिणायन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸೂರ್ಯನು ದಕ್ಷಿಣ ದಿಕ್ಕಿನಲ್ಲಿ ಸಂಚರಿಸುವ ಕಾಲ /ಕರ್ಕಾಟಕ ಸಂಕ್ರಾಂತಿಯಿಂದ ಮಕರಸಂಕ್ರಾಂತಿಯವರೆಗಿನ ಕಾಲ
विस्तारः - > "ऋतुत्रयं चाप्ययनं द्वे अयने वर्षसञ्ज्ञिते । कर्कटादिस्थिते भानौ दक्षिणायनमुच्यते ॥"
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishLanman
Englishवैजयन्तीकोषः
SanskritWord: दक्षिणायनम्
Root: दक्षिणायन
Gender: नपुं
Number: all
अर्थः ⇒ सूर्यस्य दक्षिणदिशं गतिः
Meaning(s):
⇒ Southern way of the sun
second half of the year
Shloka(s):
2|1|89|2 ► घनात्ययः शरत् स्त्री स्याद्विसर्गो दक्षिणायनम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|89|2 ⇢ विसर्गः (विसर्ग) (पुं) ⇒ Epithet of Dakṣiṇāyana ⇒ सूर्यस्य दक्षिणदिशं गतिः
➠ 2|1|89|2 ⇢ दक्षिणायनम् (दक्षिणायन) (नपुं) ⇒ Southern way of the sun
second half of the year ⇒ सूर्यस्य दक्षिणदिशं गतिः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ हेमन्तः
जातिः ➡ कालः
शब्दकल्पद्रुमः
Sanskritदक्षिणायनं, (दक्षिणा दक्षिणस्यां दिशिदक्षिणे गोले वा अयनम् ।) सूर्य्यस्य दक्षिणा-गतिः । सा श्रावणादिषट्षु मासेषु भवति ।इत्यमरः ॥
* ॥
यथा, --“कर्क्कटावस्थिते भानौ दक्षिणायनमुच्यते ।उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥
इति ।अयनस्योत्तरस्यादौ मकरं याति भास्करः ।राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् ॥
”इति विष्णुपुराणोक्ताच्चूडादावयनपरिग्रहःसौरेण ।दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ।इति ॥
मृगसंक्रान्तितः पूर्व्वं पश्चात्तारादिनान्तरे ।एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥
षटषष्टिवत्मरानेकदिनं स्यादयनं रवेः ।एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥
व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् ॥
कर्क्किसंक्रमणे तद्रदभिती दक्षिणायनम् ।अयनांशक्रमेणैव विषुवारम्भणं तथा ॥
”इति च ज्योतिस्तत्त्वम् ॥
तत्र जातस्य फलं यथा, --“याम्यायने यस्य भवेत् प्रसूतिःशठः कठोरः पिशुनस्वभावः ।चतुष्पदाढ्यः कृषिमानहंयु-र्व्वाचामशान्तो मनुजः प्रतापी ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
कर्क्कटसंक्रान्तिः । यथा, --“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।विषुवती तुलामेषे गोलमध्ये तथापराः ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
अयनचक्रं यथा, --“चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमञ्चेत्करोतियस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूलेनिदध्यात् ।तत्पश्चादारशूले विविधभयकरं शूलपार्श्वे-ऽर्थलाभःसौख्यं स्याच्चक्रगर्भे विविधमुनिमतं विद्धिवामक्रमेण ॥
”इति ज्योतिषम् ॥
(“त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल-विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च ।तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवाना-प्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तोभवन्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां वलमभिवर्द्धते ॥
”इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritदक्षिणायन दक्षिणा दक्षिणस्यां दक्षिणे गोले वा-ऽयनं रवेः । रवेः स्वाधिष्ठितस्थानापेक्षया १ दक्षिण-दिग्गमने २ दक्षिणगोलरूपतुलादिराशिषट्के गमनेतदुपलक्षिते ऋतुत्रयात्मके ३ कालभेदे च तत्राद्यार्थे“ऋतुत्रयञ्चाप्ययनं द्वे अयने वर्षसंज्ञिते । कर्कटादिस्थितेभानौ दक्षिणायनमुच्यते” मल० त० विष्णुपु० ।द्वितीयार्थे “दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्” मनुः ।अयनशब्दे ३५३ पृ० उत्तरायणशब्दे ११०४ पृ०खगोलशब्दे च दक्षिणायनशब्दार्थस्योक्तप्रायत्वेऽपिदक्षिणायनव्यवस्थार्थमधिकमत्रोच्यते यद्यपि चन्द्रस्यापिस्वाधिष्ठितस्थानापेक्षया दक्षिणस्यां दक्षिणगोले च गतिःसम्भवति तथापि सूर्य्यस्यैव गतिभेदे तदुपलक्षितकाले चदक्षिणायनशब्दव्यवहारः । “सौरेण द्युनिशीर्वामंषडशीतिमुखानि च । अयनं विषुवं चैव संक्रान्तेःपुण्यकालता” सू० सि० अयनस्य सौरत्वोक्तेः “यान्मासान् दक्षिणा आदित्य एति यान् मासानुत्तरादित्यएति” वाजसनेयिनां पञ्चाग्निविद्यायां दक्षिणोत्तरमा-र्गयोः पाठात् “तस्मादादित्यः षण्मासान् दक्षिणेनैतिषण्मासानुत्तरेणैतीति तैत्तिरीयश्रुतेश्चादित्यगतिमुपजी-व्यैवायनशब्दप्रवृत्तेश्च । तेनादित्यगतिनिष्पन्नत्वात्तस्यसौरत्वम् । उभयविधदक्षिणायनस्य किमवधिकस्य मनूक्तंरात्रित्वं तदभिधीयते । तत्र “भेषादौ देवभागस्थोदेवानां याति दर्शनम् । असुराणां तुलादौ तु सूर्यस्तद्भा-गसञ्चरः” सू० सि० ।“जम्बुद्वीपलवणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्सु-गसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भा-न्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुनाविषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुव-द्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः । मकरादिस्थानं विषुवद्वृत्ताश्चतुर्विंशत्यंशान्तरे दक्षिणतः । तत् स्वस्थाने प्रवह-वायुना भ्रमति । एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भ्रमन्ति । तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं चतत्रापि देवासुरविभागकृदिति” पूर्वोक्तेः । तत्सम्बद्धा मेषा-दिकन्यान्ता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौमेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्त्तिनां दर्शनं षण्मा-सानन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुव-द्वृत्तस्य तत्क्षितिजत्वात् । एवं दैत्यानां मेरोर्दक्षिणाग्र-वर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चरोदैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता रा-शयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्य-स्तुलादिप्रदेशे तुक्क्वाराददर्शनानन्तरं प्रथमदर्शनं प्राप्नो-तीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात्” रङ्गना० ।“देवासुरा विषुयति क्षितिजस्थं दिवाकरम् । पश्यन्त्य-न्योन्यमेतेषां वामसव्ये दिनक्षपे” सू० सि० ।