| YouTube Channel

भावना (bhAvanA)

 
Spoken Sanskrit English
भावना bhAvanA
f.
concept [ computer ]
कल्पना kalpanA
f.
concept [ computer ]
विचार vicAra
m.
concept [ computer ]
सङ्गृहीतविधिकल्पना saGgRhItavidhikalpanA
f.
stored program concept [ computer ]
सम्भृतविधिकल्पना sambhRtavidhikalpanA
f.
stored program concept [ computer ]
पाण्डुलेख pANDulekha
m.
concept
पद pada
n.
concept
तर्कित tarkita
n.
concept
कल्पित kalpita
adj.
conceptual
ख्याति khyAti
f.
conception
सञ्ज्ञा saJjJA
f.
conception
अवधारणा avadhAraNA
f.
conception
गर्भावक्रान्ति garbhAvakrAnti
f.
conception
मनीषा manISA
f.
conception
मान mAna
m.
conception
गर्भ garbha
m.
conception
परिग्रह parigraha
m.
conception
अभिमान abhimAna
m.
conception
अभिसंस्कार abhisaMskAra
m.
conception
गर्भग्रह garbhagraha
m.
conception
भावना bhAvanA
f.
steeping
वासन vAsana
n.
steeping
नीलपाचन nIlapAcana
n.
steeping or maceration of indigo
भावना bhAvanA
f.
concept [ computer ]
कल्पना kalpanA
f.
concept [ computer ]
प्रतियोगिता pratiyogitA
f.
contest
विचार vicAra
m.
concept [ computer ]
व्यवहार vyavahAra
m.
conduct
सम्मति sammati
m.
consent
सम्पर्क samparka
m.
contact
संस्पर्श saMsparza
m.
contact
स्पर्श sparza
m.
contact
विषय viSaya
m.
content
सन्दर्भ sandarbha
m.
context
प्रसङ्ग prasaGga
m.
context
निशेध nizedha
m.
control
आचरण AcaraNa
n.
conduct
निर्वहण nirvahaNa
n.
conduct
चरित्र caritra
n.
conduct
प्रकीलक prakIlaka
n.
console [ computer ]
द्वन्द्व dvandva
n.
contest [ between two entities ]
नियन्त्रण niyantraNa
n.
control
निशेदन nizedana
n.
control
भावना bhAvanA
f.
steeping
वासन vAsana
n.
steeping
नीलपाचन nIlapAcana
n.
steeping or maceration of indigo
Monier Williams Cologne English
भावना a (आ),
f.
demonstration, argument, ascertainment,
Yājñ.
feeling of devotion, faith in (loc. ),
Pañcat.
reflection, contemplation (5 kinds with Buddhists,
MWB.
128)
saturating any powder with fluid, steeping, infusion,
ŚārṅgS.
(in
arithm.
) finding by combination or composition
(with Jainas) right conception or notion
the moral of a fable,
HPariś.
N.
of an Upaniṣad
a crow,
L.
water,
L.
भावना b
f.
of prec. , in comp.
Hindi Hindi
(स्त्री) भावनाओं भावनाओं को,
Apte Hindi Hindi
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"पैदा करना, प्रकट करना"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
किसी के हितों को अनुप्राणित करना
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"संप्रत्यय, कल्पना, उत्प्रेक्षा, विचार, धारणा"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"भक्ति, भावना, निष्ठा"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"मनन, अनुध्यान, भावात्मक चिंतन"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"कल्पना, प्राक्-कल्पना"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"निरीक्षण, गवेषणा"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"निश्चय, निर्धारण"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"याद करना, प्रत्यास्मरण "
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"प्रत्यक्षज्ञान, संज्ञान"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
प्रत्यक्षज्ञान से उत्पन स्मृति का कारण
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"प्रमाण प्रदर्शन, युक्ति"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"सिक्त करना, सराबोर करना, किसी सूखे चूर्ण को रस से भिगोना"
भावना
स्त्री*
- भू+णिच्+ल्युट्+टाप्
"सुवासित करना, फूलों और सुगन्धित द्रव्यों से सजाना"
Shabdartha Kaustubha Kannada
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪರಶಿವ/ಪರಮೇಶ್ವರ
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಧ್ಯಾನ/ಚಿಂತನೆ
निष्पत्तिः - > भू (सत्तयाम्)+णिच् "युच्" (३-३-१०७)
प्रयोगाः - > "नास्ति वृद्धियुक्तस्य चायुक्तस्य भावना"
उल्लेखाः - > गीता २-६६
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶ್ರದ್ಧೆ/ನಂಬಿಕೆ/ವಿಶ್ವಾಸ
प्रयोगाः - > "मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ। यादृशी भावना यस्य सिद्धिर्भवति तादृशी"
उल्लेखाः - > पञ्चतं० ५-९९
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮನಸ್ಸಿನಲ್ಲಿ ಉಂಟಾಗುವ ಕಲ್ಪನೆ/ಕಲ್ಪನೆಯ ಬಿಂಬ
प्रयोगाः - > "मुहुरवलोकितमण्डनलीला मधुरिपुरहमिति भावनशीला"
उल्लेखाः - > गीतगो० ६-४
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಲೇಪನ/ಬಳಿಯುವುದು/ಪೂಸುವುದು
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಾಸನೆ ಕಟ್ಟುವುದು
विस्तारः - > "भावना लेपने ध्याने" विश्व०
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜನ್ಮಾಂತರದ ವಾಸನೆ/ಅನುಭೂತವಸ್ತುವಿನ ಸ್ಮೃತಿಗೆ ಕಾರಣವಾದ ಸಂಸ್ಕಾರ
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರಯತ್ನ
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಧಾತುವಾಚ್ಯವಾದ ವ್ಯಾಪಾರ
विस्तारः - > "व्यापारो भावना सैव सैवोत्पादना सैव क्रिया"
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > (ವೈದ್ಯಶಾಸ್ತ್ರದಲ್ಲಿ) ಔಷಧವನ್ನು ತಯಾರಿಸಲು ಮಾಡುವ ಒಂದು ಸಂಸ್ಕಾರ/ದ್ರವವಸ್ತುವಿನಲ್ಲಿ ಚೂರ್ಣವನ್ನು ಬೆರೆಸಿ ಔಷಧಕ್ಕೆ ಮಾಡುವ ಸಂಸ್ಕಾರ
भावना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪರ್ಯಾಲೋಚನೆ
L R Vaidya English
BAvanA {% f. %} The same as भावन (III) q.v. [(3) भावनया त्वयि लीना Git.G.iv.
