पद्मराग (padmarAga)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit English
पद्मराग padmarAga ruby
पद्मराग padmarAga lotus-hued
पद्मराग padmarAga lotus-hued
पद्मरूप padmarUpa lotus-hued
पद्म padma lotus-hued
पद्मवर्चस् padmavarcas lotus-hued
पद्मा padmA lotus-hued one
Monier Williams Cologne English
Apte Hindi Hindi
पद्मरागः
पद्मम्-रागः -
"लाल, माणिक्य"
पद्मरागम्
पद्मम्-रागम् -
"लाल, माणिक्य"
Shabdartha Kaustubha Kannada
पद्मराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕೆಂಪು ಮಾಣಿಕ್ಯ/ಕೆಂಪುಬಣ್ಣದ ಮಣಿ
व्युत्पत्तिः - > पद्मस्येव रागोऽस्य
प्रयोगाः - > "अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्", "पद्मरागदलत्विषा"
उल्लेखाः - > कुमा० ३-५३, माघ० २-२९
Schmidt Nachtrage zum Sanskrit Worterbuch German
अभिधानचिन्तामणिः Sanskrit
पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपलाः ॥ १०६४ ॥
पद्मराग (पुंक्ली), लोहितक (पुं), लक्ष्मीपुष्प (क्ली), अरुणोपल (पुं)
अभिधानरत्नमाला Sanskrit
शोणाश्मन्
शोणाश्मन्, पद्मराग
शोणाश्मा पद्मरागः स्याद्वैदूर्यं बालवायजम् ॥ १७५ ॥
verse 2.1.1.175
page 0022
वैजयन्तीकोषः Sanskrit
Word: पद्मरागः
Root: पद्मराग
Gender: पुं
Number: all
अर्थः ⇒ पद्मरागमणिः
Meaning(s):
⇒ Ruby
Shloka(s):
3|2|39|1 ► शोणरत्नं लोहितकं पद्मरागोऽरुणोपलः। (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
➠ 3|2|39|1 ⇢ शोणरत्नम् (शोणरत्न) (नपुं) ⇒ Ruby ⇒ पद्मरागमणिः
➠ 3|2|39|1 ⇢ लोहितकम् (लोहितक) (नपुं) ⇒ Ruby ⇒ पद्मरागमणिः
➠ 3|2|39|1 ⇢ पद्मरागः (पद्मराग) (पुं) ⇒ Ruby ⇒ पद्मरागमणिः
➠ 3|2|39|1 ⇢ अरुणोपलः (अरुणोपल) (पुं) ⇒ Ruby ⇒ पद्मरागमणिः
Related word(s):
परा_अपरासंबन्धः ➡ रत्नम्
पुराणम् English
पद्मराग / PADMARĀGA. See under Navaratna.
शब्दकल्पद्रुमः Sanskrit
पद्मरागः, (पद्मस्येव रागो यस्य ।) रक्तवर्ण-मणिविशेषः । माणिक इति भाषा । तत्प-र्य्यायः । शोणरत्नम् २ । लोहितकः ३ । इत्य-मरः । २ । ९ । ९२ ॥
लोहितम् ४ । कुरुबिन्दकम् ५ ।इति शब्दरत्नावली ॥
(बृहत्संहितायां ८२अध्याये अस्य परीक्षादिकं यथा, --“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।सौगन्धिकजा भ्रमराञ्जनाब्जजम्वूरसद्युतयः ॥
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभि-र्विद्धाः ।स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥
स्रिग्धः प्रभानुलेपो स्वच्छोऽर्च्चिष्मान् गुरुःसुसंस्थानः ।अन्तःप्रभोऽतिरागा मणिरत्नगुणाः समस्ता-नाम् ॥
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवःखण्डाः ।दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥
भ्रमरशिखिकण्ठवर्णादीपशिखासमप्रभो भुजङ्गानाम् ।भवति मणिः किल मूर्द्धनि योऽनर्घेयः स विज्ञेयः ॥
यस्तं बिभर्त्ति मनुजाधिपतिर्न तस्यदोषा भवन्ति विषरोगकृताः कदाचित् ।राष्ट्रे च नित्यमभिवर्षति तस्य देवःशत्रूश्च नाशयति तस्य मणेः प्रभावात् ॥
षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमा-णस्य ।कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥
अर्द्धपलस्य द्वादशकर्षस्यैकस्य षट् सहस्राणि ।यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥
माषकचतुष्टयं दशशतक्रयंद्वौ तु पञ्चशतमूल्यौ ॥
परिकल्प्यमन्तरालेमूल्यं हीनाधिकगुणानाम् ॥
वर्ण यूनस्यार्द्धं तेजोहीनस्य मूल्यमष्टांशः ।अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥
आधूम्रं व्रणबहुलं स्वल्पगुणञ्चाप्नुयाद्द्विशत-भागम् ।इति पद्मरागमूल्यं पूर्व्वाचार्य्यैः समुद्दिष्टम् ॥
