| YouTube Channel

भ्राता (bhrAtA)

 
Hindi
Hindi
भाई
Wordnet
Sanskrit
Synonyms:
सहोदरः, भ्राता, सोदरः, सहजः, समानोदर्यः, सोदर्यः, सगर्भः
noun
एकमातृगर्भजातः पुमान्।
"लवकुशौ सहोदरौ स्तः।"
Synonyms:
भ्राता
noun
एकगर्भजाताः पुमांसः अपत्याः तथा धर्मेण वा संस्कृत्या वा भ्रातृत्वेन स्वीकृताः।
"ज्येष्ठो भ्राता पितृतुल्यो भवति।"
शब्दकल्पद्रुमः
Sanskrit
भ्राता, [ऋ]
पुं,
(भ्राजते इति भ्राज + “नप्तृ-नेष्टृत्वष्टृहोत्रिति उणा० ९६ इतितृन् निपात्यते ।) एकगर्भजातः “भाइ”इति भाषा तत्पर्य्यायः सहोदरः २समानोदर्य्यः सोदर्य्यः सगर्भः सहजः ६सोदरः इति हेमचन्द्रः
पितरि मृतेज्येष्ठभ्रातुः पितृतुल्यत्वम् यथा, --“ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनक ! ।सर्व्वेषां पिता हि स्यात् सर्व्वेषामनुपालकः
कनिष्ठस्तेषु सर्व्वेषु समत्वेनानुवर्त्तते ।समोपभोगजीवेषु यथैव तनयस्तथा
”इति गारुडे ११४ अध्यायः
तस्य भार्य्याहरणे तस्मै दायादाने दोषोयथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्याये ।“भ्रातृजायापहारी मातृगामी भवेन्नरः ।ब्रह्महत्यासहस्रञ्च लभते नात्रसंशयः
याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ ।तस्मादुर्त्तीर्य्य पापी विष्ठायां जायते कृमिः
वर्षकोटिसहस्राणि तत्र स्थित्वा पातकी ।ततो भवेन्महापापी वर्षकोटिसहस्रकम्
पुंश्चलीयोनिगर्भे कृमिश्चैव पुरन्दर ! ।गृघ्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः ।भ्रातृजायापहरणात् शतजन्मानि शूकरः
”“यो ददाति दायञ्च बलिष्ठो दुर्ब्बलाय ।स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ
भ्रातुरन्वेषणे भ्राता गच्छेत् यथा, --नारद उवाच ।“हे हर्य्यश्वा महावीर्य्याः प्रजा यूयं करिष्यथ ।ईदृशो लक्ष्यते यत्नो भवतां श्रूयतामिदम्
वालिशा वत यूयं ये नास्या जानीत वै भुवः ।अन्तरूर्द्धमधश्चैव कथं स्रक्ष्यथ वै प्रजाः
ऊर्द्ध्वं तिर्य्यगधश्चैव यदाप्रतिहता गतिः ।तदा कस्माद्भुवो नान्तं सर्व्वे द्रक्ष्यथ वालिशाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशम् ।अद्यापि निवर्त्तन्ते समुद्रेभ्य इवापगाः
हर्य्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।वैरिण्यामथ पुत्त्राणां सहस्रमसृजद्विभुः
विवर्द्धयिषवस्ते तु सवलाश्वाः प्रजाः पुनः ।पूर्व्वोक्तं वचनं ब्रह्मन्नारदेन प्रचोदिताः
अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महामुनिः ।भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः
ज्ञात्वा प्रमाणं पृथ्य्वास्तु प्रजाः स्रक्ष्यामहे पुनः ।तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम् ।अद्यापि निवर्त्तन्ते समुद्रेम्य इवापगाः
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ! ।प्रयातो नश्यति तथा तन्न कार्य्यं विजानता
”इति विष्णुपुराणे अंशे १६ अध्यायः
अपि च, मात्स्ये अध्याये ।“ततः प्रभृति भ्रातुः कनीयान् मार्गमिच्छति ।अन्विषन् दुःखमाप्नीति तेन तं परिवर्जयेत्
”ज्येष्ठभ्रात्त्रादेर्गुरुत्वं यथा, --“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ ।बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः
”इति कौर्म्मे उपविभागे ११ अध्यायः
विभक्तानां तेषां धर्म्मवृद्धिर्यथा, --व्यासः ।“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते
भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा ।स निर्भाज्यः स्वकादंशात् किञ्चिद्दत्त्वोप-जीवनम्
”ज्येष्ठभ्रातृप्रशंसा यथा, --“बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथापिता ।भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुलेस्थितिः
कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य्यं कुरुते तु यः ।स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनवाहनैः
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ! ।भवत्यानन्दकृद्देव ! द्बिषतां नात्र संशयः
*
भ्रातृसंस्कारस्यावश्यकत्वम् यथा, नारदः ।“येषान्तु कृताः पित्रा संस्कारविधयः क्रमात् ।कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात्
अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्व्वसंस्कृतैः
”विभक्तानां तेषां साक्षित्वादि यथा, --“साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव ।विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम्
”इति दायतत्त्वम्
कृदन्तरूपमाला
Sanskrit
1 {@“भज सेवायाम्”@} 2 ‘--विभागसेवयोः’ इति द्रुमे 3।
‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद् आमर्दे तु भनक्ति, भाजयति णौ भाजेः पृथक्कर्मणि।।
4 इति देवः।
5 भाजकः-जिका, भाजकः-जिका, 6 बिभक्षकः-क्षिका, 7 बाभजकः-जिका
8 भक्ता-भक्त्री, भाजयिता-त्री, बिभक्षिता-त्री
बाभजिता-त्री
भजन्-न्ती, भाजयन्-न्ती, बिभक्षन्-न्ती
-- भक्ष्यन्-न्ती, भाजयिष्यन्-न्ती-ती, बिभक्षिष्यन्-न्ती-ती
-- भजमानः, भाजयमानः, बिभक्षमाणः, बाभज्यमानः
भक्ष्यमाणः, भाजयिष्यमाणः, बिभक्षिष्यमाणः, बाभजिष्यमाणः
9 देहभाक् 10 -देहभाग्-देहभाजौ-देहभाजः
-- -- विभक्तम्-भक्तवान्, भाजितः, बिभक्षितः, बाभजितः-तवान्
भजः, 11 भागी, 12 भक्तम्-भक्तः, 13 राज्यभाक्-प्रभाक्, 14 भेजिवान् 15, 16 भ्राता, 17 18 धनभाजी, 19 विभक्तिः, 20 भजमानः, भाजः, बिभक्षुः, बाभजः
भक्तव्यम्, भाजयितव्यम्, बिभक्षितव्यम्, बाभजितव्यम्
भजनीयम्, भाजनीयम्, बिभक्षणीयम्, बाभजनीयम्
21 विभज्यम्, 22 विभाग्यम्, भाज्यम्, बिभक्ष्यम्, बाभज्यम्
ईषद्भजः-दुर्भजः-सुभजः
-- -- भज्यमानः, भाज्यमानः, बिभक्ष्यमाणः, बाभज्यमानः
भागः, 23 भगः, भाजः, बिभक्षः, बाभजः
भक्तुम्, भाजयितुम्, बिभक्षितुम्, बाभजितुम्
24 भक्तिः- 25 दृढभक्तिः, भाजना, बिभक्षा, बाभजा
26 भजनम्, भाजनम्, बिभक्षणम्, बाभजनम्
27 भक्त्वा
भाजयित्वा, बिभक्षित्वा, बाभजित्वा
विभज्य, विभाज्य, प्रबिभक्ष्य, प्रबाभज्य
भाजम् २, भक्त्वा २, भाजम् २, भाजयित्वा २, बिभक्षम् २, बिभक्षित्वा २, बाभजम्
बाभजित्वा २।
प्रासङ्गिक्यः
01
=>
(११३७)
02
=>
(१-भ्वादिः-९९८। सक। अनि। उभ)
03
=>
(श्लो। १२३)
04
=>
(श्लो। ६६)
05
=>
[पृष्ठम्०९३७+ ३१]
06
=>
[[१। सन्नन्ताण्ण्वुलि, धातोरनिट्त्वादिडागमाभावे, चर्त्वषत्वयोश्च रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07
=>
[[२। यङन्ते सर्वत्र, अभ्यासे दीर्घः, जश्त्वं चेति ज्ञेयम्।]]
08
=>
[[३। धातोरनिट्त्वात्, चर्त्वे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
09
=>
[[४। ‘भजो ण्विः’ (३-२-६२) इति कर्तरि ण्विप्रत्ययः। प्रत्ययस्य णित्त्वादुपधावृद्धिः। क्विबादिवदयं प्रत्ययः सर्वलीपी। कर्तरि क्विपोऽपवादोऽयम्।]]