(5) भावनामात्रजन्यं ज्ञानं स्मृतिः T.S.
(8) विभागभावना ज्ञेया Yaj.ii.149.]
Bopp Latin
भावना f. (a Caus. r. भू s. अन in fem.) cogitatio, medita-
tio. BH. 2. 66.
Edgerton Buddhist Hybrid English
(bhāvanā, substantially as in Skt., in Mv 〔i.66.12〕 (vs) tasya eṣa khalu ṛddhi-bhāvanā, this is his (Kāśyapaʼs) accomplishment of magic, or perhaps this is the effect of his magic, viz. that the Buddhaʼs body does not burn.)
Indian Epigraphical Glossary English
bhāvanā (CII 4), sentiment, e. g., maitrī, etc.
(EI 3), Jain
a method of kāy-otsarga.
Abhyankara Grammar English
भावना effort, activity.
Wordnet Sanskrit
Synonyms:
चिन्तनम्, चिन्ता, विचारणम्, विचारणा, विचारः, ध्यानम्, अभिध्यानम्, आध्यानम्, भावना, मननम्, मनोव्यापारः, अन्तःकरणव्यापारः, चित्तव्यापारः, चित्तचेष्टा, मनचेष्टा, अन्तःकरणचेष्टा
noun
विचारणस्य क्रिया।
"चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।"
Synonyms:
कल्पना, सङ्कल्पः, भावना, विभावना
noun
मनसा कल्पितः।
"मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।"
Sanskrit Tibetan Tibetan
goms pa
१) अभ्यस्त २) अभ्यास ३) आधान ४) प्रहत ५) भावना
sgom par byed pa
भावना २) भावयन्ति
bsgom pa
१) ध्याय्यिन् २) भाव ३) भावना
bsgom par bya ba
१) भावना २) भाव्यमान
bsgoms pa
१) भावना २) भावयति ३) भावित ४) भाव्यमान
अभिधानचिन्तामणिः Sanskrit
--source--
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः १३७३
-wordlist-
वासना (स्त्री), भावना (स्त्री), संस्कार (पुं)
शब्दकल्पद्रुमः Sanskrit
भावना,
स्त्री,
क्ली,
(भू + णिच् + युच् ।) ध्यानम् ।(यथा, गीतायाम् ६६ ।“नास्ति बुद्धिरयुक्तस्य चायुक्तस्य भावना ।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्
”)पर्य्यालोचनम् अधिवासनम् इति मेदिनी ।ने, १०१
त्रिविधा भावना यथा, --“त्रिविधा भावना विप्र ! विश्वमेतन्निबोध मे ।ब्रह्माख्या कर्म्मसंज्ञा तथा चैवोभयात्मिका
ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिकापरा ।उभयात्मिका तथैवान्या त्रिविधा भावभावना
सनन्दनादयो ब्रह्मभावभावनया युताः ।कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः
हिरण्यगर्भादिषु ब्रह्मकर्म्मात्मिका द्विधा ।बोधाधिकारयुक्तेषु विद्यते भावभावना
”इति विष्णुपुराणे अंशे अध्यायः
त्रिविधभावनाश्रयजीवात्मकत्वात्तदुपचारेणत्रिविधा भावनेत्युच्यते एतद्धि हरेः स्थूलंरूपम् अतः पररूपप्राप्त्युपायत्वात् तत्रप्रथमं मनः मन्धार्य्यमिति भावः भावना नामज्ञानविशेषजा वासना तां त्रिविधामपिसंज्ञामादिशति ब्रह्माख्येति तामेव विषय-त्रैविध्येन विविनक्ति ब्रह्मभावनात्मिकेति भाव-भावना भावो वस्तु तद्बिषया भावना त्रिविधा ।तत्र वयं ब्रह्मैव भावयामः वयं कर्म्मैव कुर्म्मः ।वयन्तूभयमिदमनुसन्दध्म इत्येवं त्रिविधाभावना भावनायुक्तान् जीवानुदाहरति सन-न्दनादय इति द्वाभ्याम् इति तट्टीका
कृदन्तरूपमाला Sanskrit
1 {@“अस भुवि”@} 2 ‘असतेऽसति गत्यादौ’ भुव्यस्ति, क्षेपणेऽस्यति’ 3 इति देवः।
4 भावकः-विका, भावकः-विका, 5 बुभूषकः-षिका, 6 बिभावयिषकः-षिका, 7 बोभूयकः-यिका
भविता, भावयिता, बुभूषिता, बिभावयिषिता-बोभूयिता-त्री
8 सन्-सती, भावयन्, बुभूषन्, बिभावयिषन्-न्ती
भविष्यन्, भावयिष्यन्, बुभूषिष्यन्, बिभावयिषिष्यन्-न्ती-ती