“विषुवति काले देवदैत्याः सूर्य्यं क्षितिजस्थं पश्यन्तिविषुवद्वृत्तस्य तयोः स्वस्थानाद्भूगोलमध्यस्थत्वेन क्षितिज-त्वात् । एतेषां देवदैत्यानामन्योन्यं परस्परं ये वामसव्येअपसव्यसव्ये ते क्रमेण दिनक्षपे दिवसरात्री भवतः ।अयं भावः देवानां भूमेरुत्तरभागः स्वकीयत्वात् सव्यमतोदैत्यानामपसव्यं स्वकीयत्वाभावात् । एवं दैत्यानां भूमे-र्दक्षिणभागः स्वकीयत्वात् सव्यं देवानां स्वकीयत्वाभावा-दपसव्यमतो दैत्यानां वामसव्यगावुत्तरदक्षिणगोलौ देवानांक्रमेण दिनरात्री । देवानां वामसव्यभागौ दक्षिणीत्तर-गोलौ दैत्यानां दिनरात्री । अन्यथाऽन्योन्यं वामसव्येइत्यनयोः सङ्गतार्थानुपपत्तेः । अतएव पूर्वं मेषादा-वित्याद्युक्तमिति” रङ्गना० । अथ पूर्वश्लोकोत्तरार्धस्य सन्दि-ग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थं श्लोकाभ्यांविशदयति ।“मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम् । सञ्चरन्प्रागहर्मध्यं पूरयेम्भेरुवासिनाम् । कर्कादीन् सञ्चरं-स्तद्वदह्नः पश्चार्धमेव सः । तुलादींस्त्रीन्मृगादींश्चतद्वदेव सुरद्विषाम्” सू० सि० ।“मेषादौ विषुवद्वृत्तस्थक्रान्तिवृत्तभागे रेवत्यासन्न उदितोदर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत्त्रीन् राशीनुदगुत्तरभागस्थान् मेषवृषमिथुनान् सञ्चरन्न-तिक्रामन् सत् मेरुस्थानां देवानां प्रागहर्मध्यं प्रथमंदिनस्यार्धं पूरयेत् पूर्णं करोतित्यर्थः । मिथुनान्ते सूर्ये मेरुस्थानां सध्याह्नं स्यादिति फलितार्थः । कर्फादीन् त्रीन्राशीन् कर्कसिंहकन्थास्तद्वत् क्रमेणेत्यर्थः । अतिक्रामन्सन् स मूर्यो दिवसस्य पञ्चार्धमपरदलम् । एवकारोऽन्य-योगव्यवच्छेदार्थः । पूरयेत् । कन्यान्ते सूर्ये मेरुस्थानोसूर्यास्तो भवतीति फलितार्थः । अथ दैत्यानामाह ।तुलादीनिति । सुरद्विषां मेरोर्दक्षिणाग्रवर्त्तिनां देत्यानामित्यर्थः । तुलादींस्त्रीन् राशींस्तुलावृश्चिकधनुराख्यान्मृगादींस्त्रीन् राशीन् मकरकुम्भमीनांस्तद्वत् क्रमेणाति-क्रामन् सूर्यः । चकारस्तुलामृगादिक्रमेण पूर्वापरार्ध-मित्यर्थकः । एवकार उक्तातिरिक्तव्यवच्छेदार्थः । दिनंपूरयतीत्यर्थः । धनुरन्ते सूर्ये दैत्यानां मध्याह्न मीनान्तेसूर्ये सूर्यास्ती भवतीति फलितार्थः” रङ्गना० ।“अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् । अहोरा-त्रपमाणं च भानोर्मगणपूरणात् । दिनक्षपार्धमेतेषाम-यनान्ते विपर्ययात् । उपर्यात्मानमन्योन्यं कल्पयन्तिसुरासुराः” सू० सि० ।“एतेषां देवदैत्यानामयनान्तेऽयनसन्धौ विपर्ययाद्व्यत्या-साद्दिनक्षपार्धं दिनार्धं रात्र्यर्धं च भवति । यत्र देवानांमध्याह्नं रात्र्यर्धं च तत्र दैत्यानां क्रमेण रात्र्यर्धमध्याह्नेयत्र च दैत्यानां मध्याह्नरात्र्यर्धे तत्र देवानां क्रमेणरात्र्यर्धमध्याह्ने इति फलितार्थः । अत्र हेतुमाह ।उपरीति । देवदैत्या मेरोरुत्तरदक्षिणाग्रवर्तिनोऽन्योन्य-मात्मानं स्वसुपरिभाग ऊर्द्धभागे कल्पयन्त्यङ्गीकुर्वन्ति ।वस्तुतो भूमेर्गोलत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधो-भागयोरनुपपत्तेः । तथा च देवा दैत्यापेक्षयोर्ध्वस्थत्वंमन्यमाना दैत्यानधःस्थानङ्गीकुर्वन्ति । दैत्याश्च देवस्थाना-पेक्षयार्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्पर्यार्थः ।