पूजा (pUjA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपूजा - pUjA - - honour
सम्भावना - sambhAvanA - - honour
पुरस्कार - puraskAra - - honour
सम्मान - sammAna - - honour
महित - mahita - - honoured
मानित - mAnita - - honoured
पूजन - pUjana - - honouring
मानन - mAnana - - honouring
आर्थ - Artha - - honourable
मान्य - mAnya - - honourable
यशस् - yazas - - honour, honor
माननीय - mAnanIya - - fittobehonoured
भवादृक्ष - bhavAdRkSa - - anyonelikeyourhonourorlikeyou
श्राद्ध - zrAddha - - ceremonyinhonourofdeadrelatives
अर्हणा - arhaNA - - honour
वरिवस्या - varivasyA - - honour
सत्कार - satkAra - - honour
मान - mAna - - honour
आदर - Adara - - honour
अर्हण - arhaNa - - honour
पूजा - pUjA - - honour
पूजा - pUjA - - respect
पूजा - pUjA - - homage to superiors or adoration of the gods
पूजा - pUjA - - reverence
पूजा - pUjA - - veneration
पूजा - pUjA - - worship [ act ]
Wilson
EnglishApte
Englishपूजा [pūjā], [पूज्-भावे-अ] Worship, honour, adoration, respect, homage
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः 1.79.Comp. -अर्ह venerable, respectable, worshipful, worthy of reverence. -उपकरणम् the requisites for the worship. -गृहम् a temple. -पट्टकम् a document of honour. -संभारः See पूजोपकरण.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishपूजा, f. honour, worship, respect, culture, rever-
ence, veneration, homage to superiors or adoration
of the gods.
—पूजा-खण्ड, N. of a Buddhist work.
—पूजा-प्रदीप, अस्, m. ‘lamp of worship, ’ N. of
a work.
—पूजार्ह (°जा-अर्°), अस्, आ, अम्, worthy
of reverence or honour, worshipful, venerable, re-
spectable, sacred.
—पूजा-वत्, आन्, अती, अत्, enjoying
honour or distinction.
Macdonell
Englishपूजा pūj-ā, honour, respect
homage, 🞄worship, adoration
hospitable reception (—° 🞄after the object of the honour or that with 🞄which it is shown): -kara, doing or showing 🞄honour or homage to (—°)
-gṛha, 🞄house of worship, temple
-arha, worthy 🞄of honour or distinction
-vidhi, showing 🞄of honour (Pr.).
Benfey
EnglishHindi
Hindiहिंदू अनुष्ठान कभी कभी ग्रह संतुष्ट करना
Apte Hindi
Hindiपूजा
- पूज् + अ + टाप्
"पूजा, सम्मान, आराधना, आदर, श्रद्धांजलि"
पूजा
- पूज्+अ
"आदर, सम्मान, पूजा"
Shabdartha Kaustubha
Kannadaपूजा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪೂಜೆ /ದೇವರ ಪೂಜೆ /ದೇವತಾರಾಧನೆ
निष्पत्तिः - > पूज (पूजने) + णिच् - "अङ्" (३-१-१०५)
प्रयोगाः - > "अपि रामे महाभागा मम माता यशस्विनी । वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥"
उल्लेखाः - > रामा०
पूजा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗೌರವಿಸುವುದು /ಮರ್ಯಾದೆಯಿಂದ ಸತ್ಕರಿಸುವುದು
प्रयोगाः - > १) "प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः" २) " सम्प्राप्तो योऽतिथिः सायं सूर्योढो गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥"
उल्लेखाः - > रघु० १-७९, पञ्चतं० १-१८१
Wordnet
Sanskrit पूजा, पूजनम्, अर्चनम्
जलपुष्पनैवेद्यादादीनाम् अर्पणेन धार्मिककार्यसम्पादनस्य भावः।
"सः मन्दिरे पूजायाः अनन्तरम् अर्चकाय दक्षिणां ददाति।"
पूजा, नमस्या, अपचितिः, सपर्या, अर्चा, अर्हणा, नुतिः
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
"सः ईश्वरस्य पूजां करोति।"
आदरः, सत्कारः, सम्मानः, मानः, अर्चनम्, अर्हा, अर्हणम्, अर्चा, अभ्यर्चा, अभ्यर्चनम्, पूजा, नमस्कारः, सेवा, सम्भावना, आराधनम्, पुरस्कारः, श्लाघा
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
"मातुः पितुः च आदरः करणीयः।"
Sanskrit Tibetan
Tibetanmchod
१) अभ्यर्चयामि २) अर्चित ३) अर्च्यमान ४) उपासते ५) पूजन ६) पूजयामि ७) पूजयेत् ८) पूजा ९) पूज्य १०) पूज्यते
mchod pa
१) अर्चन २) अर्चना ३) ४) आराधना ५) कारा ६) परिचर्या ७) पूज ८) पूजन ९) पूजना १०) पूजा ११) पूजित १२) पूज्य १३) पूज्यमान १४) भक्ति १५) महित १६) महीयते १७) मानना १८) सत्कार १९) सपर्या २०) संपूजित २१) सेवा