9 व्यतिषाणः, भावयमानः, भावयिष्यमाणः, बोभूयमानः, बोभूयिष्यमाणः
भूः-भुवौ-भुवः
-- -- -- 10 भूतः-तम्-तवान्, भावितः, बुभूषितः, बिभावयिषितः-बोभूयितः-तवान्
भवः, भावः, बुभूषुः, बिभावयिषुः, बोभूयः
भवितव्यम्, भावयितव्यम्, बुभूषितव्यम्, बिभावयिषितव्यम्, बोभूयितव्यम्
भवनीयम्, 11 प्रभबनीयम्, प्र 12 भावनीयम्, बुभूषणीयम्, बिभावयिषणीयम्, बोभूयनीयम्
13 भव्यम्, अवश्य 14 भाव्यम्, भाव्यम्, बुभूष्यम्, बिभावयिष्यम्, बोभूय्यम्
ईषद्भवम्, दुर्भवम्, सुभवम्
-- -- भूयमानः, भाव्यमानः, बुभूष्यमाणः, बिभावयिष्यमाणः, बोभूय्यमानः
15 16 भवः भावः 17 भावः, बुभूषः
बिभावयिषः, बोभूयः
भवितुम्, भावयितुम्, बुभूषितुम्, बिभावयिषितुम्, बोभूयितुम्
भूतिः, भावना, बुभूषा, बिभावयिषा, बोभूया
भवनम्, भावनम्, बुभूषणम्, बिभावयिषणम्, बोभूयनम्
भूत्वा, भावयित्वा, बुभूषित्वा, बिभावयिषित्वा, बोभूयित्वा
अनुभूय, अनुभाव्य, अनुबुभूष्य, अनुभावयिष्य, अनुबोभूय्य
भावम् २, भूत्वा २, भावम् २, भावयित्वा २, बुभूषम् २, बुभूषित्वा २, बिभावयिषम्
बिभावयिषित्वा
बोभूयम्
बोभूयित्वा २।
प्रासङ्गिक्यः
01
=>
(५२)
02
=>
(२-अदादिः-१०६५-अक। सेट्। पर।)
03
=>
(१८४)
04
=>
[[१। ‘अस्तेर्भूः’ (२-४-५२) इति आर्ध- धातुकविषये ‘भू’ आदेशः।]]
05
=>
[[१। आ। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इति इण्णिषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्।]]
06
=>
[[२। ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासोकारस्येत्त्वम्।]]
07
=>
[[२। आर्घधातुकविवक्षायां भूभावः। अतश्च हलादित्वात् यङ्प्रत्यय उत्प- द्यते--यथा अजधातौ। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः।]]
08
=>
[[३। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारस्य लोपः। शतुः सार्वधा- तुकत्वात् भूभावो न।]]
09
=>
[[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्’। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारलोपः। ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ (८-३-८७) इति षत्वम्।]]
10
=>
[[४। ‘श्र्युकः किति’ (७-२-११) इतीण्- णिषेधः।]]
11
=>
[[५। ‘न भाभू--’ (८-४-३४) इति णत्वं न।]]
12
=>
[[६। ‘ण्यन्तभादीनां--’ (वा ८-४-३४) इति णत्वं न।]]
13
=>
[[६। ‘अचो यत्’ (३-१-९७) इति यत्।]]
14
=>
[[७। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
15
=>
[पृष्ठम्००५१+ ३०]
16
=>
[[१। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
17
=>
[[२। ‘एरच्’ (३-३-५६) इत्यच्।]]
1 {@“भुवोऽवकल्कने”@} 2 “अवकल्कनम् = मिश्रीकरणम्।
भावयति दध्नौदनम्।
अनित्यण्यन्तत्वार्था पञ्चमी।
‘विकल्कने’ इति नन्दी।
‘भावयेद् ब्राह्मणं तपः।’ --” इति क्षीरस्वामी।
“अवकल्कनं = चिन्तनम्।
इति काश्यपः।
क्वचित् स्वामिग्रन्थेऽनुकल्कनम्-इति पठित्वा, ‘अनुकल्कनम् = मिश्रीकरणम्।’ इति द्वश्यते।
…विकल्कनम् = विपाचनम् 3 उदाहृतम्।
तस्यान्न- विशेष्यकत्वेन विपक्वीकरणार्थे वृत्तिरस्य धातोः इति काशिकासम्मतमिति ज्ञेयम्।]] विपक्वी- करणम्।) तथा प्रयुज्यते-- ‘तपो भावितमात्मानम्--’ इति।
‘-- अवकल्पने’ इत्यपरे।
तथा धनपालः…” इति मा।
धा।
वृत्तिः।
‘मूलशुद्धिस्त्वत्र कीदृशी? इति विद्मः।’ इति पुरुषकारः।
‘सत्तायां भवति, प्राप्तौ णिचि भावयते तङि।
भवते शपि, तत्रैव भावयत्यवकल्कने।।’ 4 इति देवः।
भावकः-विका, 5 बिभावयिषकः-षिका, भावयिता-त्री, बिभावयिषिता-त्री
