Back to search | YouTube Channel

दानं (dAnaM)

 
Apte 1890
English
दानं [दा-ल्युट्] 1 Giving, granting, teaching, &c. (in general).
2 Delivering, handing over.
3 A gift, donation, present
Ms. 2. 158
Bg. 17. 20
Y. 3. 274.
4 Liberality, charity, giving away as charity, munificence
R. 1. 69
Bh. 2. 43.
5 Ichor or the juice that exudes from the temples of an elephant in rut
सदानतोयेन विषाणि नागः Śi. 4. 63
Ki. 5. 9
V. 4. 25
Pt. 2. 70 (where the word has sense 4 also)
R. 2. 7, 4. 45, 5. 43.
6 Bribery, as one of the four Upāyas or expedients of overcoming one's enemy
see उपाय.
7 Cutting, dividing.
8 Purification, cleaning.
9 Protection.
10 Pasture.
11 Adding.
नः Ved. 1 Distribution (of food), meal, especially a sacrificial meal.
2 Part, possession, share.
3 A distributor.
Comp.
काम a. liberal.
कुल्या the flow of rut from an elephant's temples.
धर्मः alms-giving, charity.
पतिः {1} an exceedingly liberal man. {2} Akrūra, a friend of Kṛṣṇa.
पत्रं a deed of gifts.
पात्रं ‘a worthy recipient’, a Brāhmaṇa fit to receive gifts.
प्रातिभाव्यं security for payment of a debt.
भिन्न a. made hostile by bribes.
वज्रः an epithet of the Vaiśyas or men of the third tribe.
वारि n.,
तोयं ichor flowing from the temples of elephants.
वीरः {1} a very liberal man. {2} (In Rhet.) the sentiment of heroism arising out of liberality, the sentiment of chivalrous liberality
e. g. Paraśurāma who gave away the earth with its seven continents
cf. the instance given in R. G. under दानवीरः-कियदिदमधिकं मे यद्द्विजायार्थयित्रे कवचमरमणीयं कुंडलं चार्पयामि अकरुणमवकृत्य द्राक्कृपाणन निर्यद्बहलरुधिरधारं मौलिमावेदयामि ॥.
शील,
शूर,
शौंड, a. exceedingly liberal or munificent.
Hindi
Hindi
परोपकार
पुराणम्
English
दानम् / DĀNAM. Gift. In ancient india a spiritual significance was attached to dānam. (offering of a free gift). One who gave water was said to achieve contentment
one who gave food, eternal happiness
one who gave land, government of the country
one who gave gold would attain longevity
one who gave a house would get domestic felicity
one who gave silver would get physical beauty
one who gave clothes would reach candraloka
one who gave a horse would attain the world of the aśvinīdevas
one who gave bulls would get prosperity
one who gave cows would reach sūryaloka
according to manusmṛti.Vāridastṛptimāpnoti
Sukhamakṣayyamannadaḥ
Tilapradaḥ prajāmiṣṭāṁ
Dīpadaścakṣuruttamam ।।
Bhūmido Bhūmimāpnoti
Dīrghamāyur hiraṇyadaḥ
Gṛhadogryāṇi veśmāni
Rūpyado rūpamuttamam ।।
VāsodaścandrasālokyaMaśvisālokyamaśvadaḥ
Anaḍuddaḥ Śriyampuṣṭām
Godo bradhnasya viṣṭapam ।। (manusmṛti, Chapter 4).
According to manu, the Ācārya, the rewards obtained by offering the following articles as “Dānam” are as follows:--Articles offered as dānam Reward obtained by dātā (giver).Vehicle--bed Virtuous wife.Refuge (shelter) Prosperity.Corn Eternal happiness.Brahmajñāna Brahmasāyujya. (See also nakṣatrayoga and merudāna).