”)राजनिर्घण्टोक्तपर्य्यायगुणौ माणिक्यशब्दे द्रष्टव्यौतस्य वर्णो यथा, --“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् ।पीतं काणपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥
अशोकपल्लवच्छायममुं सौगन्धिकं विदुः ।तुम्बुरे छायया नीलं नीलगन्धि प्रकीर्त्तितम् ॥
उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् ।मध्यमं मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥
* ॥
तथा च ।बन्धूकगुञ्जासकलेन्द्रगोप-जवासनासृक्समवर्णशोभाः ।भ्राजिष्णवो दाडि मबीजवर्णा-स्तथापरे किंशुकपुष्पभासः ॥
सिन्दूरपद्मोत्पलकुङ्कुमानांलाक्षारसस्यापि समानवर्णाः ।सान्द्रे निरागे प्रभया स्वयैवभान्ति स्वलक्ष्म्या स्फुटमध्यशोभाः ॥
भानोश्च भासामनुवेधयोग-मासाद्य रश्मिप्रकरेण दूरम् ।पार्श्वानि सर्व्वाण्यनुरञ्जयन्तिगुणोपपन्नाः स्फटिकप्रसूताः ॥
कुसुम्भनीलीव्यतिमिश्रराग-प्रत्यग्ररक्ताम्बरतुल्यभासः ।तथापरेऽरुष्करकण्टकारी-पुष्पत्विषो हिङ्गुलकत्विषोऽन्ये ॥
चकोरपुंस्कोकिलसारसानांनेत्रावभासश्च भवन्ति केचित् ।अन्ये पुनर्नातिविपुष्पितानांतुल्यत्विषः कोकनदोदराणाम् ॥
प्रभावकाठिन्यगुरुत्वयोगैःप्रायः समानाः स्फटिकोद्भवानाम् ।आनीलरक्तोत्पलचारुभासःसौगन्धिकाख्या मणयो भवन्ति ॥
यो मन्दराजः कुरुबिन्दजेषुस एव जातः स्फटिकोद्भवेषु ।निरर्च्चिषोऽन्तर्ब्बहुलीभवन्तिप्रभाववन्तोऽपि न तत्समानाः ॥
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्च्चिषः ॥
वर्णानुयायिनस्तेषामन्ध्रदेशे तथापरे ।न जायन्ते तु ये केचित् मूल्यलेशमवाप्नुयुः ॥
तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके ।सधर्म्माणः प्रजायन्ते स्वल्पमूल्याहि ते स्मृताः ॥
” *अथ जात्यादि ।“माणिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम् ।ब्रह्मक्षत्त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥
रक्तश्वे तो भवेद्विप्रस्त्वतिरक्तस्तु क्षत्त्रियः ।रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्त्यजः ।पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बाहुजः ।सौगग्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः ॥
शोणपद्मसमाकारः खदिराङ्गारसप्रभः ।पद्मरागो द्बिजः प्रोक्तश्छायाभेदेन सर्व्वदा ॥
गुञ्जासिन्दूरबन्धूकनागरङ्गसमप्रभः ।दाडिमीकुसुमाभासः कुरुविन्द स्तु बाहुजः ॥
हिङ्गुलाभाशोकपुष्पाभमीषत्पीतलोहितम् ।जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः ॥
आरक्तः कान्तिहीनश्च चिक्कणश्च विशेषतः ।मांसखण्डसमाभासो ह्यन्त्यजः पापनाशनः ॥
”मांसखण्डस्तु नीलगन्धेः संज्ञा ॥
* ॥
अथ दोषाः ।“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः ।द्विच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा ॥
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।गुणाश्चत्वार आख्याताश्छायाः षोडश कीर्त्तिताः ॥
छायास्तु पूर्व्वोक्ता एव ।“छायाद्वितयसम्बन्धादद्विच्छायं बन्धुनाशनम् ।द्विरूपं द्बिपदन्तेन माणिक्येन पराभवः ॥
सम्भेदो भिन्नमित्युक्तं शस्त्रघातविधायकः ।कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत् ॥
दुग्धेनेव समालिप्तमघनीपुटमुच्यते ।अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥
मधुविन्दुसमच्छायं कोकिलं परिकीर्त्तितम् ।आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत् ॥
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।धूम्रं धूमसमाकारं वैद्युतं भयमावहेत् ॥
तथा, --“शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः ।उभयत्र पदं येषां तेन च स्यात् पराभवः ॥
भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् ।दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ॥
दुःखकृत् स समाख्यातो न नृपै रक्षणीयकः ।मधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता ॥
तेषाञ्च बहुभेदाः स्युर्नते धार्य्याः कदाचन ॥
”अथ गुणाः ।“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता ॥
”तथा च ।“वर्णाधिकं गुरुत्वञ्च स्निग्धता समताच्छता ।अर्च्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥
” * ॥
फलम् ।“ये कर्कराश्छिद्रमलोपदिग्धाःप्रभाविमुक्ताः परुषा विवर्णाः ।न ते प्रशस्ता मणयो भवन्तिसमानतो जातिगुणैः समस्तैः ॥
दोषोपसृष्टं मणिमप्रबोधाद्-बिभर्त्ति यः कश्चन कञ्चिदेकम् ।तं बन्धुदुःखाय सबन्धुवित्त-नाशादयो दोषगणा भजन्ते ॥
सपत्नमध्येऽपि कृताधिवासंप्रमादवृत्तावपि वर्त्तमानम् ।न पद्मरागस्य महागुणस्यभर्त्तारमापत समुपैति काचित् ॥
दोषोपसर्गप्रभवाश्च ये तेनोपद्रवास्तं समभिद्रवन्ति ।गुणैः समुख्यैः सकलैरुपेतंयः पद्मरागं प्रयतो बिभर्त्ति ॥
” * ॥
अस्य परीक्षा यथा, --“बालार्ककरसंस्पर्शात् यः शिखां लोहितांवमेत् ।रञ्जयेदाश्रमं वापि स महागुण उच्यते ॥
दुधे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः ।वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ॥
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।प्रकाशयति सूर्य्यामः सश्रेष्ठः पद्मरागकः ॥
पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् ।पद्मरागवरो ह्येष देवानामपि दुर्लभः ॥
सर्व्वारिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः ।चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥
यो मणिर्दृ श्यते दूराज्ज्वलदग्निसमच्छविः ।वंशकान्तिः स विज्ञेयः सर्व्वसम्पत्तिकारकः ॥
पञ्च सप्त नव विंशति रागःक्षिप्त एव सकलः खलु वस्त्रे ।वर्ज्जयेद्वमति वा करजाल-मुत्तरोत्तरमहागुणिनस्ते ॥
नीलं रसं दुग्धरसं जलं वाये रञ्जयन्ति द्विशतप्रमाणम् ।ते ते यथापूर्व्वमतिप्रशस्ताःसौभाग्यसम्पत्तिविधानदायकाः ॥
* ॥
परिमाणम् ।“गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः ॥
क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः ॥
वदरीफलतुल्यो यः स्वरदिग्वसुमाषक ।तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमाषकः ॥
तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः ।ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः ॥
बिम्बीफलसमाकारो वसुषड्दशतोलकः ।अतःपरं प्रमाणेन मानेन च न लभ्यते ।यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात् ॥
केचिच्चारुतराः सन्ति जातीनां प्रतिरूपकाः ।विजातयः प्रयत्नेन विद्बांस्तानुपलक्षयेत् ॥
कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः ।श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम् ॥
तुषोपसर्गात् कलसाभिधान-माताम्रभावादपि तुम्वुरूत्थम् ।कार्ष्णात्तथा सिंहलदेशजातंमुक्ताभिधानं नभसः स्वभावात् ।श्रीपर्णकं दीप्तिनिराकृतित्वा-द्विजातिलिङ्गाश्रय एष भेदः ॥
”तथा च ।“स्नेहप्रदेहो मृदुता लघुत्वंविजातिलिङ्गं खलु सार्व्वजन्यम् ।यः श्यामिकां पुष्यति पद्मरागोयो वा तुषाणामिव चूर्णमध्यः ॥
स्नेहप्रदिग्धो न च यो बिभातियो वा प्रमृष्टः प्रजहाति दीप्तिम् ।आक्रान्तमूर्ड्घा च तथाङ्गुलिभ्यांयः कालिकां पार्श्वगतां बिभर्त्ति ॥
सम्प्राप्य चोत्क्षेपपथानुवृत्तिंबिभर्त्ति यः सर्व्वगुणानतीव ।तुल्यप्रमाणस्य च तुल्यजाते-र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥
प्राप्यापि रत्नाकरजां स्वजातिंलक्षेद्गुरुत्वेन गुणेन विद्वान् ॥