6 भावयन्-न्ती, बिभावयिषन्-न्ती
भावयिष्यन्-न्ती-ती, बिभावयिषिष्यन्-न्ती-ती
7 भावयमानः, बिभावयिषमाणः
भावयिष्यमाणः, बिभावयिषिष्यमाणः, बिभावयिट्-यिषौ-यिषः
8 भावितम्-तः, बिभावयिषितः-तवान्
भावः, 9 भावुकः, 10 भावनः, बिभावयिषुः
भावयितव्यम्, बिभावयिषितव्यम्
भावनीयम्, बिभावयिषणीयम्
भाव्यम्, बिभावयिष्यम्
ईषद्भावः- दुर्भावः-सुभावः
ईषद्बिभावयिषः-दुर्बिभावयिषः-सुबिभावयिषः
भाव्यमानः, बिभावयिष्यमाणः
भावः, बिभावयिषः
भावयितुम्, बिभावयिषितुम्
भावना, बिभावयिषा
भावनम्, बिभावयिषणम्
भावयित्वा, बिभावयिषित्वा
प्रभाव्य, प्रबिभावयिष्य
भावम् २, भावयित्वा २, बिभावयिषम्
बिभावयिषित्वा २। इति रूपाण्यस्य भवन्ति।
प्रासङ्गिक्यः
01
=>
(११६४)
02
=>
(१०-चुरादिः-१७४८। सक। सेट्। उभ।)
03
=>
(= [[३। ‘प्रभावुकमन्नं भवति।’ इति काशिकायाम् (३-२-१५४)
04
=>
(श्लो। ३)
05
=>
[[४। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासे इकारः। एवमुत्तरत्रापि ज्ञेयम्।]]
06
=>
[[५। ‘भू अवकल्कने’ इति पठितव्ये सति, ‘भुवोऽवकल्कने’ इति पाठः ‘अनित्य- ण्यन्तत्वार्थं पञ्चमी।’ इति ज्ञापयतीत्याहुः। तेन णिजभावपक्षे, धातोश्चिन्तनार्थकत्वे- अकर्मकत्वेन, चिन्तनस्य चित्तवत्कर्तृकत्वेन ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव। मिश्रीकरणाद्यर्थान्तरे तु यथासम्भवमात्म- नेपदमपि धातोरस्य भवतीत्यपि बोध्यम्।]]
07
=>
[पृष्ठम्०९६१+ २८]
08
=>
[[आ। ‘रोषान्ध्यभावितमसृग्भिरकल्पयत् तं कृष्णोऽपि नाकिजनराकितलाग्यवीर्यः।।’ धा। का। ३। ४१।]]
09
=>
[[१। तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु ‘लषपतपदस्थाभूवृष--’ (३-२-१५४) इत्यनेन उकञ्प्रत्ययः। ‘णेरनिटि’ (६-४-५१) इति णिलोपः। ‘न वाचमवमन्यन्ते नर्तकीमिव भावुकाः।।’ (या। अ। १-७) इत्यत्र, “भावुकाः = भावनाकृतो भगवद्भक्ताः। ‘भुवोऽवकल्कने’ इति भवतेर्णिजन्तात् ‘लषपत--’ (३-२-१५४) इत्यादिना उकञ्प्रत्ययः। ‘अवकल्कनम् = चिन्तनम्।’ इति व्याख्यातम्।” इति अप्पय्यदी- क्षितोक्तेः धातोरस्यैवोकञ्विधायके सूत्रे ग्रहणमित्यपि ज्ञायते।]]
10
=>
[[२। ण्यन्तादस्मात् नन्द्यादेराकृतिगणत्वात् कर्तरि ल्युः। भावनः = चिन्तकः। (अत्र भावितम् इति मिश्रीकरणार्थे धातोर्वृत्तिरिति ज्ञेयम्)]]
1 {@“भू सत्तायाम्”@} 2 ‘सत्तायां भवति, प्राप्तौ णिचि भावयते तङि।
भवते शपि तत्रैव, भावयत्यवकल्कने।।’ 3 इति देवः।
भावकः-भाविका, भावकः-विका, 4 बुभूषकः-षिका, बोभूयकः-यिका
भविता-त्री, भावयिता-त्री, बुभूषिता-त्री, बोभूयिता-त्री
परिभवन्-न्ती, 5 सुखमनुभवन् वर्धस्व, शुश्रूषुर्भवन् विद्यामधिकरोति, 6 शयनमनुभवन् भुङ्क्ते, मा 7 भवन्, भावयन्-न्ती, बुभूषन्-न्ती
-- 8 व्यतिभवमानः, भावयमानः, 9 व्यतिबुभूषमाणः, बोभूयमानः
व्यतिभविष्यमाणः, भावयिष्यमाणः, व्यतिबुभूषिष्यमाणः, बोभूयिष्यमाणः
10 गान्दिनीभूः- 11 गान्दिनीभुवौ-गान्दिनीभुवः
-- -- 12 भूतम्, भूतवान्, भावितः, बुभूषितः, बोभूयितः-तवान्
13 भवः, भावः, 14 भव्यः 15, 16 अभिभावी, 17 परिभावी 18 परिभवी, 19 अभावी, 20 21 भावी, 22 अभिभावकः-अभिभविता, 23 भविता, 24 आढ्यम्भविष्णुः 25 - सुभगम्भविष्णुः-स्थूलम्भविष्णुः-पलितम्भविष्णुः-नग्नम्भविष्णुः-अन्धम्भविष्णुः- प्रियम्भविष्णुः, आढ्यम्भावुकः- 26 सुभगम्भावुकः-स्थूलम्भावुकः-पलितम्भावुकः- नग्नम्भावुकः-अन्धम्भावुकः-प्रियम्भावुकः, 27 मषीभावुकः, 28 भविष्णुः, 29 भूष्णुः, 30 भावुकः, 31 परिभवी, 32 33 विभूः, 34 स्वयम्भूः-अग्निभूः-कच्छभूः-मित्रभूः- पवनभूः, 35 विभुः-प्रभुः-संभुः, 36तद्रु--आदिभ्य उपसंख्यानम्--’ 37 इति डुप्रत्ययः।