शब्दकल्पद्रुमः
Sanskrit
दानं,
क्ली,
(दा दाने दो अवखण्डने दैप शोधनेभावादौ ल्युट् ।) गजमदः (यथा, माघे ।५ ३७ ।“दानं ददत्यपि जलः सहसाधिरूढेको विद्यमानगतिरासितुमुत्सहेत
”“दीयते इति दानं धनं गजमदश्च ।” इतितट्टीकायां मल्लिनाथः
) पालनम् छेद-नम् शुद्धिः इति मेदिनी ने, १०
वृक्ष-कोटरकीटजमधु अस्य गुणाः रूक्षत्वम् ।दीपनत्वम् कफच्छर्दिमेहनाशित्वञ्च इतिराजवल्लभः
देवब्राह्मणादिसम्प्रदानकद्रव्यमो-चनम् तत्पर्य्यायः त्यागः विहापितम् ३उत्सर्जनम् विसर्जनम् विश्राणनम् वितर-णम् स्पर्शनम् प्रतिपादनम् प्रादेशनम् १०निर्व्वपणम् ११ अपवर्जनम् १२ अंहतिः १३ ।इत्यमरः २९
दायः १४ इति त्रिकाण्ड-शेषः
प्रदानम् १५ ददनम् १६ विश्रणनम् १७दत्तिः १८ अंहती १९ उत्सर्गः २० अति-सर्जनम् २१ स्पर्शः २२ विसर्गः २३ क्षणनम् २४प्रदेशनम् २५ इति शब्दरत्नावली
*
तस्य लक्षणादि यथा, --“अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।दानमित्यभिनिर्द्दिष्टं व्याख्यानं तस्य वक्ष्यते
सम्प्रदानस्वत्वापादकद्रव्यत्यागो दानमिति
*
दाता प्रतिग्रहीता श्रद्धादेयञ्च धर्म्मयुक् ।देशकालौ दानानामङ्गान्येतानि षड्विदुः
मनसा पात्रमुद्दिश्य भूमौ तोयं विनिःक्षिपेत् ।विद्यते सागरस्यान्तो दानस्यान्तो विद्यते
परोक्षे कल्पितं दानं पात्राभावे कथं भवेत् ।गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु
यदा तु सकुल्यः स्यान्न सम्बन्धिबान्धवाः ।दद्यात् स्वजातिशिष्येभ्यस्तदभावेऽप्सु निःक्षि-पेत्
स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते ।वसित्वा वसनं शुद्धं दानं दद्यात् सदक्षिणम्
*
एकां गां दशगुर्द्दद्यात् दश दद्याच्च गोशती ।शतं सहस्रगुर्द्दद्यात् सहस्रं बहुगोधनः
ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किन्न दीयते ।इच्छानुरूपो विभवः कदा कस्य भविष्यति
अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् ।स्वल्पं वा विपुलं वापि देयमित्यभिधीयते
*
विक्रयञ्चैव दानञ्च नेयाः स्युरनिच्छवः ।दाराः पुत्त्राश्च सर्व्वस्वमात्मन्येव योजयेत्
आपत्काले कर्त्तव्यं दानं विक्रय एव ।अन्यथा प्रवर्त्तेत इति शास्त्रार्थनिश्चयः
*
यज्ञो दानं तपो जाप्यं श्राद्धञ्च सुरपूजनम् ।यद्गङ्गायां कृतं सर्व्वं कोटि कोटि गुणम्भवेत्
शिवस्य विष्णोरग्नेश्च सन्निधौ दत्तमक्षयम् ।शालग्रामशिला यत्र तत्तीर्थं योजनद्वयम् ।तत्र दानञ्च होमश्च कोटिकोटिगुणम्भवेत्
यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः ।दानार्हौदेशकालौ तौ स्यातां श्रेष्ठौ चान्यथा
पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ।केवलं धर्म्मबुद्ध्या यद्धर्म्मदानं प्रचक्ष्यते
सहस्रगुणितं दानं भवेद्दत्तं युगादिषु ।कर्म्मश्राद्धादिकञ्चैव तथा मन्वन्तरादिषु
*
आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् ।कर्म्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ
*
तामसेन तु यज्ञेन दानेन तपसा तथा ।देवलोके ध्रुवं वासो देवसायुज्यमेव
*
गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् ।सहस्रगुणमाहूय याचिते तदर्द्धकम्
आशां दत्त्वा ह्यदातारं दानकाले निषेधकम् ।दत्त्वा सन्तप्यते यस्तु तमाहुर्ब्रह्मघातकम्