एवं च देवदैत्ययोर्विपरीतावस्थानाद्दिनरात्र्योर्वैपरीत्यंयुक्तमेवेति भावः” रङ्गना० ।ततश्च उत्तरगोलरूपगेषादिराशिषट्कस्थरविककालस्यदेवानां दिनत्वेदक्षिणगोलरूपतुलादिराशिषट्कस्थरविककालस्य रात्रित्वे स्थितेऽपि मकरादिकानां देवानां दिन-रात्रिकालतोक्तिः श्रौतस्मार्त्तकर्म्मोपयोगिनी रवेः स्वा-धिष्ठितस्थानापेक्षया दक्षिणोत्तरतो गत्या वा तथा व्यव-ह्रियते इति बोध्यम् अतएव सि० शि० उक्तं यथा“दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शनेसति । कुपृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणांशशिपृष्ठवासिनाम्” इदानीं संहितोक्तस्याभि-प्रायमाह । “दिनं सुराणामयनं यदुत्तरं निशेतरत्सांहितिकैः प्रकीर्तितम् । दिनोन्मुखेऽर्के दिनमेवतन्मतं निशा तथा तत्फलकीर्त्तनाय तत् । द्वन्द्वान्तमा-रोहति यैः क्रमेण तैरेव वृत्तैरवरीहतीनः । यत्रैवदृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम्?” ।“सांहितिकानां न चेदयमभिप्रायस्तर्हि मेषादेरूर्द्धं मिथु-नान्तं यावद्यै र्वृत्तैरेवारोहणं कुर्वन्नपि देवैर्वृष्टस्तैरेवपुनरवरोहणं कुर्वन् किं न दृश्यत इति” प्रमिता० ।एतदभिप्रायेणैव श्रीपत्युक्तं यथा“मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरोवसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्रषष्ठः ॥
शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदाम-रम् । भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतांच सा । गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्ध-पूर्वम् । सोम्यायने सर्म शुभं विधेयं यद्गर्हितं तत् खलुदक्षिणेच” ।एतदभिप्रायेणैव च सत्यव्रतः--“देवतारामवाप्यादि-प्रतिष्ठोदङ्मुखे रवौ । दक्षिणाभिमुखे कुर्वन् न तत्फल-मवाप्नुयात्” सूर्य्यस्य दक्षिणोत्तराभिमुख्येनैव प्रतिष्ठाद्यैविधिनिषेधावाह । अतएव सू० सि० “भानोर्मकरसं-क्रान्तेः षण्मासा उत्तरायणम् । कर्कादेस्तु तथैव स्यात्षण्मासादक्षिणायनम्” इत्युक्तम् । अतः स्वापेक्षयादक्षिणोत्तरगमनादेव दक्षिणोत्तरायणव्यवहारो भाक्तोदक्षिणोत्तरगोलयोर्गत्या तु मुख्य इत्यवधेयम् । तेनभाक्ते दक्षिणायन एव प्रतिष्ठादिनिषेधः न मुख्ये” प्रागुक्त-सत्यव्रतवाक्यैकवाक्यत्वात् । विवाहव्रतबन्धादिचूडासंस्का-रदीक्षणम् । यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम् ।पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने” म० त० भविष्यपु० । तत्रावपादः कालमा० वेखानसंहितायां यथा“मातृभैरववाराहनरसिंहत्रिविक्रमाः । महिषासुरहन्त्रीच स्थाप्या वै दक्षिणायने”४ तदभिमानिदेवताभेदे च “धूसो रात्रिस्तथा कृष्णःषण्मासादक्षिणायनम्” गीता । “आतिवाहिकास्तल्लि-ङ्गात्” शा० भा० धूमादीनां तदभिमानिदेवतापरत्वसमर्थ-नात् । ५ दक्षिणभागस्थे प्राणे च “दक्षिणस्थो यदाप्राणस्तदा स्यात् दक्षिणायनम् । पञ्चभूतात्मकास्तत्रह्रस्वाः पञ्चोदयन्ति वै” पदार्थादर्श धृतप्रयोगसार-वाक्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.