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।घृष्टो योऽत्यन्तशोभावान् गरिमाणं न मुञ्चति ।स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः ॥
स्वजातकं समुत्थेन विलिखेद्वा परस्परम् ।वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेनचित् ।न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥
जातस्य सर्व्वेऽपि मणेर्न जातुविजातयः कान्तिसमानवर्णाः ।तथापि नानाकरणार्थमेवंभेदप्रकारः परमः प्रदिष्टः ॥
गुणोपपन्नेन सहावबद्धोमणिस्तु धार्य्यो विगुणेन जात्यः ।न कौस्तुभेनापि सहावबद्धंविद्वान् विजातिं बिभृयात् कदाचित् ॥
चण्डाल एकोऽपि यथा द्बिजातीन्समेत्य भूरीनपहन्त्ययत्नात् ।तथा मणीन् भूरिगुणोपपन्नान्शक्नोति विद्रावयितुं विजातः ॥
” * ॥
अथ मूल्यम् ।बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् ।तत्र कान्तिविभागेन छायाभागं विनिर्द्दिशेत् ॥
वज्रस्य यत्तण्डुलसंख्ययोक्तंमूल्यं समुन्मापितगौरवस्य ।तत्पद्मरागस्य गुणान्वितस्यस्यान्माषकाख्या तुलितस्य मूल्यम् ॥
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।तावन्मूल्यं तथाशुद्धे कुरुविन्दे विधीयते ॥
सगुणे कुरुबिन्दे च यावन्मूल्यं प्रकीर्त्तितम् ।तावन्मूल्यचतुर्थांशहीनं स्याद्वै सुगन्धिके ॥
यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि ॥
पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः ।कार्षापणसहस्राणि त्रिंशन्मूल्यं लभेत सः ॥
इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः ।द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्द्दिशेत् ॥
एकोनो नूयते यस्तु जवाकुसुमसन्निभः ।कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥
बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते ।कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥
यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः ।कार्षापणशतानान्तु विंशतिं मूल्यमादिशेत् ॥
चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः ।मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥
द्विमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः ।तस्य मूल्यं विधातव्यं द्बिशतं तत्त्ववेदिभिः ॥
माषकैकमितो यस्तु पद्मरागो गुणान्वितः ।शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥
अतोऽन्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः ।स्वर्णद्विगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥
कार्षापणः समाख्यातः पुराणद्बयसम्मितः ।अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥
काषाया इति विख्याताः स्फटिकप्रभवाश्च ते ।तेषां दोषान् गुणान् वापि पद्मरागवदादिशेत् ॥
मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥
चतुर्विधैर्नृपतिभिर्धार्य्या सम्पत्तिहेतवे ।अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥
”इति युक्तिकल्पतरौ पद्मरागपरीक्षा ॥
वाचस्पत्यम् Sanskrit
पद्मराग पद्मस्येव रागोऽस्य । रक्तवर्णमणिभेदे तल्लक्ष-णादि वृ० सं० ४० उक्तं यथा“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।