mchod pa bya ba
१) पूजन २) पूजा ३) पूज्य
mchod bya
१) पूजा २) पूज्य
mchod byed
१) पूजा २) प्रपूजयेत्
अभिधानचिन्तामणिः
Sanskritपूजार्हणासपर्यार्चा उपहारबली समौ ॥ ४४७ ॥
पूजा (स्त्री), अर्हणा (स्त्री), सपर्या (स्त्री), अर्चा (स्त्री), उपहार (पुं), बलि (पुंस्त्री)
अभिधानरत्नमाला
Sanskritअर्चा
अर्चा, पूजा, सपर्या
अर्चा पूजा सपर्या स्यादुपहारो बलिः स्मृतः ।
verse 1.1.1.128
page 0016
अमरकोशः
SanskritWord: पूजा
Root: पूजा
Gender: स्त्री
Number: all
Meaning(s):
⇒ honour
⇒ respect
⇒ reverence
⇒ veneration
⇒ worship [act]
⇒ homage to superiors or adoration of the gods
Shloka(s):
2|7|34|3 ► पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥ (ब्रह्मवर्गः)
Synonym(s):
➠ 2|7|34|3 ⇢ पूजा (पूजा) (स्त्री) ⇒ honour, respect, reverence, veneration, worship [act], homage to superiors or adoration of the gods
➠ 2|7|34|3 ⇢ नमस्या (नमस्या) (स्त्री)
➠ 2|7|34|3 ⇢ अपचितिः (अपचिति) (स्त्री)
➠ 2|7|34|3 ⇢ सपर्या (सपर्या) (स्त्री)
➠ 2|7|34|3 ⇢ अर्चा (अर्चा) (स्त्री)
➠ 2|7|34|3 ⇢ अर्हणा (अर्हणा) (स्त्री)
Related word(s):
परा_अपरासंबन्धः ➡ व्रतम्
जातिः ➡ क्रिया
अवयव_अवयवीसंबन्धः ➡ पूजाविधिः
शब्दकल्पद्रुमः
Sanskritपूजा, (पूजनमिति । पूज + “चिन्तिपूजि-कथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् ।ततष्टाप् ।) पूजनम् । तत्पर्य्यायः । नमस्या २अपचितिः ३ सपर्य्या ४ अर्च्चा ५ अर्हणा ६ ।इत्यमरः । २ । ७ । ३५ ॥
नुतिः ७ । इतिशब्दरत्नावली ॥
(यथा, रामायणे । १ । ५१ । ५ ।“अपि रामे महाभागा मम माता यशस्विनी ।वन्यैरुपाहरत् पूजां पूजार्हे सर्व्वदेहिनाम् ॥
”)तस्याः सामान्यानुष्ठानं यथा, --“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् ।अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥
तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् ।ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥
”इति तन्त्रसारे यामलः ॥
शक्तिविषये चतुःषष्टिरुपचारा यथा, --आसनारोपणम् १ सुगन्धितैलाभ्यङ्गः २ मज्जन-शालाप्रवेशनम् ३ मज्जनमणिपीठोपवेशनम्४ दिव्यस्नानीयम् ५ उद्बर्त्तनम् ६ उष्णोदक-स्नानम् ७ कनककलसस्थितसकलतीर्थाभिषेकः८ धौतवस्त्रपरिमार्ज्जनम् ९ अरुणदुकूलपरि-धानम् १० अरुणदुकूलोत्तरीयम् ११ आलेप-मण्डपप्रवेशनम् १२ आलेपमणिपीठोपवेशनम्१३ चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्य-गन्धसर्व्वाङ्गानुलेपनम् १४ केशभारस्य काला-गुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत-पत्रपूगकुहरीपुन्नागकह्बारयूथीसर्व्वत्तुंकुसुम-मालाभूषणम् १५ भूषणमण्डपप्रवेशनम् १६ भूषण-मणिपीठोपवेशनम् १७ नवमणिमुकुटम् १८चन्द्रशकलम् १९ सीमन्तसिन्दूरम् २० तिलक-रत्नम् २१ कालाञ्जनम् २२ कर्णपालीयुगलम्२३ नासाभरणम् २४ अधरयावकः २५ ग्रथन-भूषणम् २६ कनकचित्रपदकम् २७ महापदकम्२८ मुक्तावलिः २९ एकावलिः ३० देवच्छन्दकः३१ केयूरयुगलचतुष्टयम् ३२ वलयावलिः ३३ऊर्म्मिकावलिः ३४ काञ्चीदाम ३५ कटिसूत्रम्३६ शोभाख्याभरणम् ३७ पादकटकम् ३८रत्ननूपुरम् ३९ पादाङ्गुरीयकम् ४० एककरेपाशः ४१ अन्यकरेऽङ्कुशम् ४२ इतरकरे पुण्ड्रेक्षु-चापः ४३ अपरकरे पुष्पबाणाः ४४ श्रीमन्मा-णिक्यपादुका ४५ स्वसमानवेशास्त्रावरणदेव-ताभिः सह सिंहासनारोहणम् ४६ कामेश्वर-पर्य्यङ्कोपवेशनम् ४७ अमृताशनचषकम् ४८आचमनीयम् ४९ कर्पूरवटिका ५० आनन्दो-ल्लासविलासहासम् ५१ मङ्गलारात्रिकम् ५२श्वेतच्छत्रम् ५३ चामरयुगलम् ५४ दर्पणः ५५तालवृन्तम् ५६ गन्धः ५७ पुष्पम् ५८ धूपः ५९दीपः ६० नैवेद्यम् ६१ पुनराचमनीयम् ६२ताम्बूलम् ६३ वन्दनञ्च ६४ । इति तन्त्रसारेसिद्धयामलः ॥
* ॥
षट्त्रिंशदुपचारा यथा, --“आसनाभ्यञ्जने तद्बदुद्वर्त्तननिरूक्षणे ।सम्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥
पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्ककौ ।पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥
अलङ्कारो गन्धपुष्पधूपदीपास्तथैव च ।ताम्बूलादिकनैवेद्यं पुष्पमाला तथैव च ॥
अनुलेपनञ्च शय्या च चामरव्यजनन्तथा ।आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥
गीतवाद्ये च गानानि स्तुतिहोमप्रदक्षिणम् ।दन्तकाष्ठप्रदानञ्च ततो देवविसर्जनम् ।उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥
”इत्येकादशीतत्त्वम् ॥
अष्टादशोपचारा यथा, --“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।स्रानं वस्त्रोपवीतञ्च भूषणानि च सर्व्वशः ॥
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च दर्पणम् ।माल्यानुलेपनञ्चैव नमस्कारविसर्जने ॥
अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् ॥
”अथ षोडशोपचाराः ।“पाद्यमर्घ्ये तथाचामं स्रानं वसनभूषणे ।गन्वपुष्पधूपदीपनैवेद्याचमनन्ततः ॥
ताम्बूलमर्च्चना स्तोत्रं तर्पणञ्च नमस्क्रिया ।प्रपूजयेत् प्रपूजायां उपचारांस्तु षोडश ॥
”(अन्यप्रकारषोडशोपचारा यथा, --“आसनं स्वागतं पाद्यमर्घमाचमनीयकम् ।मधुपर्काचमनीस्नानं वसनाभरणानिच ।गन्धपुष्पधूपदीपनैवेद्यं वन्दनन्तथा ॥
”)अथ दशोपचाराः ।“पाद्यमर्घ्यं तथाचामं मधुपर्काचमनन्तथा ।गन्धादयो नैवेद्यान्ता उपचारा दश क्रमात् ॥
”अथ पञ्चोपचाराः ।“गन्धादयो नैवेद्यान्ताः पूजाः पञ्चोपचारिकाः ॥
”इति तन्त्रसारः ॥
अशुच्यादेः पूजानिषेधमाह ।“अशुचिर्न महामायां पूजयेत्तु कदाचन ।अवश्यन्तु स्मरेन्मन्त्रं सोऽतिभक्तियुतो नरः ॥
दन्तरक्ते समुत्पन्न स्मरणञ्च न विद्यते ।सर्व्वेषामेव मन्त्राणां स्मरणान्नरकं व्रजेत् ॥
जानूर्द्ध्वे क्षतजे जाते नित्यकर्म्म न चाचरेत् ।नैमित्तिकञ्च तदधःस्रवद्रक्तो न चाचरेत् ॥
लोतके च समुत्पन्ने क्षुरकर्म्मणि मैथुने ।धूमोद्गारे तथा वान्तौ नित्यकर्म्माणि संत्यजेत् ॥
द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्वा च किञ्चन ।कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा ॥
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ॥
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृते ।नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा ॥
जलौकां गूढपादञ्च कृमिगण्डूपदादिकम् ।कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत् ॥
विशेषतः शिवापूजां प्रमीतपितृको नरः ।यावद्वत्सरपर्य्यन्तं मनसापि न चाचरेत् ॥
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥
गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना ।न कुर्य्यान्नित्यकर्म्माणि रेतःपाते च भैरव ! ॥
आसनञ्चार्घ्यपात्रञ्च भग्नमासादयेन्न यत् ।ऊषरे कृमिसंयुक्ते स्थाने वृष्टेऽपि नार्च्चयेत् ॥
नीचैरासाद्य तत्स्थानं शुचिः प्रयतमानसः ।अर्च्चयेच्चण्डिकां देवीं देवमन्यञ्च भैरव ! ॥
दिग्विभागे तुकौवेरी दिक् शिवाप्रीतिकारिणी ।तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा ॥
”पूजास्थानानि यथा, --“लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथव च ।स्थण्डिलस्थां महामायां पादुके प्रतिमासु च ॥
चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् ।पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्च त्रिशूलकम् ॥
शिलायां पर्व्वतस्याग्रे गङ्गायामपि तत्समा ।आर्य्यावर्त्ते मध्यदेशे तथा पर्व्वतगह्वरे ॥
देवीं संपूजयेन्नित्यं भक्तिश्रद्धासमन्वितः ।वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ॥
ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ ।ततोऽपि द्बिगुणा प्रोक्ता द्वारवत्यां विशेषतः ॥
सर्व्वक्षेत्रेषु तीर्थेषु पूजा द्वारवतीसमा ।बिन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ॥
आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च ।बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा ॥
ततश्चतुर्गुणं प्रोक्तं करतोयानदीजले ।तस्याच्चतुर्गुणफला नन्दिकुण्डे च भैरव ! ॥
तस्माच्चतुर्गुणा प्रोक्ता जल्पीशेश्चरसन्निधौ ।तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता ॥
ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि ।तत्समा कामरूपे तु सर्व्वत्रैव जले स्थले ॥
सर्व्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्व्वोत्तमा यथा ।देवीपूजा तथा शस्ता कामरूपे सुरालये ॥
देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् ।अन्यत्र विरला देवी कामरूपे गृहे गृहे ॥
ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके ।ततोऽपि द्विगुणं प्रोक्तं हेरुके शिवलिङ्गके ॥