10
=>
[[आ। ‘देहभाञ्जि ततः केशान् लुलुञ्च लुलुठे मुहुः।।’ भ। का। १४। ५९।]]
11
=>
[[५। तच्छीलादिषु कर्तृषु, ‘सम्पृवानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभज--’ (३-२-१४२) इत्यादिना घिनुण्प्रत्ययः। णित्त्वादुपधावृद्धिः। घित्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वमिति ज्ञेयम्।]]
12
=>
[[६। आशीरर्थे, ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। भक्तम् = अन्नम्। भजतादिति भक्तः = उपासकः।]]
13
=>
[[७। ‘भजो ण्विः’ (३-२-६२) इत्यत्र उपसर्गे सुपि उपपदे प्रत्ययविधानाश्रयणादत्र, प्रभाक् इत्यत्र कर्तरि ण्विप्रत्यय इति ज्ञेयम्।]]
14
=>
[[८। कर्तरि भूतसामान्ये लिटः क्वसौ, ‘तृफलभजत्रपश्च’ (६-४-१२२) इति एत्वाभ्यास- लोपयोः, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीडागमे रूपमेवम्।]]
15
=>
[[B। ‘आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता।’ श्रीगुणरत्नकोशे २३।]]
16
=>
[[९। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृन्प्रत्यये, ‘नप्तृनेष्टृ--’ (द। उ। २-३) इत्यत्र निपातनात् भ्रादेशे भ्राता इति सिद्ध्यतीति मा। धा। वृत्तावुक्तम्। द। उ। वृत्त्यादिषु भ्राजतेर्जकारलोपे रूपनिष्पादनं कृतम्। ‘श्वशुरः श्वश्र्वा’ (१-२-७१) इत्यत्र भाष्ये तु ‘यदि तावद् बिभर्तीति भ्राता--’ इत्युक्तत्वात् भृञ्धातोरेव भ्रातृशब्दनिष्पत्तिन्याय्येति प्रतिभाति।]]
17
=>
[पृष्ठम्०९३८+ २८]
18
=>
[[१। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।]]
19
=>
[[२। ‘क्तिच्क्तौ च--’ (३-३-१७४) इत्यनेन संज्ञायां क्तिचि रूपम्। विभक्तिः = प्रथमाद्या विभक्तिः। अत्र सूत्रे (३-३-१७४) आशिषि गम्यमान एव प्रत्यय इत्युक्तम- विवक्षितमिति केचित्।]]
20
=>
[[३। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इत्यनेन ताच्छील्ये गम्ये चानश्प्रत्ययः। शित्त्वाच्छबादिकं भवति।]]
21
=>
[[४। ‘द्विवचनविभज्योपपदे--’ (५-३-५७) इति सूत्रे विभज्य इति निर्देशात् हलन्तलक्षणण्यदपवादो यत्प्रत्ययोऽत्रेति ज्ञेयम्।]]
22
=>
[[५। ‘अबाधकान्यपि निपातनानि’ (परिभाषा-१२०) इति दर्शने ण्यत्प्रत्यये कुत्वे रूपमेवम्। विभाज्यम् इति कुत्वाभावरूपं तु सर्वथा अप्रामाणिकमेव। स्पष्टमिदं प्रकृतसूत्रे (५-३-५७) पदमञ्जर्याम्, उद्द्योते च।]]
23
=>
[[६। ‘खनो च’ (३-३-१२५) इत्यत्र चकाराद् धात्वन्तरेभ्योऽपि घप्रत्ययो भवतीत्यतो- ऽत्र घप्रत्यये, घित्त्वेन कुत्वे रूपमेवम्। ‘हृद्भग--’ (७-३-१९) इत्यत्र ‘भग--’ इति निर्देश एवात्र निदानम्।]]
24
=>
[[७। भजनम् = भक्तिः। भावे क्तिन्। दृढभक्तिरित्यत्र दृढा भक्तिरस्येति विग्रहे ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पूर्वपदस्य पुंवद्भावे रूपमेवम्। प्रियादिषु (६-३-३४) कर्मसाधनस्यैव भक्तिशब्दस्य पाठः, तु भावसाधनस्य। अतः पुंवद्भावः कथमत्रेति शङ्क्यम्।]]
25
=>
[[आ। ‘दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।’ रघुवंशे १२-१९।]]
26
=>
[[८। ल्युटि, अनादेशे रूपमेवम्। स्त्रियां टित्त्वेन ङीपि भजनी इत्येव भवति। भजना इति टाबन्तप्रयोगो लोके दृश्यते। तस्य शास्त्रं मृग्यमेव। ण्यन्तात् स्त्र्यधिकारीये युच्प्रत्ययेऽपि भाजना इत्येव स्यात्, तु भजना इति।]]
27
=>
[पृष्ठम्०९३९+ २६]