सौगन्धिकजा भ्रमराञ्जनाब्जजम्बुरसद्युतयः । कुरु-विन्दुभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः । स्फटिक-भवा द्युतिमन्तो नानावर्णा विशुद्धाश्च । स्निग्धः प्रभा-नुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभाऽ-तिरागा मणिरत्नगुणाः समस्तानाम् । कलुषा मन्द-द्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा नमनोज्ञाः सशर्कराश्चेति मणिदोषाः । भ्रमरशिखिक-ण्टवर्णो दीपशिखासमप्रभो भुजङ्गानाम् । भवति मणिःकिल मूर्धनि योऽनर्घो वै स विज्ञेयः । यस्तं बिभर्त्तिमनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताःकदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्चनाशयति तस्य मणेः प्रभावात् । षड्विंशतिः सहस्रा-ण्येकस्य मणेः पलप्रभाणस्य । कर्षत्रयस्य विंशतिरुप-दिष्टा पद्मरागस्य । अर्द्वपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि । यच्चाष्टमाषैतं तस्य स हस्त्रत्रयं मूल्यम् ।माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ । परि-कल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् । वर्णमूल-स्यार्धं तेजोहीनस्य मूल्यमष्टांशः । अल्पगुणो बहुदोषोमूल्यात् । प्राप्नोति विंशांशम् । आधूम्रं व्रणवहुलंस्वल्पगुणं चाप्नुयादुद्विंशभागम् । इति पद्मरागभूल्यंपूर्वाचार्य्यैः समुद्दिष्टम्” । युक्तिकल्पतरौ चात्रविशेषो यथा“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं काणपुरोद्भूतं कुरुविन्दमिति स्मृतम् । अशोकपल्लवच्छाय-ममुं सौगन्धिकं विदुः । तुम्बुरे छायया नीलं नील-गन्धि प्रकीर्त्तितम् । उत्तमं सिंहलोद्भूतं निकृष्टं तु-म्बुरोद्भवम् । मध्यमं मध्यजं ज्ञेयं माणिक्यं क्षेत्रभे-दतः” तथा “बन्धूकगुञ्जाशकलेन्द्रगापजवासनासृक्समवर्णशोभाः । भ्राजिष्णवो दाडिमवीजवर्णास्तथा परेकिंशुकपुष्पभासः । सिन्दूरपद्मोत्पलकुङ्कुमानां ला-क्षारसस्यापि समानवर्णाः । सान्द्रेऽतिरागे प्रभयास्वयैव भान्ति स्वलक्ष्या स्पुटमध्यशोभाः । भानोश्च भासामनुवेधयोगमासाद्य रश्मिप्रकरेण दूरम् । पार्श्वानिसर्वाण्यनुरम्लयन्ति गुणोपपन्नाः स्फटिकप्रसूताः । कुसु-म्भनीलीव्यतिमिश्ररागप्रत्यग्ररक्ताम्बरतुल्यभासः । तथापरेऽरुष्करकण्टकारीपुष्पत्विषो हिङ्गुलकत्विषोऽन्ये । च-कोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् ।अन्ये पुनर्नातिविपुष्पितानां तुल्यत्विषः कोकनदोदरा-णाम् । प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फ-टिकोद्भदानाम् । आनीलरक्तोत्पलचारुभासः सौग-न्धिकाख्या मणयो मवन्ति । यो मन्दराभः कुरुविन्द-जेषु स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्बहु-लीभवन्ति प्रभाववन्तीऽषि न तत्समानाः । ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागंबिभ्राणाः स्वस्फुटार्च्चिषः । वर्णानुयायिनस्तेषामन्ध्रदेशेतथाऽपरे । न जायन्ते तु ते केचित् मूल्यलेशमवाप्नुयुः ।तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके । सधर्माणःप्रजायन्ते स्वल्पमूल्या हि ते स्मृताः” । जात्यादि “मा-णिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम् । व्रह्मक्ष-त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम् । रक्तश्वेतो भवेद्वि-प्रस्त्वतिरक्तस्तु क्षत्रियः । रक्तपीती भवेद्वैश्यो रक्तनी-लस्तथाऽन्त्यजः । पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बा-हुजः । सौगन्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः ।शोणपद्मसमाकारः खदिराङ्गारसप्रभः । पद्मरागोद्विजः प्रोक्तश्छायाभेदेन सर्वदा । गुञ्जासिन्दूरबन्धूक-नागरङ्गसमप्रभः । दाडिमीकुसुमाभासः कुरुविन्दस्तुबाहुजः । हिङ्गुलाभाशोकपुष्पाभमोषत्पीतलोहितम् ।जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः । आरक्तःकान्तिहीनश्च चिक्वणश्च विशेषतः” । मांसखण्डसमा-भासो ह्यन्त्वजः पापनाशनः” । तद्दोषादि “माणिक्यस्य स-माख्याता अष्टौ दोषा मुनीश्वरेः । द्विच्छायञ्च द्विरूपञ्चसम्भेदः कर्करन्तथा । अशोभनं कोकिलञ्च जलं धूम्राभि-घञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोडश की-र्त्तिताः” । छायास्तु पूर्वोक्ता एव “छाया द्वितयसम्बन्धाद्द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदं तेन माणिक्येनपराभवः । सम्भेदी भिन्नमित्युक्तः शस्त्रवातविधाथकः ।