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्त्रादियोनिषु ।ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डले ॥
”इति कालिकापुराणे । ५४ । ५७ । अध्यायौ ॥
पूजासनानि तत्फलानि च यथा, --“उपविश्यासने रम्ये कृष्णाजिनकुशोत्तरे ।राङ्कवे कम्बले वापि काशादौ व्याघ्रचर्म्मणि ॥
न कुर्य्यादर्च्चनं विष्णोः शिवे काष्ठासनादिषु ।काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः ॥
भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता ।कुशासने ज्ञानवृद्धिः कम्बले सिद्धिरुत्तमा ॥
कृष्णाजिने धनी पुत्त्री मोक्षः स्याद्व्याघ्रचर्म्मणि ।मन्त्रयोगं प्रकुर्व्वीत भोगार्थं सुखमासने ॥
”इति पाद्मोत्तरखण्ड ७४ अध्यायः ॥
पूजाधिकारिता प्रयोजकदेवषट्कपूजा यथा, --“गणेशञ्च दिनेशञ्च वह्रिं विष्णं शिवं शिवाम् ।संपूज्य देवषट्कञ्च सोऽधिकारी च पूजने ॥
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् ।वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः ॥
शिवं ज्ञानाय ज्ञानेशं शिवाञ्च बुद्धिवृद्धये ।संपूज्य तान् लभेत् प्राज्ञो विपरीतमतोऽन्यथा ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥
द्बादशमासे विष्णुपूजाविधिर्यथा, --“प्रत्यहं कार्त्तिके मासि जातीपुष्पैः समर्च्चयेत् ।दद्यादखण्डदीपञ्च नियतात्मा दृढव्रतः ।ब्राह्मणान् भोजयित्वाथ सहसायुज्यमाप्नुयात् ॥
मार्गशीर्षे नवान्नेन वकपुष्पैश्च केशवम् ।समर्च्च्य भोजयेद्विप्रान् वैकुण्ठपदमाप्नुयात् ॥
धनुष्युषसि देवेशं मासमेकं निरन्तरम् ।अर्च्चयेदुपवासैश्च करवीरैः सितासितैः ॥
धूपैर्दीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत् ।समाप्तौ भोजयेद्बिप्रान् महाभागवतोत्तमान् ॥
अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयः ॥
तपोमास्युदिते भानौ स्नात्वा नद्यां विशेषतः ।अर्च्चयेन्माधवीपुष्पैरुत्पलैश्च शुभानने ! ॥
पायसं विविधं दिव्यं भक्त्या तत्र निवेदयेत् ।मासान्ते वैष्णवान् विप्रान् भोजयेत् शक्तितोद्बिजः ॥
तपस्ये च तथा देवि ! माधवैः कुसुमः शुभैः ।स्नात्वा संपूजयेद्बिष्णुं मासमेकं निरन्तरम् ॥
शर्कराम्बु घृतं नित्यमपूपांश्च निवेदयेत् ।वैष्णवान् भोजयेच्छक्त्या मासान्ते शुभदर्शने ! ॥
मधुमासि तथा नित्यं वकुलैश्चम्पकैरपि ।पूजयेज्जगतामीशं गुडान्नञ्च ! निवेदयेव् ॥
मासान्ते वैष्णवान् विप्रान् भोजयेत् सुसमा-हितः ।सहस्रवार्षिकं पूजाफलं नित्यमवाप्नुयात् ॥
माधवे पूजयेद्विष्णुं शतपत्रैर्महोत्पलैः ।पूजयित्वा विधानेन दध्यन्नफलसंयुतम् ॥
गुडोदकञ्च भक्त्या वै तस्मिन् देवि ! निवेदयेत् ।लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्व्वति ! ॥
ज्यैष्ठे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः ।अर्च्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम् ॥
निवेदयित्वा भक्त्या वै गवां कोटिप्रदो भवेत् ॥
वैष्णवान् भोजयेन्नित्यं मासान्ते भक्तसत्तमः ।ब्राह्मणांश्च शिवे ! सर्व्वं फलमानन्त्यमश्नुते ॥
आषाढे देवताधीशं लक्ष्मीभर्त्तारमच्युतम् ।श्रीपुष्पैरर्च्चयेन्नित्यं पायसान्नं निवेदयेत् ॥
मासान्ते भोजयेद्विप्रान् महाभागवतोत्तमान् ।षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयम् ॥
नभोमास्यर्च्चयेद्विष्णुं पुन्नागैः केतकीदलैः ।अर्च्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत् ॥
दद्याद्वै पिष्टकान् भक्त्या शर्कराघृतमिश्रितान् ।ब्राह्मणान् भोजयित्वा तु सर्व्वमानन्त्यमश्नुते ॥
नभस्यप्यर्च्चयेदीशं कुन्दैः कुरुवकैरपि ।क्षीरान्नं गुडमिश्रन्तु भक्त्या तत्र निवेदयेत् ।गवां कोटिप्रदानस्य प्रत्यहं समवाप्नुयात् ॥
इषे नीलोत्पलैर्मासि पूजयेम्मधुसूदनम् ।भक्त्या निवेदयेत्तस्मिन् क्षीरमाज्यविमिश्रितम् ॥
कन्याकोटिसहस्राणि कन्याकोटिशतानि च ।वैष्णवं लोकमाप्नोति मुदितः स्वजनैर्युतः ॥
ऊर्ज्जमासे स्वयं देवि ! कोमलैस्तुलसीदलैः ।पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् ॥
”इति पाद्मोत्तरखण्डे ७५ अध्यायः ॥
द्वादशमासादौ दुर्गापूजादि देवीपुराणे द्रष्ट-व्यम् ॥