योऽसद्भ्यः प्रतिगृह्यापि पुनः सद्भ्यः प्रयच्छति ।आत्मानं संक्रमं कृत्वा परांस्तारयते हि सः
*
यस्य यद्दीयते वस्त्रमलङ्कारादि किञ्चन ।तेषां दैवतमुच्चार्य्य कृत्वा प्रोक्षणपूजने ।उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत्
योऽर्च्चितः प्रतिगृह्णाति दद्यादर्च्चितमेव वा ।तावुभौ गच्छतः स्वर्गं नरकञ्च विपर्य्यये
”इति शुद्धितत्त्यम्
*
दानं त्रिविधं सात्त्विकं राजसं तामसञ्च ।सात्त्विकं यथा, --“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।देशे काले पात्रे तद्दानं सात्त्विकं स्मृतम्
राजसं यथा, --“यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।दीयते परिक्लिष्टं तद्दानं राजसं विदुः
”तामसं यथा, --“आदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्
”इति श्रीभगवद्गीता
*
“हस्त्यश्वं गामनड्वाहं मणिमुक्तादिकाञ्चनम् ।परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति
गच्छति वै स्वर्गं दातारो यत्र भागिनः ।अनेन कर्म्मणा युक्ताः पच्यन्ते नरकेऽधमाः
”इति मत्स्यपुराणम्
*
नित्यनैमित्तिकादिभेदेन तच्चतुर्व्विधं यथा, --“नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।चतुर्थं विमलं प्रोक्तं सर्व्वदानोत्तमोत्तमम्
अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे ।अनुद्दिश्य फलन्तत् स्याद्ब्राह्मणाय नित्यकम्
यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे ।नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम्
अपत्यविजतैश्वर्य्यस्वर्गार्थं यत् प्रदीयते ।दानन्तत् काम्यमाख्यातमृषिभिर्धर्म्मचिन्तकैः
पदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।चेतसा धर्म्मयुक्तेन दानं तद्बिमलं शिवम्
”इति कूर्म्मपुराणम्
रोगोपशमनाय दानविधिर्यथा, --“गोदानं भूमिदानञ्च स्वर्णदानं सुरार्च्चनम् ।कृत्वा पश्चात् प्रतीकारं कुर्य्यात् पाण्डूपशान्तये
महापापेषु सर्व्वेषु तदर्द्धं मुख्यदोषजे ।अथवापि षडष्टांशात् कल्प्यं व्याधिबलाबलात्
कुर्य्यात् सर्व्वं कृतं कर्म्म कुष्ठरोगोपशान्तये ।गोभूहिरण्यदानञ्च तथामिष्टान्नभोजनम्
चतुर्व्विधं दानमिदं दत्त्वा कुर्य्यात् प्रतिक्रियाम् ।कदाचिदपि सिध्येत आयुषश्च बलक्रिया
मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे ।अर्शोभ्यस्त्वन्नदानेन श्वासात् कासाद्बिमुच्यते
ज्वरेचेश्वरपूजा रुद्रजाप्यं समाचरेत् ।मतिदानान्नदानञ्च शास्त्रदानं भ्रमातुरे
अग्निहोमञ्चाग्निमान्द्ये कन्यादानञ्च गुल्मके ।मेहाश्मरीविनाशाय लवणञ्च प्रदापयेत्
बहुभोजनदानेन शूलरोगाद्बिमुच्यते ।घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति
चतुर्व्विधेन दानेन साध्यः स्याद् ग्रहणीगदः ।सुवर्णदानात् कुनखी श्यावदन्तः सुखी भवेत्
रौप्यदानाच्छ्वित्रकुष्ठं साध्यं वापि प्रदृश्यते ।सिध्मले त्रपुदानञ्च वर्व्वरे लोहदानकम्
मुखव्रणे ददेन्नागं गोदानं बहुमूत्रके ।नेत्ररोगे घृतं दद्यात् सुगन्धं नासिकागदे
तैलदानं कण्डुरोगे रसदानञ्च जिह्वके ।उष्ट्रं दद्यात् पित्तरोगे लूतारोगे देवदः
”इति हारीते द्बितीयस्थाने प्रथमेऽध्याये
)