कर्करं कर्करायुक्तं पशुबन्धु विनाशकृत् । दुग्धेनेव समा-लिप्तं मणेः पुटकमुच्यते । अशोभनं समुद्दिष्टं माणिक्यंबहुदुःखकृत् । मधुविन्दुसमच्छायं कोकिलं परिकीर्त्ति-तम् । आयुर्लक्ष्मीर्यशो हन्ति सदोषं तन्न धारयेत् ।रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूमस-माकारं वैद्युतं भयमावहेत्” । तथा “शोभाद्वितयवन्तोये मणयः क्षतिकारकाः । उभयत्र पदं येषां तेन चस्वात् पराभवः । भिन्नेन युद्धे मृत्युः स्यात् कर्करंधननाशकृत् । दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ।दुःखकृत् स समाख्यातो न नृपैरक्षणीयकः । मधु-विन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता । तेषां चबहुभेदाः स्युर्न ते धार्य्या कदाचन” । अथ गुणाः “गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता । वर्णाधिकंगुरुत्वञ्च स्निग्धता समताऽच्छता । अर्चिष्मत्ता महत्ता चमणीनां गुणसंग्रहः” । फलम् “ये कर्कराश्छिद्रमलोप-दिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता-मणयो भवन्ति समानतो जातिगुणैः समस्तैः । दोषोप-सृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेकम् ।तं बन्धुदुःखायसबन्धवित्तनाशादयो दोषगुणाः भ-जन्ते । सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपिवर्त्तमानम् । न पद्मरागस्य महागुणस्य भर्त्तारमापत्समुपैति काचित् । दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तंसमभिद्रवन्ति । गुणैः स मुख्यैः सकलैरुपेतो यः पद्मरागंप्रयतो बिभर्त्ति” । परीक्षा यथा “बालार्ककरसंस्पर्शात्यः शिखां लोहितां वमेत् । रञ्जयेदाश्रयं वापि समहागुण उच्यते । दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः सम-न्ततः । वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ।अन्धकारे महाघोरे यो न्यस्तः सन्महामणिः । प्रका-शयति सूर्य्याभः सु ग्नेष्ठः पद्मरागकः । पद्मकोषे तुयन्न्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येषदेवानामपि दुर्लभः । सर्वारिष्टप्रशमनाः सर्वसम्पत्ति-दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ।यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः । वंशकान्वितःस विज्ञेयः सर्वसम्पत्तिकारकः । पञ्चसप्तनवविंशतिरागःक्षिप्त एव सकलः खलु वस्त्रे । वर्जयेद्वमति वा कर-जालमुत्तरोत्तरमहागुणिनस्ते । नीलं रसं दुग्धरसंजलं वा ये रञ्जयन्ति द्विशतप्रमाणम् । ते ते यथापूर्व-सतिप्रशस्ताः सौभाम्यसम्पत्तिविधानदाश्च” । परि-माणम् “गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्वं महागुणः । क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् । पद्मरागस्तुलयतियथापूर्वं महागुणः । यदरीफलतुल्यो यः स्वरदिग्-वसुमाषकः । तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमा-षकः । तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः ।ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः । विम्बीफल-समाकारो बसुषड्दशतोलकः । अतःपरं प्रमाणेनमानेन च न लभ्यते । यदि लभ्येत पुण्येन तदा सिद्धि-मवाप्नुयात् । केचिच्चारुतराः सन्ति जातीनां प्रति-रूपकाः । विजातयः प्रयत्नेन विद्वांस्तानुपलक्षयेत् ।कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः । श्री-पर्णिकायाः सदृशा विजातयः पद्मरागाणाम् । तुषोप-सर्गात् कलसाभिधानमाताम्रभावादपि तुम्बुरोत्थम् ।कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्तामिधानं नभसः स्वभा-वात् । श्रीपर्णकं दीप्तिनिराकृतित्वाद्विजातिलिङ्गा-श्रय एष भेदः” । तथा “स्नेहप्रदेहो मृदुता लघुत्वंविजातिलिङ्गं खलु सर्वजन्यम् । यः श्यामिकां पुष्यतिपद्मरागो यो वा तुषाणाभिव चूर्णमध्यः । स्नेहपदिग्धोन च यो विभाति यो वा प्रमृष्टः प्रजहाति दीप्तिम् ।आक्रान्वमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतांबिभर्त्ति । सम्प्राप्य चोत्क्षेपपथानुवृत्तिं विभर्त्ति यःसर्वगुणानतीव । तुल्यप्रमाणस्य च तुल्यजाते यो वागुरुत्वेन भवेन्न तुल्यः । प्राप्यापि रत्नाकरजां स्वजातिंलक्षेत् गुरुत्वेन गुणेन विद्वान् । अप्रणश्यति सन्देहेशिलायां परिथर्षयेत् । घृष्टो योऽत्यन्तशोभावान् परि-माणं न मुञ्चति । स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्येविजातयः । स्वजातकसमुत्थेन विलिखेद्वा परस्परम् ।वज्रं वा कुरुविन्दं वा विमुच्यान्योन्यकेन चेत् । न शक्यंसेखनं कर्तुं पद्मरागेन्द्रनीलयोः । जात्यस्य सर्वेऽपिमणेर्न जातु विजातयः कान्तिसमानवर्णाः । तथापिनानाकरणार्थमेवं भेदप्रकारः परयोः प्रदिष्टः । गुणोप-यन्नेन सहावबद्धो मणिस्तु धार्य्यो विगुणेन जात्यः । नकौस्तुभेनापि सहावबद्धं विद्वान् विजातिं बिभृयात्कदाचित् । चण्डाल एकोऽपि यथा द्विजातीन् समेत्यभूरीनपहन्त्ययत्नात् । तथा गणीन् भूरिगुणोपपन्नान्शक्नोति विद्रावयितुं विजातः” । तस्य मूल्यम् “वाला-र्कामिमुखं कृत्वा दर्पणे धारयेन्मणिम् । तत्र कान्ति-विभागेन छायाभागं विनिर्दिशेत् । वन्रस्य यत्तण्डुल-संख्ययोक्तं मूल्यं समुन्मेपितगौरवस्य । तत् पद्मरागस्यगुणान्वितस्य स्यान्माषकाख्यातुलितस्य मूल्यम् । यन्मूल्यंपद्मरागस्य सगुणस्य प्रकीर्त्तितम् । तावन्मूल्यं तथाशुद्धे कुरुविन्दे विधीयते । सगुणे कुरुविन्दे च याब-न्मूल्यं प्रकीर्त्तितम् । तावन्मूल्यं चतुर्थांशहीनं स्याद्वैसुगन्धिके । यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।तावन्मूल्यं चतुर्थांशात् हीयते शूद्रजन्मनि । पद्मरागःपलं यस्तु धत्ते लाक्षारसप्रभः । कार्षापणसहस्राणित्रिंशन्मूल्यं लभेत सः । इन्द्रतीलकसङ्काशः कर्षत्रयधृतो मणिः । द्वाविंशतिसहस्रार्णा तस्य मूल्यं विनि-र्दिशेत् । एको नोनूयते यस्तु जवाकुसुमसन्निभः ।कार्षापणसहस्राणि तस्य मूल्यं चतुर्दश । बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते । कार्षापणशतानान्तुमूल्यं सद्भिः प्रकीर्त्तितम् । यस्तु दाडिमपुष्पाभः कर्षा-र्द्धेन तु सम्मितः । कार्मापणशतानान्तु विंशतिं मूल्य-मादिशेत् । चत्बारो माषका यस्तु रक्तोत्पलदलप्रभः ।मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् । द्विमाषकोयस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्यं विधातव्यंद्विशतं तत्त्ववेदिभिः । माषकैकमितो यस्तु पद्मरागोगुणान्वितः । शतकसम्मितं वाच्यं मूल्यं रत्मविचक्षणैः ।अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः स्वर्ण-द्विगुणमूल्येन मूल्यं तैषां प्रकल्पयेत् । कार्षापणः समा-ख्यातः पुराणद्वयसम्प्रितः । अन्ये कुसुम्भपानीयमञ्जि-ष्ठोदकसन्निभाः । कार्षाया इति विख्याताः स्फटिक-प्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् । मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।ब्रह्मक्षत्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः । चतुर्विधै-र्नृपतिभिर्धार्य्या सम्पत्तिहेतवे । अतोऽन्यथा धृतःकुर्य्याद्रोगशोकभयक्षयम्” अत्र तस्य क्लीवत्वमप्युक्तम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.