अथ देवपूजाविधिः ।स्नातः स्नानासामर्थ्ये आर्द्रवाससा कृतगात्र-मार्ज्जनादिर्गृ हसमीपं गत्वा प्राङ्मुख उदङ्मुखो वाप्रक्षालितपादः शुचिर्द्विवासाः कुशहस्तःस्वाचान्तः सर्व्वत्र वीरासनोपविष्टः प्राङ्मुखःरात्रावुदङ्मुख एव मौनी ध्यानपरायणः काम-रागभय-द्वन्द्वक्रोध-मात्सर्य्यत्वरा-रहितस्तन्मनाःसुमना वा शुचौ समुपविष्टोऽनिष्टशब्दगन्ध-रहिते देशे दक्षिणपार्श्वे नैवेद्याद्युपकरणानिच वामपार्श्वे जलं पुरतो धूपदीपौ ताम्रादि-पात्रञ्च यथासन्निवेशं पाद्यार्घ्याचमनीयपात्रंजलादिपूर्णमग्रतः स्थापयित्वा यथालाभं यज्ञोप-वीतवस्त्रालङ्करणादि संस्थाप्य ।ओँ अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।भूतानामविरोधेन पूजाकर्म्म करोम्यहम् ॥
इत्युच्चार्य्य अस्त्राय फडिति तर्ज्जन्यङ्गुष्ठयोग-ध्वनिच्छोटिकया दशदिग्बन्धनं कुर्य्यात् ॥
* ॥
नादेवो देवमर्च्चयेदित्यनुरोधात् सर्व्वदेवार्च्चनेषुभूतशुद्धिमाहुरागमिकाः । सा यथा, --सोऽहमिति मन्त्रेण जीवात्मानं नाभितो हृदिस्थ-परमात्मनि संयोज्य ततः पृथिवीं जले जलंतेजसि तेजो वायौ ततो वायुमाकाशे प्रवेश्यदक्षिणाङ्गुष्ठेन दक्षिणनासापुटं धृत्वा यमितिवायुबीजेन षोडशवारजप्तेन वाय्वाकर्षणरूप-पूरकसंज्ञया वायुचिन्तनरूपया वायव्याधार-णया देहं शोषयित्वा ततो नासापुटावङ्गुष्ठा-नामिकाभ्यां धृत्वा रमिति वह्निबीजेन चतुः-षष्टिवारजप्तेन स्तम्भनरूपकुम्भकसंज्ञया अग्नि-चिन्तनरूपया आग्नेय्या धारणया देहं दाह-यित्वा लमितीन्द्रबीजेन द्वात्रिंशद्वारजप्तेनदक्षिणनासापुटेन वायुनिःसारणरूपया रेचक-संज्ञया ऐन्द्रध्यानरूपया ऐन्द्र्याधारणया स्थिरी-कृत्य वमिति वरुणबीजेन चतुःषष्टिवारजप्तेनजलाधिपध्यानरूपया जलाधिपधारणया चन्द्र-मण्डलादमृतं स्रावयित्वा तेनाप्लाव्य प्रणवेनसर्व्वाङ्गं संघटितं पुनर्नवीभूतं चिन्तयित्वावाय्वादिभूतानि व्योमादिभ्यो व्युत्क्रमेण बहिःकृत्वा हंस इति मन्त्रेण परमात्मतो जीवं नाभि-पद्मे न्यसेत् ॥
* ॥
तत ऋष्यादिन्यासः ।गोपालमन्त्रे तु नारदाय ऋषये नमः शिरसि ।गायत्त्रीच्छन्दसे नमो मुखे । श्रीकृष्णाय देवायनमो हृदि । एवमन्यत्रोहनीयम् ॥
* ॥
ततः प्राणायामः ।तत्तन्मूलमन्त्रेण षोडशवारजप्तेन अङ्गुष्ठेनदक्षिणनासापुटं धृत्वा वामनासया वायुं पूर-येत् । अङ्गुष्ठानामिकाभ्यां नासापुटौ धृत्वाचतुःषष्टिवारजप्तेन वायुं कुम्भयेत् । वामनासाम-नामिकया धृत्वा दक्षिणनासया द्वात्रिंशद्वार-जप्तेन वायुं त्यजेत् । पुनर्दक्षिणनासया पूरयेत् ।उभाभ्यां कुम्भयेत् । वामनासया रेचयेत् ।पुनर्वामया पूरयेत् । उभाभ्यां कुम्भयेत् । दक्षि-णया रेचयेदिति ॥
* ॥
ततो वाह्यमातृकान्यासः । न्यासशब्दे द्रष्टव्यः ॥
अनेकदेवपूजने तु भूतशुद्धिमातृकान्यासयोर-विशेषात् सकृदेवानुष्ठानम् ॥
* ॥
ततः करन्यासः ।यथा गोपाले । ओँ क्लां अङ्गुष्ठाभ्यां नमः अङ्गु-ष्ठयोः । ओँ क्लीं तर्जनीभ्यां स्वाहा तर्ज्जन्योः ।ओँ क्लूं मध्यमाभ्यां वषट् मध्यमयोः । ओँ क्लैंअनामिकाभ्यां हूं अनामिकयोः । ओँ क्लौंकनिष्ठाभ्यां वौषट् कनिष्ठयोः । ओँ क्लः करतल-पृष्ठाभ्यां फट् करतलपृष्ठयोः । एवमन्यत्राप्यूह्यम् ॥
ततोऽङ्गन्यासः ।ओँ क्लां हृदयाय नमः हृदये हस्ततलेन । ओँक्लीं शिरसे स्वाहा अङ्गुष्ठाङ्गुलिभिः शिरसि ।ओँ क्लूं शिखायै वषट् अधोमुखाङ्गुलिमुष्टिनाशिखायाम् । ओँ क्लैं कवचाय हूं व्यस्तकर-तलाभ्यां आशिरःपादपर्य्यन्तरूपसर्व्वाङ्गे । ओँक्लौं नेत्राभ्यां वौषट् तर्जनीमध्यमाभ्यां नेत्रयोः ।ओँ क्लः अस्त्राय फट् ऊर्द्ध्वाधस्तालत्रयं छोटि-काभिर्दशदिग्बन्धनञ्च कुर्य्यात् । एवमन्यत्राप्यूह-नीयम् । आगमोक्तादिपूजने तु भूतशुद्ध्यादि-नियमः अन्यत्र त्वनियमः ॥
* ॥
ततोऽर्घ्यस्थापनम् ।वामतोऽर्घ्यपाद्याद्याचमनीयपात्राणि संस्थाप्यअर्घ्यपात्रं जलगन्धपुष्पैः संपूज्य तत्तद्देवता-मूलमन्त्रं सर्व्वदेवतासाधारणे तु प्रणवं वाअष्टधा जप्त्वा धेनुमुद्रया अमृतीकृत्य तदुदकंपात्रान्तरे किञ्चित् कृत्वा तेनोदकेनात्मानंपूजोपकरणञ्चाभ्युक्षयेत् । प्रणवादितत्तद्देवता-चतुर्थ्यन्तनाम्ना नमोऽन्तेन मूलमन्त्रेण वाआत्मानं गन्धादिभिरभ्यर्च्य तद्रूपं ध्यात्वा तत-स्ताम्रपात्रे चन्दनादिरचिताष्टदलपद्मे सम्बो-धनान्तदेवतानाम्ना इहागच्छेत्यावाह्य स्थाप-यित्वा मूलेन चतुर्थ्यन्तनाम्ना आसनं दत्त्वासम्बोधनान्तनाम्ना स्वागतं ते इति पृच्छेत् ।