| YouTube Channel

महाप्रलयः (mahApralayaH)

 
Apte Hindi
Hindi
महाप्रलयः
पुं*
महा-प्रलयः -
"‘महाविघटन’ ब्रह्मा की जीवन समाप्ति पर विश्व का पूर्ण विनाश जबकि अपने अधिवासियों सहित समस्त लोक, देव, सन्त, ऋषि आदि स्वयं ब्रह्मा समेत सभी विनाश को प्राप्त हो जाते हैं"
वैजयन्तीकोषः
Sanskrit
Word: महाप्रलयः
Root: महाप्रलय
Gender: पुं
Number: all
अर्थः त्रिलोकनाशः
Meaning(s):
Great dissolution of the world
Shloka(s):
2|1|94|2 महाप्रलयकल्पान्तौ युगान्तो भूतसम्प्लवः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|94|2 महाप्रलयः (महाप्रलय) (पुं) Great dissolution of the world त्रिलोकनाशः
2|1|94|2 कल्पान्तः (कल्पान्त) (पुं) Great dissolution of the world त्रिलोकनाशः
2|1|94|2 युगान्तः (युगान्त) (पुं) Great dissolution of the world त्रिलोकनाशः
2|1|94|2 भूतसम्प्लवः (भूतसम्प्लव) (पुं) Great dissolution of the world त्रिलोकनाशः
Related word(s):
परा_अपरासंबन्धः प्रलयः
जातिः कालः
उपाधि समूहः
शब्दकल्पद्रुमः
Sanskrit
महाप्रलयः,
पुं,
(महांश्चासौ प्रलयो जगता-मवसानञ्चेति ।) त्रिलोकनाशः तत्पर्य्यायः ।संहारः इति हलायुधः
तस्य विवरणंयथा, --श्रीमार्कण्डेय उवाच ।“मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः ।एको मनुः कालस्तु मन्वन्तरमिति श्रुतम् ।तदेकसप्ततियुगैर्द्देवानामिह जायते ।तैश्चतुर्द्दशभिः कल्पो दिनमेकन्तु वेधसः
दिनान्ते वेधसो जाते सुषुप्सा तस्य जायते ।योगनिद्रा महामाया समायाति पितामहम्
नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः ।सुखं शेते भगवान् ब्रह्मा लोकपितामहः
ततो विष्णुः स्वयं भूत्वा रुद्ररूपी जनार्द्दनःपूर्व्ववन्नाशयामास सर्व्वं भुवनत्रयम्
वायुना वह्निना सर्व्वं दाहयामास वै यथा ।महाप्रलयकालेषु तथा सर्व्वं जगत्त्रयम्
जनं यान्ति प्रतापार्त्ता महर्लोकनिवासिनः ।त्रैलोक्यं दाहयामास पीडिता दारुणाग्निना
ततः कालान्तकैर्म्मेघैर्नानावर्णैर्महास्वनैः ।समुत्पाद्य महावृष्टिमापूर्य्य भुवनत्रयम्
चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसङ्गतैः ।निधाय जठरे लोकानिमांस्त्रीन् जनार्द्दनः
नागपर्य्यङ्कशयने शेते परमेश्वरः ।शयानं नाभिकमले ब्रह्माणं जगत्प्रभुः
संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा दग्ध्वा श्रियासह ।शेते भोगिशय्यायां ब्रह्मा नारायणात्मकः
योगनिद्रावशं यातस्त्रैलोक्यग्रासवृंहितः
त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः
तेन त्यक्ता तु पृथिवी क्षणमात्रादधो गता ।पतिता कूर्म्मपृष्ठे तु विशीर्णेव तदाभवत्
कूर्म्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले ।ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा
ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवी भवेत् ।इति तां परिजग्राह कूर्म्मरूपी जनार्द्दनः
चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा ।कूर्म्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम्
अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः ।तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम्
फणया मध्यया दध्रे त्रैलोक्यग्रासवृंहितम् ।पूर्व्वं फणं वितत्योर्द्धं पद्मं कृत्वा महाबलः ।विष्णुमाच्छादयामास शेषाख्यः परमेश्वरः
तस्योपधानमकरोदनन्तो दक्षिणां फणाम् ।उत्तरां पादयोश्चक्रे उपाधानं महाबलः
तालवृन्तं तदा चक्रे शेषः पश्चिमां फणाम् ।स्वयन्तु वीजयामास शेषरूपी जनार्द्दनम्
शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः ।ऐशानयाथ फणया दध्रे गरुडं तदा
गदां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् ।यानि चान्यानि तस्यासन्नाग्नेय्या फणया दधौ
एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः ।पृथ्वीमधरकायेन मग्नामाक्रम्य चाम्भसि
त्रैलोक्यब्रह्मसहितं सलक्ष्मीकं जनार्द्दनम् ।सोपासङ्गजगद्बीजं जगत्कारणकारणम्
नित्यानन्दं वेदमयं ब्रह्मण्यं परमेश्वरम् ।जगत्कारणकर्त्तारं जगत्कारणकारणम्
भूतभव्यभवन्नाथं परापरपतिं हरिम् ।दधार शिरसानन्तः स्वयमेव स्वकां तनूम्
एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः ।सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः
यस्मादयन्तु प्रलयो ब्रह्मणः स्याद्दिने दिने ।तस्माद्दैनन्दिनमिति ख्यापयन्ति पुराविदः
व्यतीतायां निशायान्तु ब्रह्मा लोकपितामहः ।त्यक्त्वा निद्रां समुत्तस्थौ पुनः सृष्टये त्विह
”इति कालिकापुराणे २७ अध्यायः
न्यायमते जन्यभावानधिकरणकालः चचरमध्वंसरूपः