शं भावयतीति शम्भुः।
अन्तर्भावितण्यर्थोऽत्र भवतिरिति ज्ञेयम्।]] शम्भुः, 38 भवकः, 39 धेनुम्भव्या, 40 बभूवान्, 41 भवभूतिः-भूतः, भावः, 42 भावनः, 43 बुभूषुः- 44 बिभावयिषुः, बोभुवः
भवितव्यम्, भावयितव्यम्, बुभूषितव्यम्, बोभूयितव्यम्
45 प्रभवनीयम्, 46 प्रभावनीयम्, बुभूषणीयम्, बोभूयनीयम्
47 भव्यम्, 48 अवश्यभाव्यम्, 49 ब्रह्मभूयं 50 मित्रभूयं वा गतः, भाव्यः, भाव्यम्, बुभूष्यम्, बोभूय्यम्
ईषद्भवः-दुर्भवः-सुभवः, 51 ईषदाढ्यम्भवं-दुराढ्यंभवं-स्वाढ्यम्भवम्, 52 सुरा- जम्भवः, वा भवता
-- -- -- भूयमानः-अनुभूयमानम्, भाव्यमानः, बुभूष्यमाणः, बोभूय्यमानः
53 भवः, 54 भावः, प्रभवः, 55 परिभावः 56 -परीभावः-परिभवः, भावः, बुभूषः-बोभूयः
57 भवितुम्, भावयितुम्, बुभूषितुम्, बोभूयितुम्
58 भूतिः, 59 भूः, वर्षाभूः, दृन्भूः-करभूः-कारभूः-पुनर्भूः, भावना, बभूषा-बिभावयिषा, बोभूया
भवनम्, 60 भुवनम्, आशितभवनम्, आशितभवनः, 61 आशितम्भवः 62 63, भावनम्, बुभूषणम्, बोभूयनम्
भूत्वा, 64 अग्रे भूत्वा-प्रथमं भूत्वा-पूर्वं भूत्वा, 65 मुखतो भूत्वा-मुखतोभूय वा तिष्ठति।
66 नाना भूत्वा-नानाभूय वा गतः।
विना भूत्वा-विनाभूय वा गतः।
द्विधा भूत्वा-द्वैधंभूय-वा गतः।
67 तूष्णींभूत्वा, तूष्णींभूय 68 वा गतः।
69 70 अन्वग् भूत्वा-अन्वग्भूय वा गतः।
अनुभूय, अनुभाव्य, अनुबुभूष्य, अनुबोभूय्य
अग्रेभावम्-प्रथमंभावम्-पूर्वम्भावम्, मुखतोभावम् वा गतः।
नानाभावं-विना- भावम् वा गतः।
द्वैधंभावं-द्विधाभावं वा गतः।
तूष्णीं भावम् अन्वग्भावं वा गतः।
भावम् भूत्वा भावम् भावयित्वा बुभूषम् बुभूषित्वा बोभूयम्
बोभूयित्वा
71 भूमिः, 72 भूरिः, 73 अद्भुतम्, 74 भावित्रम्।
प्रासङ्गिक्यः
01
=>
(११६५)
02
=>
(१-भ्वादिः-१। अक। सेट्। पर।)
03
=>
(श्लो। ३)
04
=>
[[३। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्निषेधः। अभ्यासे ह्रस्वः। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[४। सुखमनुभवन्, शुश्रूषुर्भवन् इत्यत्र क्रमेण लक्षणार्थे हेत्वर्थे च, ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शता।]]
06
=>
[पृष्ठम्०९६२+ २८]
07
=>
[[१। ‘माङ्याक्रोशे’ (वा ३-२-१२४) इति शता। यद्यपि लुङोऽपि माङ्येव विधानम्
\n\n तथापि वार्तिककारवचनप्रामाण्यात् लटः शत्राऽत्र लुङः समावेश इति ज्ञेयम्।]]
08
=>
[[२। ‘कर्तरि कर्मव्यतीहारे, (१-३-१४) इति कर्मव्यतिहारे शानच्।]]
09
=>
[[३। ‘पूर्ववत्सनः’ (१-३-६२) इति सन्नन्तात् कर्मव्यतीहारे गम्ये शानच्।]]
10
=>
[[४। गान्दिन्याः भवति = उत्पद्यते इति गान्दिनीभूः। ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्।]]
11
=>
[[आ। ‘स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्।’ धा। का। १-२।]]
12
=>
[[५। ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधोऽत्र। एवमेव क्त्वा-क्तिनोरपि इण्निषेधो ज्ञेयः।]]
13
=>
[[६। ‘अज्विधिः सर्वधातुभ्यः--’ (का। ३-१-१३४) इति वचनादस्माद्धातोः पचाद्यचि, गुणावादेशयो रूपमेवम्। स्त्रियाम् ‘इन्द्रवरुणभव-’ (४-१-४९) इत्यादिना ङीषानुगौ। ‘भवतेश्चेति वक्तव्यम्’ (का। ३-१-१४३) इति वाक्यं काशिकायां कर्तरि विकल्पेन णप्रत्ययविधानप्रकरणे दृश्यते। तेन पक्षे कर्तरि भावः इत्यपि ज्ञेयम्। परं तु वाक्यमिदं भाष्ये दृश्यते।]]
14
=>