दीक्षितस्तु मूलमन्त्रमुच्चार्य्य प्रणवादिचतुर्थ्यन्त-नाम्ना नमोऽन्तेन दद्यादिति विशेषः । एवंपाद्यार्घ्याचमनीयादीनि दद्यात् । पाद्यार्ध्ययोःपौर्ब्बापर्य्ये त्वनियमः । ततो घृतमधुदधिमेलक-पलमितं कांस्यपात्रस्थं पिहितञ्च मधुपर्कं पुन-राचमनीयञ्च दद्यात् । ततो लौकिकषष्ट्यधिक-शतत्रयतोलकान्यूनवैदिकाष्टोत्तरशतपलान्यून-जलेन तदभावे षष्टिरक्तिकमासद्वयाधिकत्रयो-दशतोलकरूपवैदिकपलचतुष्टयान्यूनजलेन इदंस्नानीयं एवं दुग्धादिनापि । घृतादिस्नाने तुगन्धद्रव्यचूर्णकविरूक्षणमुष्णोदकेन क्षालनं चाङ्गंततः पुनराचमनीयं वाससी पुनराचमनीयंदद्यात् । प्रत्येकमलङ्कारं यज्ञोपवीतं गन्धं पुष्पंधूपं दीपं नैवेद्यं पुनराचमनीयं ताम्बूलं दत्त्वामूलमन्त्रं यथाशक्ति जप्त्वा समर्प्यत्रिः प्रदक्षिणी-कृत्य अष्टाङ्गप्रणिपातेन पञ्चाङ्गप्रणिपातेन वाशिरसि करद्वयसंयोगेन च प्रणम्य स्तुत्वा प्रण-वादिसम्बोधनान्तनाम्ना क्षमस्वेति विसर्ज्जयेत् ।यत्र यदुपचारद्रव्यासम्भवस्तदर्थं जलं देयम् ।प्रतिष्ठितस्थिरतरप्रतिमायां तत्तदावाहनविस-र्ज्जने न स्तः । एवं शालग्रामे जले वा सर्व्व-देवपूजनेऽपि यथालाभं पाद्यादिदशोपचारैः ।गन्धपुष्पधूपदीपनैवेद्यैः पञ्चोपचारैः गन्ध-पुष्पाभ्यां वा केवलेन पुष्पेण केवलेनाक्ष-तेन केवलेन जलेन मानसिकेन वा पूज-येत् । तत्र सामान्यदेवताधूपः शारदायाम् ।सगुग्गुल्वगुरूशीरशर्करामधुचन्दनैः ।धूपयेदाज्यसंमिश्रैर्नीचैर्देवाय देशिकः ॥
एतैर्मिलितैर्यथालाभं वा । इति सर्व्वदेवता-साधारणो विधिः ॥
* ॥
ततः प्रथमं सूर्य्यपूजा ।ओँ सूर्य्यायनमः इति पूजयेत् । तत्र गन्धाः ।चन्दनागुरुकर्पूरवीरणमूलपद्मकाष्ठरक्तचन्द-नानि । पुष्पाणि । मल्लिकामालतीकरवीरचम्पक-पाटलावकुलतगरपीतझिण्टीकुन्दनवमल्लिका-शोकपद्मागस्त्यजवापुष्पाणि विहितानि । तुलसी-कृष्णतुलसीदूर्व्वाविल्वपत्राणि राजिताकाञ्च्येक-दलतगरमुद्गलानि निषिद्धानि । धूपाश्च । गुग्-गुल्वगुरुदेवदारुविल्वानि । दीपस्तु घृतेन तैलेनवा । नैवेद्यानि विविधभक्ष्याणि ॥
* ॥
अथ गणेशपूजा ।तदावाहने । ओँ भूर्भुवःस्वर्गणेश इहागच्छइति दूर्व्वापुष्पाक्षतैरावाह्य ओँ गणेशाय नमइत्यनेन पूजयेत् । तत्र तुलसी निषिद्धा । रक्त-चन्दनरक्तपुष्पादिकं विहितम् । देवतान्तरप्रसिद्धंअन्यत् मुकुलादिकं न देयम् ॥
* ॥
अथ दुर्गापूजा ।ओँ भूर्भुवःस्वर्दुर्गे इहागच्छ इति पुष्पाक्षतैरा-वाह्य ओँ दुर्गायै नम इत्यनेन पूजयेत् । तत्रगन्धाः चन्दनागुरुकर्पूरकुङ्कुमानि । पुष्पाणिमल्लिकोत्पलपुन्नागशमीचम्पकाशोककर्णिकार-करवीरतुलसीविल्वपत्रादीनि विहितानि ।मुकुलार्कमन्दारपुष्पाणि निषिद्धानि । धूपाःकृष्णागुरुसहितघृतमहिषाक्षगुग्गुलुविल्वान्य-तमानि वीरणमूलचन्दनेऽपि । दीपस्तु घृतेनतैलेन वा । नैवेद्यानि आम्रनारिकेलखर्ज्जूर-कदलीबीजपूरादीनि । क्वथितं विद्धं फलं निषि-द्धम् । यत्नपक्वकदलीफलमपि विहितम् ॥
* ॥
अथ शिवपूजा ।उदङ् मुखः ओँ नमः शिवाय नमः इति मन्त्रेणपूजयेत् । तत्र गन्धः अगुरुचन्दने । पुष्पाणि चअर्ककरवीरजातीवकुलपाटलाश्वेतमन्दारनाग-केशरचम्पक-धुस्तूरविल्वामलक-तुलसीपत्राणिविहितानि । केतकीमाधवीपुष्पकुन्दयूथीमद-न्तिकाशिरीषसर्जबन्धूकमुकुलमात्राणि निषि-द्धानि । धूपस्तु घृतगुग्गुलुविल्वफलानि उशीरा-गुरुचन्दनानि च । दीपस्तु घृतेन तैलेन सर्षपा-दिना वा । नैवेद्यानि गुडखण्डघृतपक्वमातुलुङ्ग-फलादीनि ॥
* ॥
अथ पार्थिवशिवलिङ्गपूजाविधिः ।ओँ हराय नम इति मृदाहरणम् । ओँ महे-श्वराय नम इति घटनम् । ओँ शूलपाणे इहसुप्रतिष्ठितो भव इति प्रतिष्ठा । आचारात्ध्यायेन्नित्यमित्यादिना शारदोक्तं ध्यायेत् ।पिनाकधृक् इहागच्छ इत्यावाहनम् । ओँ पशु-पतये नम इति स्नपनम् । एतत् पाद्यं ओँनमः शिवाय नम इति पाद्यादिभिः संपूज्यवामावर्त्तेन वेद्यां प्राच्यादिषु ओँ सर्व्वाय क्षिति-मूर्त्तये नमः ओँ भवाय जलमूर्त्तये नमः ओँरुद्राय अग्निमूर्त्तये नमः ओँ उग्राय वायुमूर्त्तयेनमः ओँ भीमाय आकाशमूर्त्तये नमः ओँ पशु-पतये यजमानमूर्त्तये नमः ओँ महादेवायसोममूर्त्तये नमः ओँ ईशानाय सूर्य्यमूर्त्तये नमः ।इत्यष्टमूर्त्तीः पुष्पैः पूजयेत् । ततो मुखवाद्यं कृत्वामहादेव क्षमस्वेति संहारमुद्रया विसर्ज्जयेत् ।स्त्रीशूद्रस्तु नमः शिवायेति मन्त्रेण पूजयेत् ॥
* ॥
