रसाभास (rasAbhAsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiरसाभासः
रसः-आभासः -
किसी रस का बाह्यरूप या केवल प्रतीति
रसाभासः
रसः-आभासः -
किसी रस का अनुपयुक्त स्थान पर वर्णन
Shabdartha Kaustubha
Kannadaरसाभास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಯೋಗ್ಯ ರೀತಿಯಲ್ಲಿ ನಡೆಯುವ ರಸವರ್ಣನೆ
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritरसाभासः, (रस इव आभासते इति । आ +भास् + अच् ।) अनौचित्यविशिष्टरसः । तस्यलक्षणं यथा, --“अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ।”अनौचित्यञ्चात्र रसानां भरतादिप्रणीतलक्ष-णानां सामग्रीरहितत्वे सत्येकदेशयोगित्वोप-लक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एक-देशतो दर्श्यते । उपनायकसंस्थायां मुनिगुरु-पत्नीगतायाञ्च । बहुनायकविषयायां रतौतथानुभयनिष्ठायां प्रतिनायकनिष्ठत्वे तद्वदधम-पात्रतिर्य्यगादिगते शृङ्गारे अनौचित्यम् । रौद्रेगुर्व्वादिगतकोपे । शान्ते च हीननिष्ठे । गुर्व्वा-द्यालम्बने हास्ये । ब्रह्मवधाद्युत्साहे । अधम-पात्रगते तथा वीरे । उत्तमपात्रगतत्वे भयानकेज्ञेयमेवमन्यत्र । तत्र रतेरुपनायकनिष्ठत्वे यथामम ।“स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनीक्षौणीमावृणुते तमालमलिनच्छायातमः-सन्ततिः ।तन्मे सुन्दर ! मुञ्च कृष्ण ! सहसा वर्त्मेतिगोप्या गिरःश्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिःपातु वः ॥
”बहुनायकनिष्ठत्वे यथा, --“कान्तास्त एव भुवनत्रितगेऽपि मन्येयेषां कृते सुतनु ! पाण्डुरयं कपोलः ।”अनुभयनिष्ठत्वे यथा, --मालतीमाधवे नन्दनस्य मालत्याम् । पश्चा-दुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्व-मिति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथारत्नावल्याम् । सागरिकाया अन्योऽन्यदर्शनात्प्राक् वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथाहयग्रीववधे । हयग्रीवस्य जलक्रीडावर्णने ।अधमपात्रगतत्वे यथा, --“जघनस्थलनद्धपत्रवल्ली-गिरिमल्लीकुसुमानि कापि भिल्ली ।अवचित्य गिरौ पुरो निषण्णास्वकचानुत्कचयाञ्चकार भर्त्त्रा ॥
”तिर्य्यग्गतत्वे यथा, --“मल्लीमतल्लीषु वनान्तरेषुवल्ल्यन्तरे वल्लभमाह्वयन्ती ।पञ्चद्विपञ्ची कलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी ॥
”आदिशब्दात्तापसादयः । रौद्राभासो यथा, --“रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गोमुहु-र्म्मुक्ताकर्णेमपेतभीर्धृतधनुर्व्वाणो हरेः पश्यतः ।आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्व्विक्रमंकीर्त्तयन्अंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो-ऽर्ज्जुनः ॥
”भयानकाभासो यथा, --“अशक्नुवन् सोढुमधीरलोचनःसहस्ररश्मेरिव यस्य दर्शनम् ।प्रविश्य हेमाद्रिगुहागृहान्तरंनिनाय विभ्यद्दिवसानि कौशिकः ॥
”स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एव-मन्यत्र । इति साहित्यदर्पणे ३ परिच्छेदः ॥
वाचस्पत्यम्
Sanskritरसाभास रस इव आभासते आ + भास--अच् । “अनौ-चित्यप्रवृत्तत्वे आभासो रसभावयोः” सा० द० उक्तेपश्वादिपरनायकादिगतशृङ्गारादौ रसे ।“अनौचित्यञ्चाब्र रसानां भरतादिप्रणीतलक्षणानां साम-ग्रीरहितत्वे सत्येकदेशयोगित्योपलक्षणपरं बोध्यं तनुबालव्युत्पत्तये एकदेशतो दर्श्यते । “उपनायकसंख्यायांमुनिगुरुपत्रीगतायाञ्च । बहुनायकविषयायां रतोतथाऽनुभयनिष्ठायाम् । प्रतिनायकनिष्ठत्वे तद्वदधम-पात्रतिर्य्यगादिगते । शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगत-कोपे शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये ।ब्रह्मबधाद्युत्साहेऽधमपात्रगते तथा वीरे । उत्तमपात्र-गतत्वे भयानके ज्ञेयमेवमन्यत्र” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.