[[७। ‘भव्यगेयप्रवचनीय--’ (३-४-६८) इत्यादिना कर्तरि यत्प्रत्ययान्तो निपातितः। भवत्यसौ, भव्यमनेनेति वा भव्यः।]]
15
=>
(देवदत्तः)
16
=>
[[८। ‘अभिभावी भूते’ (ग। सू। ३-१-१३४) इति वचनात् भूतार्थे ग्रह्यादित्वाण्णिनि- प्रत्ययः।]]
17
=>
[[९। ग्रह्यादिष्वेव (३-१-१३४) ‘परिभवी-परिभावी’ इति निपातनात् णिनिप्रत्यये, तस्य पाक्षिके वृद्ध्यभावे रूपे एते सिद्ध्यतः।]]
18
=>
[[B। ‘परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्।’ भ। का। ६-७५। अत्र नपुंसकलिङ्गे नुमि, ‘प्रातिपदिकान्तनुम्--’ (८-४-११) इति णत्वम्।]]
19
=>
[[१०। ‘अचामचित्तकर्तृकाणाम्’ (ग। सू। ३-१-१३४) इत्यत्र पूर्वस्मात् गणसूत्रात् ‘-- प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इत्यनुवर्तते। तेनात्र णिनिप्रत्यये रूपमेवम्। प्रकृतगणसूत्रस्यायमर्थः--अचेतनकर्तृकाणाम् अजन्तानां धातूनां नञ्युक्तानां (नञुपपदकानाम्) णिनिर्भवति--इति। तेनात्र ग्रह्यादित्वात् णिनिः।]]
20
=>
[पृष्ठम्०९६३+ २८]
21
=>
[[१। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गणे भावी इति पाठात् भविष्यत्यर्थे णिनिप्रत्ययः।]]
22
=>
[[२। वाऽसरूपन्यायेन ‘ण्वुल्तृचौ’ (३-१-१३३) इति यथाक्रमं ण्वुलि, तृचि रूप- मेवमिति ज्ञेयम्।]]
23
=>
[[३। तच्छीलादिषु कर्तृषु ‘तृन्’ (३-२-१३५) इति तृन्प्रत्यये रूपमेवम्।]]
24
=>
[[४। आढ्यसुभगस्थूलपलितनग्नान्धप्रियपदेषूपपदेषु सत्सु च्वर्थेषु गम्येषु अच्व्यन्तेषु ‘कर्तरि भुवः खिष्णुच्खुकञौ’ (३-२-५७) इत्यनेन खिष्णुच् खुकञ् प्रत्ययः क्रमेणात्रेति ज्ञेयम्। प्रत्यययोः खित्त्वात्, ‘अरुर्द्विषदजन्तस्य मुम्’ (६-३-६७) इति मुमागमः।]]
25
=>
[[आ। ‘आढ्यम्भविष्णुर्यशसा कुमारः प्रियम्भविष्णुर्न यस्य नासीत्।।’ भ। का। ३। १।]]
26
=>
[[B। ‘हृदयङ्गममूर्तिस्त्वं सुभगम्भावुकं वनम्।’ भ। का। ५। ६७।]]
27
=>
[[C। ‘दलोदरे काञ्चनकैतकस्य क्षणन्मषीभावुकवर्णरेखम्।’ नैषधे। ६। ६३।]]
28
=>
[[५। ‘भुवश्च’ (३-२-१३८) इतीष्णुच्प्रत्ययस्तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु भवति। अत्र पूर्वंसूत्रात् ‘--छन्दसि’ (३-२-१३७) इत्यनुवृत्तेः छन्दस्येवायं प्रत्यय इति ज्ञेयम्। चान्द्रास्तु भाषायामप्यस्य प्रयोगमिच्छन्ति।]]
29
=>
[[६। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३९) इति सूत्रे चकारेण तत्पूर्वसूत्रगतभूधातोरप्यनु- षङ्गात् अत्र ग्स्नुप्रत्ययः। प्रत्ययस्य गित्त्वात् ‘क्ङिति च’ (१-१-५) इत्यत्र गकारस्यापि प्रश्लेषात् गुणो नेति ज्ञेयम्। एवं ‘श्र्युकः क्किति’ (७-२-११) इत्यत्रापि गकारप्रश्लेषणात् इण्निषेधोऽत्रेत्यपि ज्ञेयम्।]]
30
=>
[[७। ‘लषपतपदस्थाभू-’ (३-२-१५४) इत्यनेन ताच्छीलिके उकञ्प्रत्यये रूपमेवम्। ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीति भाष्यादिषु स्पष्टम्। तेन उत्सर्गेण समावेश एवेतरेषां प्रत्ययानामिति ज्ञेयम्।]]
31
=>
[[८। ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (३-२-१५७) इत्यनेन ताच्छीलिके इनिप्रत्यये रूपमेवम्। अत्र सूत्रे परिभू इत्युक्तेः अन्योपसर्गे उपपदे प्रत्ययोऽयं भवतीति ज्ञेयम्।]]
32
=>
[पृष्ठम्०९६४+ २८]
33
=>
[[१। ‘भुवः संज्ञाऽन्तरयोः’ (३-२-१७९) इति क्विप्प्रत्ययः। विभूः इति कस्यचित् संज्ञा। अत्र सूत्रे अन्तरशब्देन धनिकाधमर्णयोरन्तरालवर्ती उच्यते। प्रतिभूः = क्रयविक्रयादिषु ऋणादानप्रत्यर्पणादिषु मध्यवर्ती साक्षी।]]
34
=>