अथ विष्णुपूजा ।शङ्खाद्यर्घ्यपात्रं पुरतो निधाय त्रिभागजलेना-पूर्य्य वमिति धेनुमुद्रया अमृतीकृत्य ओँ विष्णवेनम इत्यष्टधा जपित्वा तेनोदकेनात्मानं पूजोप-करणञ्चाभ्युक्षेत् । दीक्षितस्तु तन्मन्त्रमुच्चार्य्यतन्नाम्ना पूजयेत् अङ्गाद्यावरणञ्च पूजयेत् शाल-ग्रामे मणौ प्रतिमाष्टदलपद्मजलादिषु । तत्रशालग्रामे आवाहनविसर्ज्जने न स्तः । ध्येयःसदेत्यादिना ध्यात्वा ओँ भगवन् विष्णो इहा-गच्छेत्याद्यक्षतपुष्पैरावाह्य इदमासनं ओँश्रीविष्णवे नमः ओँ विष्णो स्वागतमिति पृच्छेत्एतत् पाद्यं ओँ विष्णवे नमः सामगस्तु इदमर्घ्यंओँ विष्णवे नमः इति वदेत् । तदितरस्तु एषो-ऽर्घ इति विशेषः । तत्र द्रव्याणि कुशपुष्पाक्षत-सिद्धार्थचन्दनतोयानि यथालाभं वा अर्ध्यपाद्य-योस्तु पौर्ब्बापर्य्येण नियमः । आचमनीये सुगन्धि-द्रव्ययुक्तजलं केवलं वा प्रशस्तजलम् । घृतमधु-दध्यात्मको मधुपर्कः तदभावे केवलं वा मधु ।पूर्व्ववदिदमाचमनीयं इदं स्नानीयं तत्र लौकिक-षष्ट्यधिकशतत्रयतोलकान्यूनं जलम् । पुनराच-मनीयं इदं वस्त्रं पुनराचमनीयं इदमाभरणंपुनराचमनीयं गन्धस्तु अङ्गुष्ठयुक्तकनिष्ठया गन्ध-मुद्रया तत्र चन्दनागुरुकर्पूरकुङ्कुमवीरणमूल-पद्मकाष्ठसिह्लकरक्तचन्दनकस्तूरिकाजातीफलानिघृष्टानि एतच्चूर्णानि वा एतद्दाहाकृष्टरसो वापुष्पाणि च तर्ज्जन्यङ्गुष्ठयोगरूपपुष्पमुद्रया तत्रमल्लिका-मालतीजाती-केतक्यशोक-चम्पकनाग-केशरवकुल-पद्मोत्पलतुलसी-विल्वकरवीरपारि-भद्रपाटलाश्वेतापराजिताबहुदलतगरश्वेतजवा-रक्ताशोकशणपुष्पभूमिचम्पकशेफालीनवमालि-कायूथिकाकदम्बकुन्दलवङ्गमाधवीपुष्पवकबन्धूक-कुरुवकविल्वपुष्प-बहुवारक-कह्लारद्रोणपलाश-पुष्पाणि विहितानि । नरसिंहेतरावतारे केतकीनिषिद्धा । पर्य्युषितमच्छिद्राप्रोक्षितस्वयंपतितोप-हतमध्याह्नस्नानोत्तरत्रुटितपद्मचम्पकेतरकलि-कातुलसीतरशुष्कपत्रपरिहित-पुष्पविहितेतर-रक्तपुष्पचैत्यवृक्षोद्भवश्मशानजात-कुटज-शा-ल्मलीशिरीषपुष्पाणि निषिद्धानि । ब्राह्मणेतरस्यवनोद्भवानि च । विहितपत्राणि तुलसीविल्व-शमीभृङ्गराजतमालामलककेतकीपत्राणि । पद्म-कुन्दोत्पलानि पञ्चदिनात् परतः पर्युषितानि ।तुलस्यगस्त्यविल्वानि कदापि न पर्युषितानि ।धूपस्थानञ्च देवस्य वामे पुरतो वा । तर्ज्जन्यङ्गुष्ठ-योगरूपधूपमुद्रया वामहस्तेन घण्टां वादयन्देयः । स च भूमौ न देयः । धूपश्च जटामांसी-महिषाक्षगुग्गुलुकर्पूरागुरुसिह्लकदेवदारुजाती-फलशारदोक्तमिश्रितगुग्गुल्वादयः । दीपस्थानंदेवस्य दक्षिणतः पुरतो वा । मध्याङ्गुष्ठयोगरूप-दीपमुद्रया एष दीपः घृतेन तैलेन वा भूमौ नदेयः । नैवेद्यस्थानञ्च देवपृष्ठेतरदेशः । अना-मिकाङ्गुष्ठयोगरूपनैवेद्यमुद्रया एतन्नैवेद्यं तत्रकदली-पनस-जम्बूलवनी-करमर्दक-हविःसंस्कृत-तिलमाषमुद्गयवगोधूमव्रीहिशाल्यन्नं विहितम् ।निषिद्धन्तु अजामहिषीक्षीरदधिघृतं पञ्चनखवराह-मत्स्य-मृग-च्छागेतरमांस-हिरण्योदक-स्पर्शेतरश्वचाण्डालदृष्टविडालाद्युच्छिष्टस्नेहाक्त-पर्य्युषितेतरभक्ष्यम् । खण्डादीनि यवगोधूमक्षीर-विकाराश्च न पर्य्युषिताः । ततः पुनराचमनीयंताम्बूलञ्च दत्त्वा अष्टोत्तरसहस्रं शतं दश वाउत्तरीयवस्त्रेण छादितहृद्देशे स्थिततिर्य्यग्भूत-दक्षिणकरः यथाशक्ति मूलमन्त्रं जपित्वाओँ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।सिद्धिर्भवतु मे देव ! त्वत्प्रसादात् त्वयि स्थिते ॥
इत्यर्घ्योदकेन देवहस्ते जलं दद्यात् । ततोऽर्घ्य-शङ्खं गृहीत्वा त्रिः प्रदक्षिणीकृत्य, ध्येयं सदा परिभवघ्नमभीष्ठदोहंतीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतंवन्दे महापुरुष ! ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मींधर्म्मिष्ठ ! आर्य्यवचसा यदगादरण्यम् ।मायामृगं दयितयेप्सितमन्वधाव-द्वन्दे महापुरुष ! ते चरणारघिन्दम् ॥
इति स्तुत्वा ओँ प्रसीद भगवन्निति दण्डवत्प्रणमेत् ।ओँ यत् किञ्चित् क्रियते देव मया सुकृतदुष्कृ-तम् ।तत् सर्व्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥
इत्यनेन सर्व्वं समर्पयेत् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्द्दन ।यत् पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥
इति प्रार्थयेत् ॥
ततः संहारमुद्रया निर्म्माल्य-पुष्पमादाय भूमौ त्यजेत् विसर्ज्जनसत्त्वे ओँभगवन् विष्णो क्षमस्वेति विसर्ज्जयेत् तदसत्त्वेनिर्म्माल्यपुष्पमादाय ।ओँ तिष्ठ देव परे स्थाने स्वस्थाने परमेश्वर ।यत्र ब्रह्मादयः सर्व्वे सुरास्तिष्ठन्ति मे हृदि ॥