[[२। उपसर्गे, पदान्तरे उपपदे धातुसामान्यविहितः क्विप्प्रत्ययोऽत्रेति यथासम्भवमूह्यम्।]]
35
=>
[[३। ‘बिप्रसंभ्यो ड्वसंज्ञायाम्’ (३-२-१८०) इति भूधातोरस्य वि-प्र-सं-पूर्वकस्य डुप्रत्ययः। प्रत्ययस्य डित्त्वात् टेर्लोपः।]]
36
=>
[[४। ‘डुप्रकरणे--मि[त्र]
37
=>
(वा। ३-२-१८०)
38
=>
[[५। भवतात् इति भवकः। आशिषि गम्यमानायाम्, ‘आशिषि च’ (३-१-१५०) इति वुन्।]]
39
=>
[[६। ‘धेनोर्भव्यायां मुम्--’ (वा। ६-३-७०) इति मुमागमः। धेनुर्भविष्यतीत्यर्थः। बाहुलकादत्र भविष्यत्यर्थे भुवो यत्प्रत्ययः इति ज्ञेयम्।]]
40
=>
[[७। लिटः क्वसौ रूपमेवम्। ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इति सूत्रोपात्तनिदानस्यात्र लक्ष्येऽभावादिडागमो न। माधवधातुवृत्तौ तु क्वसोर्भाषायां प्रयोगाभावः साग्रहं साधितः। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये, ‘पपुष आगतं पपिवद्रूप्यम्--’ इति प्रयुक्तत्वात् भाषायामपि क्वसुप्रयोगो नाप्रामाणिक इति ज्ञेयम्।]]
41
=>
[[८। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पुंल्लिङ्गोऽयं शब्दः। एवं भूतः इत्यत्रापि संज्ञायां क्तप्रत्ययो ज्ञेयः।]]
42
=>
[[९। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् ण्यन्तात् कर्तरि ल्युप्रत्ययोऽत्रेति ज्ञेयम्।]]
43
=>
[[आ। ‘प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोधिरागाद्दशमं चिकर्तिषुः।’ शि। व। १। ४९।]]
44
=>
[[१०। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासे इकारः।]]
45
=>
[[११। ‘न भाभूपू--’ (८-४-३४) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य कृत्स्थस्य नकारस्य णत्वनिषेधः।]]
46
=>
[[१२। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति उपसर्गस्थान्निमित्तात् परस्य नकारस्य णत्वनिषेधः।]]
47
=>
[पृष्ठम्०९६५+ ३३]
48
=>
[[१। ‘ओरावश्यके’ (३-१-१२५) इत्यावश्यकार्थे ण्यत्। ‘लुम्पेदवश्यमः कृत्ये…’ (का। ६-१-१४४) इति अवश्यमो मकारस्य लोपः। आवश्यकार्थे ण्यदत्रेति प्रदर्श- नार्थमत्र ‘अवश्यम्’ इति पदमुपात्तम्
\n\n तु उपपदत्वेन
\n\n विनैवावश्यपदमपि प्रयोगः साधुरेव। तथा प्रयुक्तम्-- ‘विप्रेण शुचिना भाव्यम्--’ (प्र। कौमुद्यु- पात्तोऽयं श्लोकः) इति।]]
49
=>
[[२। ‘भुवो भावे’ (३-१-१०७) इति भावार्थे क्यप्। ब्रह्मभूयं गतः = ब्रह्मभावं गत इत्यर्थंः।]]
50
=>
[[आ। ‘मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि।।’ भ। का। ६। ५५।]]
51
=>
[[३। ईषदाद्युपपदेषु कर्तंरि कर्मणि चोपपदयोः सत्योः च्व्यर्थे गम्ये ‘कर्तृकर्मणोश्च भूकृञोः’ (३-३-१२७) इति खल्प्रत्ययः। उपपदद्वयविधानात् भाष्यकारप्रयोगाच्च कर्तृवाचकस्य चोपपदस्य धातोरव्यवहितपूर्वप्रयोग इति ज्ञेयम्। ‘अकर्मत्वाद् भुवो भावे कृञः कर्मार्थ एव तत्। च्व्यर्थयोगश्च वाच्योऽत्र भवतेषत्पटुम्भवम्।। अपटोस्ते पटुत्वेन भवनं लध्वितीर्यते। एवं स्वाढ्यम्भवं तेन, तया दुस्सुन्दरिम्भवम्।।’ इति प्र। सर्वस्व- श्लोकोऽत्रानुसन्धेयः।]]
52
=>
[[B। ‘सैन्यान्न यातः समयापि विव्यथे कथं सुराजम्भवमन्यथाऽथवा।।’ शि। व। १२-५२।]]
53
=>
[[४। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः।]]
54
=>
[[५। ‘नपुंसके भावे क्तः’ (३-३-११४), ‘भावे’ (३-३-१८), ‘--भाववचनात्’ (२-३-१५) ‘भाववचनाश्च’ (३-३-११) इत्यादिनिर्देशप्रामाण्यात् उवर्णान्तत्वेन प्राप्तो- ऽप्प्रत्ययः पाक्षिकः
\n\n तेन, ‘अबाधकान्यपि निपातनानि’ (परि। १२१) इति न्यायेन घञ्प्रत्ययोऽपि भवतीति केचित्। भाष्ये ‘बाधकान्येव हि निपातनानि भवन्ति’ (भाष्यम् १-१-२७) इत्युक्तत्वात् घञ्प्रत्यय एव भावार्थे न्याय्यः, तु ओरप्प्रत्यय इति परे वदन्ति। सर्वंथा रूपमेतदपि साध्विति ज्ञेयम्।]]
55
=>
[[६। ‘परौ भुवोऽवज्ञाने’ (३-३-५५) इति विकल्पेन घञ्प्रत्ययोऽत्रावज्ञाने गम्ये। पक्षे औत्सर्गिकोऽप्प्रत्यय इति ज्ञेयम्। परीभावः इत्यत्र ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घविकल्पः।]]
56
=>
[[C। ‘परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु।’ भ। का। ७-५४।]]
57
=>
[पृष्ठम्०९६६+ ३२]
58
=>
[[१। ‘स्त्रियां क्तिन्’ (३-३-९४) इति क्तिनि, इण्निषेधे रूपमेवम्। ‘मन्त्रे वृषेष- पचमनविदभूवीरा उदात्तः’ (३-३-९६) इत्यत्र भू इत्युपादानात् मन्त्र एव भूति- शब्दः प्रयोगार्ह इति मन्तव्यम्
\n\n प्रत्ययस्य नित्त्वेनाद्युदात्तत्वे प्राप्ते उदात्तत्वार्थं सूत्रमिति समाधिः। स्पष्टं चैतत् मा। धा। वृत्तौ।]]
59
=>
[[२। भवत्यस्यां सर्वंमिति भूः। बाहुलकेन सम्पदादित्वात् (३-३-९४) अधिकरणे स्त्रियां क्विप्।]]
60
=>
[[३। ल्युटि रूपमेवम्। बाहुलकाद् गुणाभावोऽत्रेति ज्ञेयम्। भट्टिकाव्यव्याख्याने (१-१) प्राचीनैर्व्याख्याकारैरेवमेव समर्थितम्।]]
61
=>
[[४। ‘आशिते भुवः करणभावयोः’ (३-२-४५) इति करणे भावे चार्थे आशित- शब्दे उपपदे खच्प्रत्ययः। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। आशितो भवत्यनेनेति आशितम्भवः = ओदनः। करणेऽत्र प्रत्ययः। आशितस्य भवनम्-आशितम्भवं वर्तते। भावेऽत्र प्रत्ययः।]]
62
=>
[[आ। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्।’ भ। का। ६-१०७।]]
63
=>
[ओदनः]
64
=>
[[५। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इत्यनेन क्त्वाप्रत्ययोऽत्र विकल्पेन भवतीति ज्ञेयम्। एवं णमुलप्युत्तरत्रानेनैव सूत्रेणेति ज्ञेयम्।]]
65
=>
[[६। तस्प्रत्यये स्वाङ्गवाचिन्युपपदे धातोरस्य, ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः’ (३-४-६१) इति क्त्वाप्रत्ययोऽत्रेति ज्ञेयम्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समास- विकल्पः। तेन समासेऽत्र ल्यबपीति ज्ञेयम्। णमुलप्यनेनैव भवतीत्यपि बोध्यम्।]]
66
=>
[[७। ‘नाधार्थप्रत्यये च्व्यर्थे’ (३-४-६२) इति क्त्वाणमुलौ भवतः। च्व्यर्थकत्वात् अनाना नाना भूत्वा = नानाभूत्वा गतः, इति वृत्तिरत्र ज्ञेया। तृतीया- प्रभृतित्वात् (२-२-२१) समासविकल्पः। धार्थप्रत्ययाः ‘संख्यायाः विधार्थे धा’ (५-३-४२), ‘द्विव्योश्च धमुञ्’ (५-३-४५) इति सूत्रविहिताः प्रत्ययाः।]]
67
=>
[[८। ‘तूष्णीमि भुवः’ (३-४-६३) इति क्त्वाणमुलौ भवतः। अत्रापि समास- विकल्पः। तेन ल्यबन्तप्रयोगोऽप्युपपन्नः।]]
68
=>
[[B। ‘तूष्णीम्भूय भयादासाञ्चक्रिरे मृगपक्षिणः।।’ भ। का। ५। ९५।]]
69
=>
[पृष्ठम्०९६७+ २९]
70
=>
[[१। ‘अन्वच्यानुलोम्ये’ (३-४-६४) इत्यनेनान्वक्छब्द उपपदे धातोरस्यानुलोम्ये द्योत्ये क्त्वाणमुलौ भवतः। तृतीयाप्रभृतित्वात् (२-२-२१) समासविकल्पः। आनु- लोम्यम् = अनुकूलता।]]
71
=>
[[२। ‘भुवः कित्’ (द। उ। १-१६) इति मिप्रत्ययः, कित्। तेन गुणो न। भवन्त्यस्यां भावा इति भूमिः।]]
72
=>
[[३। ‘अदिशदिभू--’ (द। उ। १। ३४) इति क्रिन्प्रत्ययः। भवतीति भूरिः = बहुः, सुवर्णं च।]]
73
=>
[[४। ‘अदि भुवो डुतच्’ (द। उ। ६-२२) इति डुतच्प्रत्ययः।]]
74
=>
[[५। ‘भूवादि--’ (द। उ। ८-९१) इत्यादिना णित्रन्प्रत्ययः। भावित्रम् = विधानम्।]]