इति मन्त्रेण देवं हृदि स्थापयेत् । तत ओँविष्वक्सेनाय नम इति गन्धपुष्पनैवेद्याग्रंदद्यात् । ततो वैष्णवाय तन्निर्म्माल्यं अनुलेपनंनैवेद्यञ्च किञ्चिद्दत्त्वा शिरसि निर्म्माल्यं धार्य्यंसर्व्वाङ्गेष्वनुलेपनं कृत्वा यथाकालं पादोदकंनैवेद्यञ्चोपभुञ्जीत । तत्र पादोदकग्रहणे मन्त्रः ।ओँ कृष्ण कृष्ण महावाहो भक्तानामार्त्तिनाशन ।सर्व्वपापप्रशमनं पादोदकं प्रयच्छ मे ॥
ततस्तत्पानादौ परोदितेष्टदेवतानाम श्रुत्वास्वयं त्रिरुच्चार्य्य पादोदकं पीत्वा तच्छेषम् ।अकालमृत्युशमनं सर्व्वव्याधिविनाशनम् ।विष्णोः पादोदकं पुण्यं शिरसा धारयाम्यहम् ॥
इति शिरसि धारयेत् ॥
नैवेद्यभक्षणे मन्त्रः ।ओँ उच्छिष्टभोजिनस्तस्य वयमुच्छिष्टकाङ्क्षिणः ।येन लीलावराहेण हिरण्याख्यो निपातितः ॥
इत्युच्चार्य्य भक्षयेत् ॥
* ॥
यथालाभं दशोपचारेणवा पूजयेत् । तत्र दशोपचाराः । अर्घ्यपाद्याचम-नीयमधुपर्काचमनगन्धपुष्पधूपदीपनैवेद्यानि ।पञ्चोपचाराः । गन्धपुष्पधूपदीपनैवेद्यानि । गन्ध-पुष्पाभ्यां वा केवलपुष्पेण केवलजलेन वा पूज-येत् ततोऽग्निब्रह्मसरस्वतीलक्ष्मीणां पूजनम् ।इत्याह्निकप्रयोगतत्त्वम् ॥
* ॥
तन्त्रोक्तसामान्य-पूजा कलावतीशब्दे द्रष्टव्या ॥
वाचस्पत्यम्
Sanskritपूजा स्त्री पूज--भावे अ । अर्चने । ल्युट् । पूजनमप्यत्र ।उपचारशब्दे तङ्गभेदा उक्ताःदेवीपूजायां मुखभेदनिरूपणं यथा“दिग्विभागे तु कौवेरी दिक् शिवापीतिकारिणी ।तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा” पूजास्था-नानि यथा “लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च ।स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च । चित्रेच त्रिशिखे खड्गे जलस्थां वापि पूजयेत् । पञ्चाश-दङ्गुलं खड्गं त्रिशिखञ्चं त्रिशूलकम् । शिलायांपर्वतस्याग्रे गङ्गायामपि तत्समम् । आर्य्यावर्त्ते मध्य-देशे तथा पर्वतगह्वरे । देवीं संपूयेन्नित्यं भक्त्विश्रद्धासमन्वितः । वराणास्यां सदा पूजा सम्पूर्णफलदायिनी ।ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ । ततोऽपिद्विगुणा प्रोक्ता द्वारवत्यां विशेषता । सर्वक्षेत्रेषु तीर्थेषपूजा द्वारवतीसमा । बिन्ध्ये शतगुणा प्रोक्ता गङ्गाया-मपि तत्समा । आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैवच । बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा । तत-श्चतुर्गुणं प्रोक्तं करतोयानदीजले । तस्माच्चतुर्गुणफला-नन्दिकुण्डे च भैरव! । ततश्चतुर्गुणा प्रोक्ता जल्पी-शेश्वरसन्निधौ । तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणास्मृता । ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि । तत्-समा कामरूपे तु सर्वत्रैव जले स्थले । सर्वश्रेष्ठो यथाविष्णुर्लक्ष्मी सर्वोत्तमा यथा । देवीपूजा तथा शस्ताकामरूपे स्मरालये । देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्नतत्समम् । अन्यत्र विरला देवी कामरूपे गृहे गृहे ।ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके । ततोऽपिद्विगुणं प्रोक्तं हीरके शिवलिङ्गके । ततोऽपि द्विगुणाप्रोक्ता शैलपुत्रादियोनिषु । ततः शतगुणा प्रोक्ता का-माख्या योनिमण्डले” कालिकापु० ५४५७ अ० ।पूजासनानि तत्फलानि च यथा “उपविश्यासने रम्येकृष्णाजिनकुशोत्तरे । राङ्कवे कम्बले वापि काशादौव्याघ्रचर्मणि । न कुर्य्यादर्च्चनं विष्णोः शिवे! काष्ठा-सनादिषु । काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः ।भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता । कुशासनेज्ञानवृद्धिः कम्बले सिद्धिरुतमा । कृष्णाजिने धनी पुत्रीमोक्षः स्याद्व्याघ्रचर्मणि । मन्त्रयोगं प्रकुर्वीत भोगार्थंसुखमासने” इति पाद्मोत्तरखण्डे ७४ अ० । पूजाधि-कारिताप्रयोजकदेवषट्कपूजाऽऽदौ कार्य्या “गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । संपूज्य देवषट्कञ्चसोऽधिकारी च पूजने । गणेशं विघ्ननाशाय निष्पापायदिवाकरम् । वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः ।शिवं ज्ञानाय ज्ञानेशं शिवाञ्च वुद्धिवृद्धये । संपूज्य तान्लभेत् प्राज्ञो विपरीतमतोन्यथा” इति ब्रह्मवै० प्रकृति-खण्डे ८ अ० । सामान्यतस्तन्त्रोक्तपूजाप्रकारस्तुं“आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम् । अङ्गुलि-व्यापकन्यासौ हृदादिन्यास एव च । ध्यानं पूजा जप-श्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रसारः ।
Burnouf
FrenchStchoupak
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.